भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 80, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 80

पूर्वमेघः ४१

रत्नच्छायाऽऽव्यतिकर इव प्रेक्ष्यमेतत् पुरस्तात् वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥

अन्वयः — रत्नच्छायाऽऽव्यतिकर इव प्रेक्ष्यम् आखण्डलस्य एतत् धनुष्खण्डम् पुरस्तात् वल्मीकाग्रात् प्रभवति । येन ते श्यामं वपुः स्फुरितरुचिना बर्हेण गोपवेषस्य विष्णोः ( श्यामं वपुः ) इव अतितरां कान्तिम् आपत्स्यते ।

व्याख्या — ( हे मेघ ) रत्नच्छायाऽऽव्यतिकर इव = पद्मरागादिमणिप्रभासम्मिश्रणमिव, प्रेक्ष्यम् = दृश्यम्, आखण्डलस्य = इन्द्रस्य, एतत् = पुरोवर्ति, धनुष्खण्डम् = चापशकलम्, पुरस्तात् = अग्रतः, वल्मीकाग्रात् = नाकुविवरात्, प्रभवति = उद्गच्छति । येन = चापशकलेन, ते = तव "मेघस्येत्यर्थः" श्यामम् = कृष्णवर्णम्, वपुः = शरीरम्, स्फुरितरुचिना = धवलकान्तिना, बर्हेण = पिच्छेन, गोपवेषस्य = ग्वालवेषस्य, विष्णोः = हरेः "कृष्णस्येति यावत्", इव = यथा, अतितराम् = सातिशयम्, कान्तिम् = श्रियम्, आपत्स्यते = प्राप्स्यते ।

शब्दार्थः—(हे मेघ) रत्नच्छायाऽऽव्यतिकर इव = रत्नों की कान्तियों के सम्मिश्रण जैसा, प्रेक्ष्यम् = दीखने वाला, आखण्डलस्य = इन्द्र का, एतत् = यह ( सामने ), धनुष्खण्डम् = धनुष का टुकड़ा, पुरस्तात् = सामने, वल्मीकाग्रात् = बांबी के अग्रभाग से, प्रभवति = निकल रहा है। येन = जिससे ( धनुष के टुकड़े से ) ते = तेरा, श्यामम् = काले रंग का वपुः = शरीर, स्फुरितरुचिना = उजली कान्ति वाले, बर्हेण = मोरपंख से, गोपवेषस्य = ग्वालवेषधारण किए हुए, विष्णोः = कृष्ण के, अतितराम् = अत्यधिक, कान्तिम् = शोभा को, आपत्स्यते = धारण करेगा ।

समासः—रत्नानां छाया = रत्नच्छायम् (ष० तत्०) आसमन्तात् व्यतिकरः आव्यतिकरः (उपपद० य०) रत्नच्छायस्य आव्यतिकरः=रत्नच्छायाऽऽव्यतिकरः