मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 307, कुल 335 में से
संदर्भ में पढ़ें| २६६ | मेघदूतम् |
|---|
मार्गेण, प्रवृत्ताः = प्रचलिताः, हे गुणवति = हे सर्वगुण-सम्पन्ने ! पूर्वम् = प्राक्, एभिः = हिमालयपवनैः, तव = भवत्याः, प्रियाया इत्यर्थः, अङ्गम् = शरीरम्, स्पृष्टम् = आमृष्टम्, भवेत् = स्यात्, यदि = चेत्, ते = हिमालय-पवनाः, किल = इतिसंभावनायाम्, इति = एवंप्रकारेण निश्चयेन, मया = यक्षेण, आलिङ्ग्यन्ते = आश्लिष्यन्ते ॥ ४४ ॥
शब्दार्थः—देवदारु-द्रुमाणां = देवदारु वृक्षों के, किसलयपुटात् = पल्लवों की तहों को, सद्यः = शीघ्र ही, भित्त्वा = खिलाकर, तत्क्षीरस्रुतिसुरभयः = उनके बहते हुए दूध से सुगन्धित, ये तुषाराद्रिवाताः = जो हिमालय की हवा, दक्षिणेन = दक्षिण की ओर, प्रवृत्ता = बह रही है, हे गुणवति = हे शौशील्यादि गुणसम्पन्ने ! पूर्वम् = पहले; एभिः = इन हवाओं से; तव = तुम्हारा; अङ्गम् = शरीर, स्पृष्टम् = छुआ गया, भवेत् = होगा; यदि = यदि; किल = अवश्य, इति = इसी सम्भावना से; ते = वे हवाएँ, मया = मेरे द्वारा, आलिङ्ग्यन्ते = आलिङ्गित की जाती हैं ॥ ४४ ॥
भावार्थः—हे गुणवति ! देवदारुपल्लवान् विकास्य यद्दुग्धसुगन्धिभिः सुगन्धिताः दक्षिणमार्गप्रचलिताः हिमालयपवनाः प्राक् त्वदङ्गेन स्पृष्टा अवश्यं भवेयुरिति संभावनया अहं तान् हिमालयपवनानालिङ्गयामि ॥ ४४ ॥
हिन्दी—हे गुणवति ! देवदारु के पल्लवों को खिलाकर उसके बहते हुए दूध की सुगन्धि से सुगन्धित दक्षिण की ओर बहने वाली हिमालय की वायु से पहले तुम्हारे अङ्ग का स्पर्श अवश्य हुआ होगा, इस संभावना से मैं हिमालय की उन हवाओं का आलिङ्गन करता हूँ ॥ ४४ ॥
समासः—देवदारवश्च ते द्रुमाः = देवदारुद्रुमाः (कर्मधा०) तेषाम्। किसलयानि पुटा इव = किसलयपुटा (उपमित क० धा०) तान्। तेषां क्षीरम् = तत्क्षीरम् (ष० तत्०) तस्य स्रुतिः = तत्क्षीरस्रुतिः (ष० तत्०), तया सुरभयः = तत्क्षीरस्रुतिसुरभयः (तृ० तत्०)। तुषारस्य अद्रिः = तुषाराद्रिः (ष० त०) तस्य वाताः = तुषाराद्रिवाताः (ष० तत्०)।
कोशः—वार्तासम्भाव्ययोः किल, इत्यमरः। सद्यः सपदि तत्क्षणेः, इत्यमरः।