मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 330, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः २८९
उदन्तम् = वृत्तान्तम्, प्राप्य = लब्ध्वा, प्रमुदितमनाः = प्रफुल्लहृदया, तस्थौ = स्थिता, हि = यतः, उत्तमेषु = महत्सु (विषये) प्रार्थना = याच्ञा, केषाम् = जना- नाम्, अभिमतफला = प्राप्तकामा, न भवेत् = न स्यात्, सर्वेषाम् प्रार्थना महत्सु लब्धकामा, भवत्येवेति भावः ॥ १ ॥
शब्दार्थः—जनहितरतः = लोकोपकार में लगे, जलधरवरः = श्रेष्ठ मेघ ने, तस्याः = उस, यक्षवध्वाः = यक्षप्रिया के, प्राणान् = प्राणों की, रक्षितुम् = रक्षा के लिए, दिव्यवाचा = अलौकिक वाणी से, तम् = उस यक्ष के द्वारा कहे गये, सन्देशम् = सन्देश को, आचचक्षे = कहा। सा अपि = वह यक्षपत्नी भी, स्वभर्तुः = अपने प्रियतम के, उदन्तम् = वृत्तान्त को, प्राप्य = पाकर, प्रमुदित- मनाः = प्रसन्न हृदय वाली, तस्थौ = हुई। हि = क्योंकि, उत्तमेषु = बड़ों से, प्रार्थना = की गयी याचना, केषाम् = किनकी, अभिमतफला = सफल, न स्यात् = न हो ? अर्थात् सबों की प्रार्थना सफल होती ही है ॥ १ ॥
भावार्थः—लोकोपकारी मेघश्रेष्ठो यक्षपत्न्याः प्राणरक्षार्थं यक्षोक्तं सन्देशं लोकोत्तरवाण्या तस्यै जगाद। यक्ष-प्रियाऽपि स्वभर्तुवृत्तान्तं श्रुत्वा प्रमुदित- मना बभूव। महत्सु केषां प्रार्थना सफला न भवत्यपितु सर्वेषां भवत्येवेति- भावः ॥ १ ॥
हिन्दी—लोक के उपकार में संलग्न श्रेष्ठ मेघ ने उस यक्षपत्नी के प्राणों की रक्षा के लिए यक्ष के द्वारा कहे गये सन्देश को अलौकिक वाणी से यक्षप्रिया को कहा। वह यक्षप्रिया भी अपने पति के वृत्तान्त को सुनकर प्रसन्न मन वाली हो गयी। क्योंकि महापुरुषों से की गयी किसकी प्रार्थना सफल नहीं होती। अर्थात् सबों की होती है।
समासः—जनहितेः रतः=जनहितरतः (स० तत्०), जलानां धराः = जल- धराः ( ष० तत्० ) तेषु श्रेष्ठः जलधरश्रेष्ठः ( स० तत्० )। यक्षस्य वधूः यक्षवधूः ( ष० तत्० ) तस्याः। दिव्या चासौ वाक् = दिव्यवाक् (कर्म० धा०) तया। स्वस्य भर्ता = स्वभर्ता ( ष० तत्० ) तस्य। प्रमुदितं मनो यस्याः सा प्रमुदितमना ( बहु० )। अभिमतं फलं यस्याः सा अभिमतफला ( बहु० )।