मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 66, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः २७
मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्ध-मालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९ ॥
अन्वयः— अनुकूलः पवनो मन्दं यथा त्वां मन्दं नुदति । अयं सगन्धः ते वामः चातको मधुरं नदति । गर्भाधान-क्षणपरिचयात् आबद्धमालाः बलाकाः खे नयनसुभगं भवन्तं नूनं सेविष्यन्ते ।
व्याख्या— त्वत्यात्रा-काले शकुनान्यपि शुभानि वर्तन्त इति कथयति मन्दं मन्दमित्यादिना । अनुकूलः = अनुगुणः, पवनः = वायुः मन्दं यथा = स्थिरमिव, त्वाम् = भवन्तं, मन्दं = शनैः शनैः यथा स्यात्तथा, नुदति = चोदयति । अयं = पार्श्वस्थः, सगन्धः = सगर्वः, ते = भवत; वामः = अपसव्यभागे ( सुन्दरो वा ) चातकः = पक्षिविशेषः, मधुरं = मनोरमं यथा स्यात्तथा नदति = वक्ति । गर्भाधानक्षणपरिचयात् = रतिसमय-जातसंस्तवात्, आबद्धमालाः = रचितपङ्क्तयः, बलाकाः = बकप्रियाः, खे = गगने, नयनसुभगम् = दर्शनप्रियम्, भवन्तम् = मेघम्, नूनम् = अवश्यं, सेविष्यन्ते = समुपचारयिष्यन्ति । यात्राकाले पवना-नुकूल्यं चातकध्वनिः बलाकादर्शनं शुभ-सूचकमिति वदन्ति दैवज्ञाः ।
शब्दार्थः— अनुकूलः = अनुरूप, पवनः = हवा, मन्दं = मन्दगति वाला, त्वाम् = तुमको, मन्दम् = धीरे धीरे, नुदति = प्रेरित करता है । अयं = यह, सगर्वः = गर्वयुक्त, ते = तुम्हारे, वामः = बायें भाग मे अथवा सुन्दर, चातकः = पपीहा, मधुरं = श्रवणप्रिय, नदति = शब्द कर रहा है । गर्भाधानक्षणपरि-चयात् = गर्भाधान के समय परिचय होने के कारण, आबद्धमालाः = पंक्तिबद्ध, बलाकाः = बगुलियाँ, खे = आकाश में, नयनसुभगम् = देखने में सुन्दर, भवन्तम् = तुम्हारा, नूनम् = अवश्य, सेविष्यन्ते = आश्रयण करेंगी ।
भावार्थः— हे पयोद ! तव यात्रा-समये इमानि शुभसूचकानि शकुनान्यपि दृश्यन्ते । यथा—त्वदनुरूप एवं मन्दगतिर्वायुः शनैः शनैस्त्वां प्रेरयति एवञ्च त्वद्-