भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 86, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 86

पूर्वमेघः ४७

नूनं यास्यत्यमर—मिथुन—प्रेक्षणीयामवस्थां
मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥१८॥

अन्वयः – परिणतफलद्योतिभिः काननाम्रैः छन्नोपान्तः अचलः स्निग्ध-वेणी-सवर्णे त्वयि शिखरम् आरूढे, मध्येश्यामः शेषविस्तारपाण्डुः भुवः स्तन इव अमरमिथुन-प्रेक्षणीयाम्, अवस्थां नूनं यास्यति ।

व्याख्या—( हे मेघ ! ) परिणतफलद्योतिभिः=पक्वफलशोभिभिः काननाम्रैः = वन्यचूतैः, छन्नोपान्तः=आवृतपार्श्वप्रदेशः, अचलः=पर्वतः आम्रकूटः इत्यर्थः । स्निग्धवेणी-सवर्णे = चिक्कणकेशपाशतुल्यवर्णे, त्वयि=मेघे, शिखरम्=शृङ्गम्, आरूढे=आरोहणंकृते सति, मध्येश्यामः=कृष्णान्तरः, शेषविस्तारपाण्डुः=मध्यभागातिरिक्तपीतवर्णः, भुवः=पृथिव्याः, स्तनः=कुचः, इव=यथा, अमरमिथुनप्रेक्षणीयाम्=देवयुगलावलोकनीयाम्, अवस्थाम् = दशाम्, नूनम् = अवश्यम् यास्यति = प्राप्स्यति ।

शब्दार्थः—हे मेघ ! परिणतफलद्योतिभिः=परिपक्वफलों से चमकनेवाले, काननाम्रैः=जंगल के आमों से, छन्नोपान्तः=ढके हुए, पार्श्वभागवाला, अचलः=आम्रकूटपर्वतः, स्निग्धवेणी-सवर्णे=चिकने केशपाश की तरह रंगवाले, त्वयि=तुम्हारे, शिखरम्=शिखर पर, आरूढे=चढ़ जाने पर, मध्येश्यामः=बीच में काला, शेषविस्तारपाण्डुः=और विस्तृत भाग में पीला, भुवः=पृथ्वी के, स्तन इव=स्तन की तरह, अमरमिथुनप्रेक्षणीयाम्=देवदम्पतियों के द्वारा दर्शनीय, अवस्थाम्=दशा को, नूनम्=अवश्य ही, यास्यति=प्राप्त करेगा ।

भावार्थः—( हे मेघ ) पक्वफलकान्तिभिः वनाम्रैराच्छादितपार्श्वभागः आम्रकूटोऽद्रिः कृष्णवर्णे त्वयि मेघे शृङ्गे सति मध्ये कृष्णः अन्तभागेषु पाण्डुरः पृथिव्याः स्तन इव देवदम्पतीनां दर्शनीयामवस्थां निश्चयमेव यास्यति ।

हिन्दी—हे मेघ ! चिकनी वेणी के समान काले रंगवाले तुम जब आम्रकूट के शिखर पर चढ़ जाओगे, तब वह पर्वत पके हुए फलों से चमकनेवाले जंगली

४ मे० दू०