मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 82, कुल 335 में से
संदर्भ में पढ़ें४३
पूर्वमेघः
पुरस्तात् — '‘पूर्वायां दिशि’’ इस विग्रह में 'पूर्वा' शब्द से प्रकृत्यर्थ में "दिक्शब्देभ्य" सप्तमी पञ्चमी प्रथमाभ्यो "दिग्देशकालेष्वस्ताति" इस सूत्र से "अस्ताति" प्रत्यय लाकर "अस्ताति च" इस सूत्र से पूर्वा के स्थान पर "पुर" यह आदेश करके "पुरस्तात्" यह रूप बना है। अतितराम्— "अतितर" शब्द से "किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे" इस सूत्र से "आमु" प्रत्यय करके "अतितराम्" यह रूप बना है।
अलंकार—इस श्लोक के प्रथम चरण में एवं चतुर्थ में दो श्रौती उपमा निरपेक्ष रूप से है अतः यहाँ 'संसृष्टि' अलङ्कार है ॥१५॥
त्वय्यायत्तं कृषिफलमिति भ्रू विलासानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
किञ्चित्पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥१६॥
अन्वयः—कृषिफलं त्वयि आयत्तम् इति हेतोः भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैः जनपदवधूलोचनैः पीयमानः सीरोत्कषण-सुरभि मालं क्षेत्रं सद्यः आरुह्य किञ्चित् पश्चात् भूयः लघुगतिः उत्तरेण एव व्रज ।
व्याख्या—कृषिफलम् = सस्यादिकम्, त्वयि = मेघे, आयत्तम् = अधीनम्, इति = अस्मात्, हेतोः = कारणात्, भ्रूविलासानभिज्ञैः = कटाक्षवृत्त्यपरिचितैः, प्रीतिस्निग्धैः = स्नेहस्नपितैः । जनपदवधूलोचनैः = नीवृन्महिला नयनैः, पीयमानः = सादरमीक्षमाणः सीरोत्कषणसुरभि = लाङ्गलविदारणेन घ्राण-तर्पणं (यथा स्यात्तथा) मालम् = मालनामानम्, क्षेत्रम् = केदारम्, सद्यः = तत्क्षणम्, आरुह्य = आरोहणं विधाय, किञ्चित्पश्चात् = कियत्क्षणानन्तरन्, भूयः = पुनः, लघुगतिः = द्रुतगमनः (सन्) उत्तरेण एव = उत्तरमार्गेण एव, व्रज = गच्छ।
शब्दार्थ—कृषिफलम् = खेती का फल (धान आदि), त्वयि = तुम्हारे आयत्तम् = अधीन है, इति = इस, हेतोः = कारण से, भ्रूविलासानभिज्ञैः = भौंहों के विलास से अपरिचित (भोली-भाली), प्रीतिस्निग्धैः = स्नेह से ओत-