मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 73, कुल 335 में से
संदर्भ में पढ़ें३४
मेघदूतम्
प्रियसखम् = मित्रवर्यम्, अमुम् = सम्मुखस्थम् रामगिरिम्, शैलम् = पर्वतम्, आलिङ्ग्य = आश्लिष्य, आपृच्छस्व = सभाजयस्व, हे मित्र ! अहं गच्छामीति संसूचयेतिभावः। काले काले = समये समये, भवतः = मेघस्य, संयोगम् = सान्निध्यम्; एत्य = प्राप्य, चिरविरहजम् = दीर्घकालिक-विरहजन्यम्, उष्णम् = तप्तम्, बाष्पम् = अश्रु, मुञ्चतः = त्यजतः, यस्य = रामगिरेः, स्नेहव्यक्तिः = प्रेमप्राकट्यं, भवति = वरीवर्तत इति अनुमीये।
शब्दार्थः—पुंसाम् = मानवों के, वन्द्यैः = पूज्य, रघुपतिपदैः = रामचन्द्रजी के चरणों से, मेखलासु = मध्यभाग में, अङ्कितम् = चिह्नित, तुङ्गम् = अत्यन्त ऊँचे, प्रियसखम् = अपने प्रिय मित्र, अमुम् = इस रामगिरि, शैलम् = पर्वत का, आलिङ्ग्य = आलिंगन कर, उससे, आपृच्छस्व = अनुमति ले लो। काले काले = समय समय पर, भवतः = तुम्हारे, संयोगम् = मिलने को, एत्य = प्राप्तकर, चिरविरहजम् = बहुत दिनों के वियोग से उत्पन्न, उष्णम् = गर्म, बाष्पम् = आंसू, त्यजतः = छोड़ते हुए; यस्य = जिसकी स्नेहव्यक्तिः = प्रेमाभिव्यक्ति; भवति = होती है।
भावार्थः—हे मेघ ! मानवाराध्यैः रामचन्द्रचरणविन्यासैः मेखलासु चिह्नितमेनं प्रियमित्रमत्युन्नतं रामगिरिमाश्लिष्य ततः अनुमिति गृह्णाण। तव संयोगं प्राप्य समये समये यस्य गिरेः चिरवियोगत्पन्नाश्रुभिः स्नेहाभिव्यक्तिः भवति।
हिन्दी—हे मेघ ! मानवमात्र के पूज्य श्रीरामचन्द्रजी के चरणों से चिह्नित मध्यप्रदेश वाले इस अपने मित्र रामगिरि से मिलकर उससे (अलका जाने की) अनुमति ले लो। तुम्हारा संयोग पाकर, समय-समय पर, बहुत दिनों के वियोग के कारण उत्पन्न उष्ण अश्रुओं के द्वारा जिसकी स्नेहव्यक्ति हुआ करती है।
समासः—रघूणां पतिः = रघुपतिः (ष० तत्०) तस्य पदानि = रघुपतिपदम् (ष० तत्०) तैः। प्रियश्चासौ सखा = प्रियसखः, तम् (कर्मधारय)। चिरविरहात् जातः = चिरविरहजः तम् (पञ्चमी तत्०)। स्नेहस्य व्यक्तिः स्नेहव्यक्तिः (ष० तत्०)।