भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 298, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 298

उत्तरमेघः २५७

अन्वयः— (हे अबले !) यः, ते, सखीनाम्, पुरस्तात्, यत्, शब्दारुह्येयम् अपि, आननस्पर्शलोभात्, कर्णे, कथयितुम्, लोलः, अभूत्, किल । श्रवणविषयम्, अतिक्रान्तः, लोचनाभ्याम्, अदृश्यः, स, त्वाम्, उत्कण्ठाविरचितपदम्, इदम्, मन्मुखेन, आह ॥ ४० ॥

व्याख्या— (हे अबले !) यः = त्वत्प्रियः, ते = तव, सखीनाम् = आलीनाम्, पुरस्तात् = सम्मुखम्, यत् = वचनम्, शब्दारुह्येयम् = स्पष्टैः शब्दैः कथनीयम्, (तत्) अपि आननस्पर्शलोभात् = त्वद्वदनसम्पर्काभिलाषात्, कर्णे = श्रोत्रे, कथयितुम् = वक्तुम्, लोलः = चपलः, अभूत् = आसीत्, किल = निश्चयेन । श्रवणविषयम् = कर्णकुहरम्, अतिक्रान्तः = उल्लङ्घितः कर्णेन्द्रियाऽविषय इति भावः । लोचनाभ्याम् = नेत्राभ्याम्, अदृश्यः = अनवलोक्यः, सः = त्वत्प्रियः, उत्कण्ठाविरचितपदम् = औत्सुक्यनिर्मितपदम्, इदम् = अग्रेवक्ष्यमाणम्, मन्मुखेन = मदाननेन, आह = ब्रवीति ॥ ४० ॥

शब्दार्थः— (हे अबले !) यः = जो, (तुम्हारा प्रियतम) ते = तुम्हारे, सखीनाम् = सखियों के, पुरस्तात् = सामने, यत् = जो, शब्दारुह्येयम् = जो बात ऊँचे शब्दों में कही जा सकती थी (वह), अपि = भी, आननस्पर्शलोभात् = तुम्हारे मुख के स्पर्श के लोभ से, कर्णे = कान में, कथयितुम् = कहने के लिए, लोलः = चञ्चल, अभूत् = हो जाता था । श्रवणविषयः = कान के विषय से, अतिक्रान्तः = अछूता अर्थात् कान से जो नहीं सुना जा सकता, लोचनाभ्याम् = नेत्रों से अदृश्यः = जो नहीं देखा जा सकता, सः = वह (तुम्हारा प्रिय), त्वाम् = तुमको, उत्कण्ठाविरचितपदम् = उत्सुकतावश बनाये गये शब्दों वाला, इदम् = यह आगे कहा जाने वाला (सन्देश), मन्मुखेन = मेरे मुँह के माध्यम से, आह = कहता है ॥ ४० ॥

भावार्थः— हे सुन्दरि ! यस्ते वल्लभः पुरा त्वत्सहचरीनां समक्षं स्पष्टशब्दैः कथनीयमपि वचनं त्वन्मुख-चुम्बनाभिलाषया कर्णे वक्तुं चञ्चल आसीत् । स एव कर्णेन्द्रियातीतः चक्षुर्भ्यामदृश्यः दूरवर्ती त्वत्प्रियः उत्सुकतावशात् विरचित-पदं सन्देशं त्वां मन्मुखेन कथयति ॥ ४० ॥

हिन्दी— हे सुन्दरि ! जो प्रियतम तुम्हारी सखियों के सामने जिसे स्पष्ट शब्दों में (ऊँचे से) भी कहा जा सकता था ऐसी बातों को भी तुम्हारे मुख के

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित) · पृष्ठ 298, कुल 335 में से · BharatKosha