मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 52, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः १३
प्रत्यासन्ने नभसि दयिता-जीविता-लम्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
**अन्वयः—**सः नभसि प्रत्यासन्ने दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं प्रवृत्तिं हारयिष्यन् प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतप्रमुख-वचनं स्वागतम् व्याजहार ।
व्याख्या — ध्यानानन्तरं, सः = यक्षः (प्रियाचिन्तकः) नभसि = श्रावणे मासि, प्रत्यासन्ने = बहुनिकटवर्तिनि (सति), दयिताजीवितालम्बनार्थी = प्रियाप्राणधारणाभिलाषी, (सन्) जीमूतेन = मेघेन, स्वकुशलमयीं = निजक्षेम-मुख्याम्; प्रवृत्तिं = वार्ताम्; हारयिष्यन् = वाहयिष्यन्, प्रत्यग्रैः = नवीनैः, कुटजकुसुमैः, वासकुसुमैः, कल्पितार्घाय = विहितानुष्ठानविध्ये, तस्मै = दूतत्वेन सम्प्रेष्यमानाय जीमूतायेत्यर्थः । प्रीतः = प्रहृष्टः (सन्) प्रीतिप्रमुखवचनम् = स्नेहप्रधानोक्तिम्, यथास्यात्तथा, स्वागतम् = शुभागमनम्, व्याजहार = उवाच, मेघस्य स्वागतञ्चकारेत्यर्थः ।
**शब्दार्थः—**ध्यान के बाद, सः = उस यक्ष ने, नभसि = श्रावण मास के, प्रत्यासन्ने = अत्यन्त नजदीक आ जाने पर दयिताजीवितालम्बनार्थी = प्रिया के जीवन का अभिलाषी, जीमूतेन = मेघ के द्वारा, स्वकुशलमयीम् = अपने कुशल प्रवृत्तिम् = समाचार को, हारयिष्यन् = भेजने की इच्छा करता हुआ, प्रत्यग्रैः = नवीन, कुटजकुसुमैः = पर्वतीय पुष्पविशेष के द्वारा, कल्पितार्घाय = जिसके लिए अर्घ (पूजा की विधि) तैयार की गयी है (ऐसे) मेघाय = मेघ के लिए, प्रीतः = प्रसन्न होकर, प्रीतिप्रमुखवचनं = प्रेमपूर्ण शब्दों में, स्वागतम् = शुभागमन, व्याजहार = कहा ।
**भावार्थः—**ध्यानं विधाय सः यक्षः श्रावणे मासे समीपे आगते सति प्रियाया प्राणधारणाभिलाषया मेघेन निजकुशलपूर्णां वार्तां प्रेषणकामः सन् नूतन-गिरि-मल्लिकापुष्पैः तमर्चयित्वा प्रसन्नः सन् प्रेमपूर्णवाणिभिः तस्य स्वागतं चकार ।