भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 332, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 332

उत्तरमेघः २९१

अस्तकोपः, सद्यः, शापस्य, अन्तम्, संविधाय, विगलितशुचौ, हृष्टचित्तो, एतौ, दम्पती, संयोज्य, इष्टान्, भोगान्, अविरतसुखम्, शश्वत्, भोजयामास ॥२॥

व्याख्या—धनेशः अपि = कुबेरोऽपि, जलदकथिताम् = मेघव्याहृताम्, ताम् = पूर्व-प्रतिपादिताम्, वार्ताम् = प्रवृत्तिम्, श्रुत्वा = आकर्ण्य, सदयहृदयः = सकरुणचित्तः, अस्तकोपः = विगतमन्युः, सन्, सद्यः = तत्क्षण एव, शापस्य = शपनस्य, अन्तम् = समाप्तिं, संविधाय = कृत्वा, विगलितशुचौ = अपगतशोको, हृष्टचित्तौ = प्रसन्नहृदयौ; एतौ = पूर्वोक्तो, दम्पती = जायापती, अज्ञातनामानं यक्षं तस्य पत्नीञ्च, संयोज्य = सम्मेल्य, इष्टान् = प्रियान्, भोगान् = भोग्यपदार्थान्, अविरतसुखम् = निरन्तरसुखम्, यथा स्यात्तथा, शश्वत् = पुनः पुनः, भोजयामास = अनुभवायाम्बभूव ॥ २ ॥

शब्दार्थः—धनेशः = कुबेर, अपि = भी, जलद-कथिताम् = मेघ के द्वारा कहे गये, ताम् = उस, वार्ताम् = सन्देश को, श्रुत्वा = सुनकर, सदयहृदयः = करुणहृदय, अतएव; अस्तकोपः = शान्तक्रोध (वाला होकर) सद्यः = तुरत ही; शापस्य = (अपने द्वारा दिये गये) शाप का, अन्तम् = अन्त, संविधाय = करके, विगलितशुचौ = विनष्ट शोक वाले, अतएव, प्रहृष्टचित्तौ = प्रसन्न मन वाले, एतौ = इन, दम्पती = पति-पत्नी को, संयोज्य = मिलाकर, इष्टान् = अभिलषित, भोगान् = भोग्य पदार्थों का, अविरतसुखम् = जिस प्रकार निरन्तर सुख मिलता रहे, शश्वत् = बार-बार, भोजयामास = उपभोग कराया ॥ २ ॥

भावार्थः—कुबेरोऽपि मेघोक्तं यक्षसन्देशमाकर्ण्य सकरुणः विगतमन्युः सन् शापस्य तत्क्षणमेवावसानं कृत्वा निर्गतशोको प्रसन्नमानसावेतौ जायापती सम्मेल्य निरन्तरं यथाऽऽनन्दं स्यात्तथा पुनः पुनः अभिलषितभोग्यपदार्थान् भोजयामास ॥ २ ॥

हिन्दी—कुबेर भी मेघ द्वारा कहे गये यक्ष के सन्देश को सुनकर करुणा से शान्त क्रोध वाला होकर अपने शाप को तुरंत समाप्त करके विनष्ट-दुःख वाले अतः प्रसन्न हृदय वाले उन दोनों यक्ष एवं उसकी पत्नी को मिलाकर जिससे उन्हें सर्वदा आनन्द मिलता रहे, इस प्रकार पुनः पुनः उन दोनों को अभिलषित भोग्य पदार्थों का उपभोग कराया ।

समासः—दयया सहितम् = सदयम् (तुल्ययोग बहु०)। सदयं हृदयं यस्य