मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 309, कुल 335 में से
संदर्भ में पढ़ें२६८ मेघदूतम्
प्रार्थनम् = अप्राप्याभिलाषम्, मे = मम, यक्षस्येत्यर्थः, चेतः = मनः, गाढोष्माभिः = अत्यधिकतापवद्भिः, त्वद्व्यथाभिः = त्वदीयवियोगपीडाभिः, अशरणम् = अनाथम्, कृतम् = सम्पादितम् ॥ ४५ ॥
शब्दार्थः—दीर्घयामा = बड़े प्रहरों वाली, त्रियामा = रात, कथम् = किस प्रकार, क्षण इव = एक पल के समान, संक्षिप्येत = छोटी हो जाये, अहरपि = दिन भी, सर्वाऽवस्थासु = सभी दशाओं में, कथम् = किस प्रकार, मन्दमन्दातपम् = कम सन्तापवाला, भवेत् = हो जाये । हे चतुलनयने = हे चञ्चल नयनों वाली ! इत्थम् = इस प्रकार, दुर्लभ-प्रार्थनम् = अप्राप्य मनोरथवाला, मम = मेरा, चेतः = मन, गाढोष्माभिः = अत्यधिक सन्ताप वाली, त्वद्व्यथाभिः = तुम्हारे वियोग की पीडा से, अशरणम् = असहाय, कृतम् = बना दिया गया है ॥ ४५ ॥
भावार्थः—दीर्घप्रहरा रजनी केन प्रकारेण लघ्वी भवेत् ? दिनमपि सम्पूर्णा-वस्थासु केन प्रकारेण अत्यल्पसन्तापयुक्तं भवेत् ? हे चञ्चलाक्षि ! इत्थं कठिन-प्राप्यमनोरथं मे मनः त्वद्विरहवेदनाभिरनाथं कृतम् ॥ ४५ ॥
हिन्दी—बड़े-बड़े प्रहरों वाली रात किस तरह छोटी हो जाये ? दिन भी सब समयों में कैसे अत्यल्प सन्ताप वाला हो जाये ? हे चपलनयने ! इस तरह कठिनता से प्राप्त मनोरथ वाला मेरा मन तुम्हारे वियोग की व्यथा से अनाथ बना दिया गया है ॥ ४५ ॥
समासः—दीर्घा यामा यस्याः सा दीर्घयामा ( बहु० ) । त्रयो यामा यस्याः सा त्रियामा (बहु०) । सर्वाश्च ता अवस्थाः = सर्वाऽवस्थाः (कर्म०धा०) तासु । मन्दमन्दः आतपो यस्मिंस्तत् = मन्दमन्दातपम् ( बहु० ) । चटुले नयने यस्याः सा = चटुलनयना (बहु०) । तत् सम्बुद्धौ । दुर्लभा प्रार्थना यस्य तत् = दुर्लभप्रार्थनम् ( बहु० ) गाढ ऊष्मा यासां ता गाढोष्माणः ( बहु० ) ताभिः । तव वियोगः = त्वद्वियोगः ( ष० तत्० ) तस्य व्यथाः त्वद्वियोगव्यथाः ( ष० तत्० ) ताभिः । अविद्यमानं शरणं यस्य तत् = ( नञ्० बहु० ) ।
कोशः—शरणं गृहरक्षित्रोः, इत्यमरः । निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा, इत्यमरः । घस्रो दिनाहनी वातु क्लीबे दिवसवासरौ, इत्यमरः ।