मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 313, कुल 335 में से
संदर्भ में पढ़ें२७२ | मेघदूतम्
गणितम्, तं तम्, आत्माऽभिलाषम्, परिणतशरच्चन्द्रिकासु, क्षपासु, निर्वेक्ष्यावः ॥ ४७ ॥
व्याख्या — हे प्रिये ! शार्ङ्गपाणौ = विष्णौ, भुजगशयनात् = शेषशय्यातः, उत्थिते = प्रबुद्धे (सति) मे = मम (यक्षस्य) शापान्तः = शापावसानः । शेषान् = अवशिष्टान्, चतुरः = चतुःसंख्याकान्, मासान् = त्रिंशद्दिवसीयकालविशेषान्; लोचने = नेत्रे, मीलयित्वा = निमील्य, गमय = व्यतीतय । पश्चात् = शापावसानान्तरम्, आवाम् = अहञ्च त्वञ्च, विरहगणितम् = वियोग-विगणितम्, तं तम् = अनेकप्रकारकम्, आत्माऽभिलाषम् = निजमनोरथम्, परिणतशरच्चन्द्रिकासु = परिपक्वशरदिन्दुकलासु, क्षपासु = रात्रिषु, निर्वेक्ष्यावः = भोक्ष्यावहे ॥ ४७ ॥
शब्दार्थः—(हे प्रिये !) शार्ङ्गपाणौ = विष्णुभगवान् के, भुजगशयनात् = शेषशय्या से, उत्थिते = उठ जाने पर, मे = मेरे, शापान्तः = शाप का अन्त (होगा) । शेषान् = (तब तक तुम) बचे, चतुरः = चार, मासान् = महीनों को, लोचने = आँखें, मीलयित्वा = मूँदकर, गमय = बिताओ । पश्चात् = चार महीने बाद, आवाम् = हम दोनों, विरहगणितम् = वियोग-संकल्पित, तं तम् = उन-उन (अनेक प्रकार के), आत्माऽभिलाषम् = अपने मनोरथों का, परिणतशरच्चन्द्रिकासु = शरद्ऋतु की परिणत चन्द्रिका वाली, क्षपासु = रातों में, निर्वेक्ष्यावः = उपभोग करेंगे ॥ ४७ ॥
भावार्थः—हे प्रिये ! शेषशय्यातः यदा विष्णावुत्थिते सति मे शापविमुक्तिर्भविष्यति । अतः शेषं मासचतुष्टयं नेत्रे निमील्य यापय । तदनन्तरमावां वियोगसङ्कल्पितमनेकप्रकारं मनोऽभिलाषं शरदिन्दुकलाधवलितासु रात्रिषु भोक्ष्यावहे ॥ ४७ ॥
हिन्दी—हे प्रिये ! शेषशय्या से भगवान् विष्णु के उठ जाने पर मेरे शाप की निवृत्ति होगी । अतः बचे हुए चार महीनों को आँखें मीचकर बिता डालो । पीछे हम दोनों वियोग में विचारे गये उन अनेक प्रकार के अपने मनोरथों का शरत्काल की परिपक्व चन्द्रिका वाली रातों में उपभोग करेंगे ॥ ४७ ॥