भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 294, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 294

उत्तरमेघः २५३

वियुक्तः = वियोगं प्राप्तः, ( सन् ) त्वाम् = भवतीम्, प्रियामित्यर्थः, कुशलम् = क्षेमम्, मङ्गलमितियावत्, पृच्छति = जिज्ञासते । सुलभविपदाम् = सुगमापत्तीनाम्, प्राणिनाम् = जन्तूनाम्, एतदेव = कुशलमेव, पूर्वाभाष्यम् = प्राक्कथनीयम् ॥३८॥

समासः—हे आयुष्मन् = हे चिरजीविन् ! मम = मेरे, वचनात् = प्रार्थना वाक्यों से, आत्मनश्च = और अपने को भी, उपकर्तुम् = उपकृत करने के लिए, अर्थात् परोपकार की भावना से, ताम् = उस मेरी प्रिया को, एवम् = इस प्रकार, ब्रूयाः = कहना, ( कि ) हे अबले ! = हे कृशाङ्गि ! तव = तुम्हारा, सहचरः = साथी (सहगामी), रामगिर्याश्रमस्थः = रामगिरि के आश्रमों में रहता हुआ, अव्यापन्नः = सकुशल, वियुक्तः = (तुमसे) बिछुड़ा (हुआ), त्वाम् = तुम्हारी, कुशलम् = कुशलता को, पृच्छति = पूछता है । सुलभविपदाम् = आसानी से विपत्तियों को प्राप्त करने वाले, प्राणिनाम् = प्राणियों के लिए, एतदेव = कुशल प्रश्न ही, पूर्वाभाष्यम् = प्रारम्भ में पूछने योग्य होता है ॥ ३८ ॥

भावार्थः—हे आयुष्मन् ! त्वं मत्प्रार्थनावचोभिरुपकारभावनया च मत्प्रियामित्थं कथयेः ( यत् ) हे अबले ! 'त्वत्प्रियः रामगिर्याश्रमेषु निवसन् कुशली त्वद्वियुक्तः सन् त्वत्कुशलं पृच्छति' । सुगमप्राप्तविपत्तीनां जन्तूनां प्राक्कथनीयं कुशलमेव भवति ॥ ३८ ॥

हिन्दी—हे चिरञ्जीव ! तुम मेरी प्रार्थना से और उपकार की भावना से मेरी प्रिया को ऐसा कहना—( कि ) 'हे अबले ! तुम्हारा प्रियतम तुमसे बिछुड़ा हुआ रामगिरि पर्वत के आश्रमों में रहता हुआ सकुशल तुम्हारा कुशल पूछ रहा है।' क्योंकि अनायास ही विपत्ति में फँस जाने वाले प्राणियों को पहले कुशल ही पूछना चाहिए ॥ ३८ ॥

समासः—रामगिरेः आश्रमाः = रामगिर्याश्रमाः (ष० तत्०) तेषु तिष्ठति इति रामगिर्याश्रमस्थः (उपपदसमास०)। न व्यापन्नः = अव्यापन्नः (नञ्०) । पूर्वंमाभाष्यम् = पूर्वाभाष्यम् (सुप्सुपा०) । सुलभा विपत् येषां ते सुलभविपदः ( बहु० ) तेषाम् ।

कोशः—कुशलं क्षेममस्त्रियाम्, इत्यमरः । स्त्रीयोषिदबलायोषा, इत्यमरः । जैवातृकः स्यादायुष्मन्, इत्यमरः । विपत्यां विपदापदो, इत्यमरः ।

१७ मे० दूत ०