मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 77, कुल 335 में से
संदर्भ में पढ़ें| ३८ | मेघदूतम् |
|---|
अन्वयः—अद्रेः शृङ्गं पवनः हरति किंस्वित् इति उन्मुखीभिः मुग्धसिद्धाङ्गनाभिः चकितचकितं दृष्टोत्साहः सरसनिचुलात् अस्मात् स्थानात् पथि दिङ्नागानां स्थूलहस्तावलेपान् परिहरन् उदङ्मुखः खम् उत्पत ।
व्याख्या—अद्रेः=पर्वतस्य, शृङ्गम्=सानुम्, पवनः=वायुः, हरति किंस्वित् ? = कर्षति किम्, इति = एतादृश्याशंकयेति यावत्, उन्मुखीभिः=उन्नतास्याभिः, मुग्धसिद्धाङ्गनाभिः=मूढसिद्धवधूभिः, चकितचकितम्=आश्चर्यसहितं यथा स्यात्तथा, दृष्टोत्साहः=प्रदर्शितोद्योगः, (सन्), सरसनिचुलात्=आर्द्रभूमिवेतसात्, अस्मात्=पुरोदृश्यमानात्, स्थानात्=आश्रमात्, पथि=अध्वनि, आकाशे इति भावः । दिङ्नागानां=दिग्गजानाम्, स्थूलहस्तावलेपान्=विशालशुण्डप्रहारान्, परिहरन्=परित्यजन्, उदङ्मुखः=उत्तराभिवदनः, ( सन् ) । खम्=आकाशम्, उत्पत = उद्गच्छ ।
शब्दार्थः—अद्रेः=पहाड़ की, शृंगम्=चोटी को, पवनः=वायु, हरति = ले जा रहा है, किंस्वित्=क्या ? ( इस शंका से ) उन्मुखीभिः=ऊपर को मुँह किये हुए, मुग्धसिद्धाङ्गनाभिः = सीधी-सादी सिद्धों की वधुओं के द्वारा, चकितचकितम्=अत्यन्त आश्चर्य से, दृष्टोत्साहः=देखे गये उत्साह वाला, सरसनिचुलात् = गीले स्थल की वेतों से युक्त, पथि = रास्ते में, दिङ्नागानाम् = दिग्गजों के, स्थूलहस्तावलेपान् = लम्बी-लम्बी सूड़ों के प्रहारों को, परिहरन् = छोड़ता हुआ ( उनसे बचता हुआ ) उदङ्मुखः = उत्तर दिशा की ओर मुंह करके, खम् = आकाश में, उत्पत = उड़ जाना ।
भावार्थः—हे मेघ ! अत्यधिकवेगेन गच्छतः भवत उद्योगमवलोक्य 'पवनः पर्वतशृङ्गं हरति किम्' ? इत्याशङ्कया मूढाः सिद्धप्रियाः आश्चर्य्यान्विताः भविष्यन्ति । तत आर्द्रस्थलवेतसात् पुरोदृश्यमानादस्मात् स्थानादाकाशमार्गे अन्तरायाणां दिग्गजानां पीवरशुण्डप्रहारान् परित्यजनलकागमनार्थमुत्तराभिमुखीभूय गगनमुत्पत ।
हिन्दी—हे मेघ ! अत्यधिक वेग से जाते हुए, तुम्हें देखकर भोली-भाली सिद्धों की प्रियाएँ 'वायु पर्वत की चोटी उड़ा कर ले जा रहा है क्या' ? ऐसा सोचकर अत्यन्त आश्चर्यान्वित हो जाएँगी । तुम भींगे स्थलवेतसों से परिपूर्ण