भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 75, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 75

३६ | मेघदूतम्

शृणु=आकर्णय, तदनु=पश्चात्, श्रोत्रपेयम्=कर्णप्रियम्, मे=यक्षस्य, सन्देशम्=वार्ताम्, श्रोष्यसि=श्रवणङ्करिष्यसि । यत्र=मार्गे, खिन्नः खिन्नः=वारंवारं क्षीणः शक्तिर्भूय, शिखरिषु=गिरिषु, पदं=पादम्, न्यस्य=स्थाप्य, शक्तिसंचयार्थं पर्वतेषु विश्रम्येत्यर्थः, क्षीणः क्षीणः=भूयानल्पशरीरः सन् स्रोतसां=पर्वतनदी-प्रवाहाणाम्, परिलघु=गौरवदोषहीनम्, पयश्च=जलञ्च, उपभुज्य=पीत्वा, गन्तासि=यास्यसि ।

शब्दार्थ—हे जलद ! = हे मेघ ! तावत् कथयतः = कहते हुए ( मुझसे ), त्वत्प्रयाणानुरूपम् = अपनी यात्रानुकूल, मार्गम् = रास्ते को शृणु = सुन लो; तदनु = तत्पश्चात्, श्रोत्रपेयम् = कानों को अच्छा लगने वाला, मे = मेरा, सन्देशम् = सन्देश, श्रोष्यसि = सुनना । यत्र = जहाँ रास्ते में, खिन्नः खिन्नः = थक-थककर, शिखरिषु = पर्वतों पर, पदं = पैर, न्यस्य = रखकर, (शक्ति प्राप्त करने के लिए थोड़ा रुककर) क्षीणः क्षीणः = बार, बार दुबला होकर, स्रोतसाम् = पर्वतीय नदियों के, परिलघु = हल्के, पयश्च = जल को, उपभुज्य = पीकर, गन्तासि = जाने वाले हो ।

भावार्थः—हे मेघ ! प्रथमं मत्तः, निज-यात्रानुकूलं मार्गं शृणु तदनन्तरं कर्णप्रियं मत्सन्देशं श्रोष्यसि । यत्र मार्गे त्वं वारंवारं यात्राऽऽयासेन परिश्रान्तः सन् पर्वतेषु विश्रम्य तनुकायः (सन्) पर्वतीयनदीप्रवाहाणां जलमुपभुज्य यास्यसि ।

हिन्दी—हे मेघ ! पहले ( तुम ) मुझ से अपनी यात्रा के अनुकूल रास्ते का श्रवण कर लो, पश्चात् कर्णमधुर मेरे सन्देश को सुनना । जिस मार्ग में थक-थक कर पर्वतों पर कुछ विश्राम करके, अत्यन्त दुर्बल होकर पर्वतीय नदी के प्रवाहों का जल पीकर जाने वाले हो ।

समासः—जलं ददाति इति जलदः तत् सम्बुद्धौ हे जलद ! तव प्रयाण-स्त्वत्प्रयाणः ( ष० तत्० ) त्वत्प्रयाणस्यानुरूपम् त्वत्प्रयाणानुरूपम् ( ष० तत्० ) । श्रोत्राभ्यां पेयम्-श्रोत्रपेयम् ( तृ० तत्० ) ।

कोशः—अयनं वर्त्म मार्गाध्वः पन्थानः पदवी सृतिः, इत्यमरः । सन्देश-वाग्वाचिकं स्यात्, इत्यमरः । पयः क्षीरं पयोऽम्बु च, इत्यमरः ।

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित) · पृष्ठ 75, कुल 335 में से · BharatKosha