मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 304, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २६३
करके प्रिया का चित्र बनाना शुरू किया होगा। आलिख्य—‘आङ्’ उपसर्ग पूर्वक ‘लिख्’ धातु में ‘क्त्वा’ प्रत्यय करके उसके स्थान में ‘ल्यप्’ करके आलिख्य रूप बनता है। पतित—पतनार्थक ‘पत्’ धातु से कर्ता में ‘क्त’ प्रत्यय करके ‘पतित’ ऐसा रूप बनता है। नौ—‘अस्मद्’ शब्द के स्थान पर ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’ इस सूत्र से ‘नौ’ आदेश किया जाता है।
अलङ्कारः—इस पद्य में ‘अर्थापत्ति’ अलङ्कार है ॥ ४२ ॥
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुविसलयेष्वश्रुलेशाः पतन्ति ॥४३॥
अन्वयः—( हे प्रिये ! ) स्वप्नसंदर्शनेषु, मया, कथमपि, लब्धायाः, ते, निर्दयाऽऽश्लेषहेतोः आकाशप्रणिहितभुजम्, माम् पश्यन्तीनाम्, स्थलीदेवतानाम्, मुक्तास्थूलाः अश्रुलेशाः, तरुकिसलयेषु, बहुशः, न, पतन्ति, न खलु ॥ ४३ ॥
व्याख्या — हे प्रिये ! ) स्वप्नसंदर्शनेषु = स्वप्नसाक्षात्कारेषु, मया = यक्षेण, कथमपि = केनापि प्रकारेण, लब्धायाः = प्राप्तायाः, ते = तव, निर्दयाऽऽश्लेषहेतोः = पुरुषाऽऽलिङ्गनार्थमितिभावः, आकाशप्रणिहितभुजम् = गगनप्रसारितबाहुम्, माम् = यक्षम्, पश्यन्तीनाम् = अवलोकयन्तीनाम्, स्थलीदेवतानाम् = अरण्यस्थलीदेवीनाम्, मुक्तास्थूलाः = मौक्तिकपीवराः, अश्रुलेशाः = अस्रबिन्दवः बाष्पकणा इत्यर्थः, तरुकिसलयेषु = वृक्षनवपल्लवेषु, बहुशः = भूरिशः, न पतन्ति = न स्खलन्ति, (इति) न = नहि, अपितु पतन्त्येव, खलु = निश्चयेन ॥ ४३ ॥
शब्दार्थः—(हे प्रिये !) स्वप्नसंदर्शनेषु = स्वप्न के देखने में, मया = मेरे द्वारा, कथमपि = किसी प्रकार से, लब्धायाः = प्राप्त, ते = तुम्हारे; निर्दयाऽऽश्लेषहेतोः = कठोर आलिङ्गन के लिए, आकाशप्रणिहितभुजम् = आकाश में फैलाये गये बाहुवाले, माम् = मुझको, पश्यन्तीनाम् = देखती हुई, स्थलीदेवतानाम् = वनदै-