मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 311, कुल 335 में से
संदर्भ में पढ़ें| २७० | मेघदूतम् |
|---|
= आनन्दः, दुखम् = कष्टम्, वा = अथवा, एकान्ततः = नियमेन, उपनतम् = प्राप्तम् । (किन्तु) चक्रनेमिक्रमेण = स्यन्दनाङ्गप्रधिपरिपाट्या, दशा = अवस्था, नीचैः = अधः, उपरि च = ऊर्ध्वञ्च, गच्छति = याति ॥ ४६ ॥
शब्दार्थः—ननु = हे प्रिये ! वस्तुतः, बहु = बार-बार, विगणयन् = विचार करता हुआ, (मैं) आत्मानम् = अपने को, आत्मनैव — अपने द्वारा ही, अवलम्बे = धीरज बँधाता रहता हूँ । तत् = इस कारण से, हे कल्याणि = हे सौभाग्यवति ! त्वमपि = तुम भी, नितराम् = अत्यधिक, कातरत्वम् = भीरुता को, मागमः = मत प्राप्त करना, (इस संसार में) कस्य = किस व्यक्ति का, अत्यन्तम् = अत्यन्त, सुखम् = आनन्द, दुःखम् = कष्ट, वा = अथवा, एकान्ततः = नियमित, उपनतम् = रहा है। चक्रनेमिक्रमेण = रथ की धुरी के क्रम से, दशा = (व्यक्ति की) अवस्था, नीचैः = नीचे की ओर, उपरि च = ऊपर की ओर, गच्छति = जाती रहती है ॥ ४६ ॥
भावार्थः—हे प्रिये ! बहु विचारयन्नात्मानमात्मनैव धारयामि, तस्मात् कारणात् हे सुभगे ! त्वमपि बहुभीरुतां मा गच्छेः, कस्य जनस्य अत्यधिकं सुखं दुःखं वा नित्यं प्राप्तम्, रथचक्राङ्गपरिपाट्या व्यक्तिदशा नीचैः उपरि च गच्छति ॥ ४६ ॥
हिन्दी—हे प्रिये ! बहुत विचार करता हुआ मैं अपने को स्वयं ही धीरज बँधाता रहता हूँ, इसलिए हे सौभाग्यवति ! तुम भी अधिक भीरुता को मत प्राप्त करना । किस व्यक्ति का अत्यधिक सुख या दुःख नित्य रहता है ? रथ की धुरी के समान व्यक्ति की दशा ( कभी ) ऊपर और ( कभी ) नीचे जाती है ॥ ४६ ॥
समासः—अन्तमतिक्रान्तः—अत्यन्तम् (अत्यादयः क्रान्ताद्यर्थे द्वितीया) । चक्रस्य नेमिः—चक्रनेमिः ( ष० तत्० ) तस्य क्रमः चक्रनेमिक्रमः (ष० तत्०) तेन ।
कोशः—प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु, इत्यमरः । चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात् प्रधिः पुमान्, इत्यमरः । चक्रधारा प्रधिर्नेमिः, इति यादवः ।