भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 77, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 77
३८मेघदूतम्

अन्वयः—अद्रेः शृङ्गं पवनः हरति किंस्वित् इति उन्मुखीभिः मुग्धसिद्धाङ्गनाभिः चकितचकितं दृष्टोत्साहः सरसनिचुलात् अस्मात् स्थानात् पथि दिङ्नागानां स्थूलहस्तावलेपान् परिहरन् उदङ्मुखः खम् उत्पत ।

व्याख्या—अद्रेः=पर्वतस्य, शृङ्गम्=सानुम्, पवनः=वायुः, हरति किंस्वित् ? = कर्षति किम्, इति = एतादृश्याशंकयेति यावत्, उन्मुखीभिः=उन्नतास्याभिः, मुग्धसिद्धाङ्गनाभिः=मूढसिद्धवधूभिः, चकितचकितम्=आश्चर्यसहितं यथा स्यात्तथा, दृष्टोत्साहः=प्रदर्शितोद्योगः, (सन्), सरसनिचुलात्=आर्द्रभूमिवेतसात्, अस्मात्=पुरोदृश्यमानात्, स्थानात्=आश्रमात्, पथि=अध्वनि, आकाशे इति भावः । दिङ्नागानां=दिग्गजानाम्, स्थूलहस्तावलेपान्=विशालशुण्डप्रहारान्, परिहरन्=परित्यजन्, उदङ्मुखः=उत्तराभिवदनः, ( सन् ) । खम्=आकाशम्, उत्पत = उद्गच्छ ।

शब्दार्थः—अद्रेः=पहाड़ की, शृंगम्=चोटी को, पवनः=वायु, हरति = ले जा रहा है, किंस्वित्=क्या ? ( इस शंका से ) उन्मुखीभिः=ऊपर को मुँह किये हुए, मुग्धसिद्धाङ्गनाभिः = सीधी-सादी सिद्धों की वधुओं के द्वारा, चकितचकितम्=अत्यन्त आश्चर्य से, दृष्टोत्साहः=देखे गये उत्साह वाला, सरसनिचुलात् = गीले स्थल की वेतों से युक्त, पथि = रास्ते में, दिङ्नागानाम् = दिग्गजों के, स्थूलहस्तावलेपान् = लम्बी-लम्बी सूड़ों के प्रहारों को, परिहरन् = छोड़ता हुआ ( उनसे बचता हुआ ) उदङ्मुखः = उत्तर दिशा की ओर मुंह करके, खम् = आकाश में, उत्पत = उड़ जाना ।

भावार्थः—हे मेघ ! अत्यधिकवेगेन गच्छतः भवत उद्योगमवलोक्य 'पवनः पर्वतशृङ्गं हरति किम्' ? इत्याशङ्कया मूढाः सिद्धप्रियाः आश्चर्य्यान्विताः भविष्यन्ति । तत आर्द्रस्थलवेतसात् पुरोदृश्यमानादस्मात् स्थानादाकाशमार्गे अन्तरायाणां दिग्गजानां पीवरशुण्डप्रहारान् परित्यजनलकागमनार्थमुत्तराभिमुखीभूय गगनमुत्पत ।

हिन्दी—हे मेघ ! अत्यधिक वेग से जाते हुए, तुम्हें देखकर भोली-भाली सिद्धों की प्रियाएँ 'वायु पर्वत की चोटी उड़ा कर ले जा रहा है क्या' ? ऐसा सोचकर अत्यन्त आश्चर्यान्वित हो जाएँगी । तुम भींगे स्थलवेतसों से परिपूर्ण