मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 315, कुल 335 में से
संदर्भ में पढ़ें२७४ | मेघदूतम्
सहोक्तौ यत्परं तच्छिष्यते' इस वार्तिक के नियमानुसार पर रहने के कारण 'अस्मद्' शब्द शेष रह गया। तं तम्—यहाँ वीप्सा में द्विरुक्ति है।
अलङ्कारः—यहाँ 'उदात्त' अलंकार है ॥ ४७ ॥
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदति सस्वनं विप्रबुद्धा।
सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव! रमयन् कामपि त्वं मयेति ॥४८॥
अन्वयः—भूयश्च, आह, (हे प्रिये!) पुरा, शयने, मे, कण्ठलग्ना, अपि; त्वम्, निद्राम्, गत्वा, किमपि, सस्वनम्, रुदति, विप्रबुद्धा। असकृत्, पृच्छतः, मे, 'हे कितव! त्वम्, कामपि, रमयन्, मया, स्वप्ने, दृष्टः' इति, त्वया, सान्तर्हासम्, कथितम्, च ॥ ४८ ॥
व्याख्या—मेघः कथयति यक्षसंवादम्, भूयः=पुनरपि, (त्वत्प्रियः) आह=ब्रवीति, पुरा=वियोगात्पूर्वम्, शयने=तल्पे, मे=मम, कण्ठलग्ना अपि=गलसंलग्ना, 'अपि', त्वम्=मत्प्रिया, निद्राम्=स्वापम्, गत्वा,=लब्ध्वा, किमपि केनाऽपि प्रकारेण, सस्वनम्=शब्दसहितम्, रुदती=रोदनं कुर्वती, विप्रबुद्धा=जागरिता (आसीः) ततश्च असकृत्=पुनः पुनः, पृच्छतः=जिज्ञासां कुर्वतः, मे=मम प्रियस्येतिभावः, हे कितव!=हे धूर्त! त्वम्=मत्प्रियः; कामपि=अपरिचितनामधेयां स्त्रियम्, रमयन्=क्रीडयन्, मया=प्रियया, स्वप्ने=संवेशे, दृष्टः=विलोकितः, इति=एवम्, त्वया=प्रियया, सान्तर्हासम्=अन्तर्हाससहितम्, कथितञ्च=उक्तञ्च ॥ ४८ ॥
शब्दार्थः—भूयश्च=(तुम्हारे पति ने) पुनः, आह=कहा, (हे प्रिये!) पुरा=पहले, शयने=शय्या पर, मे=मेरे, कण्ठलग्ना अपि=गले में लिपटी भी, त्वम्=तुम, निद्राम्=नींद को, गत्वा=प्राप्त कर, किमपि=न जाने क्यों? सस्वनम्=शब्दों सहित अर्थात् ऊँचे स्वर से, रुदती=रोती हुई, विप्रबुद्धा=जाग पड़ी थी। (पीछे) असकृत्=बहुत, पृच्छतः=पूछने पर, 'हे कितव!=