मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 84, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ४५
त्वामासार—प्रशमित—वनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥१७॥
अन्वयः—आम्रकूटः सानुमान् आसार-प्रशमित-वनोपप्लवम् अध्वश्रम-परिगतं त्वाम् साधु मूर्ध्ना वक्ष्यति । क्षुद्रः अपि संश्रयाय मित्रे प्राप्ते प्रथम-सुकृताऽपेक्षया विमुखः न भवति । यः तथा उच्चैः किं पुनः ।
व्याख्या—आम्रकूटः=एतन्नामकः, सानुमान्=पर्वतः, आसार-प्रशमित-वनोपप्लवम्=धारासंपातापसारितदावानलं, अध्वश्रमपरिगतम्=मार्गपरिश्रम-क्लान्तम्, त्वाम्=भवन्तं मेघमिति यावत्; साधु=समीचीनम्, मूर्ध्ना=शिरसा, शृङ्गेण, वक्ष्यति=वोढा; क्षुद्रः अपि=साधारणोऽपि, संश्रयाय=आश्रयाय, मित्रे=सख्यो, प्राप्ते=आगते (सति) । प्रथमसुकृतापेक्षया=कृतपूर्वोकारसंस्मरणेन, विमुखः=पराङ्मुखः न भवति, यः=आम्रकूटः पर्वतः, तथा उच्चैः=तथाविधो महान् (सः), किं पुनः=विमुखो भविष्यति किम् ? कदापि न भविष्यति ।
शब्दार्थ—आम्रकूटः=आम्रकूट नाम का, सानुमान्=पर्वत, आसार-प्रशमितवनोपप्लवम्=मूसलाधार वृष्टि से दावाग्नि को शान्त करनेवाले, अध्व-श्रमपरिगतम्=मार्ग के परिश्रम से थके हुए, त्वाम्=तुम को, साधु=अच्छी तरह, मूर्ध्ना=शिर पर (चोटी पर) वक्ष्यति=धारण करेगा । क्षुद्रोऽपि=साधारण जन भी, संश्रयाय=आश्रय के लिए, मित्रे=मित्र के; प्राप्ते=आने पर, प्रथम-सुकृतापेक्षया=पहले के किये हुए उपकारों को याद कर, विमुखः न=मुँह नहीं मोड़ता, भवति=है । यः=जो आम्रकूट पर्वत, तथा उच्चैः=वैसा ऊँचा है । किं पुनः=क्या वह मुँह मोड़ेगा ? कभी नहीं मुँह मोड़ेगा ।
भावार्थः—हे मेघ ! धारासम्पातेन प्रशमित-वनाग्नि मार्गजन्य-परिश्रम-क्लान्तं त्वामाम्रकूटोऽद्रिः शिखरेण सम्यक् प्रकारेण धारयिष्यति । (यतोहि)