मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 88, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ४९
तोयोत्सर्गद्रुततरगतिः तत्परं वर्त्मतीर्णः उपल-विषमे विन्ध्यपादे विशीर्णाम्
रेवाम् गजस्य अङ्गे भक्तिच्छेदैः विरचिताम् भूतिम् इव द्रक्ष्यसि ।
व्याख्या—( हे मेघ ! ) वनचर-वधू-भुक्त-कुञ्जे=किरात-कामिनी-भुक्तलता-सदने, तस्मिन्=आम्रकूटे ( पर्वते ) मुहूर्त्तम् = किञ्चित्क्षणम्, स्थित्वा = विरम्य, तोयोत्सर्गद्रुततरगतिः = जलवर्षणेनातिशीघ्रगमनः तत्परम्=आम्रकूटानन्तरम्, वर्त्म=मार्गम्, तीर्णः=अतिक्रान्तः सन्, उपलविषमे = पाषाणनिम्नोन्नते, विन्ध्यपादे = विन्ध्याचल-प्रत्यन्तपर्वते, विशीर्णाम् = प्रसृताम्, रेवाम् = नर्मदाम्, गजस्य = हस्तिनः, अङ्गे=शरीरे, भक्तिच्छेदैः=रेखा-भङ्गिभिः, विरचिताम् = निर्मिताम्, भूतिम् = मातङ्गशृङ्गारं, इव = यथा, द्रक्ष्यसि = विलोकयिष्यसि ।
शब्दार्थः—( हे मेघ ! ) वनचरवधूभुक्तकुञ्जे=किरात-कामिनियों द्वारा उपभुक्त लताकुञ्जों वाले, तस्मिन् = उस, आम्रकूट पर्वत पर, मुहूर्त्तम् = कुछ देर, स्थित्वा = ठहरकर, तोयोत्संगद्रुततर-गतिः=जल बरसाने के कारण शीघ्र-गमनवाले ( तुम ), तत्परम् = आम्रकूट के आगे, वर्त्म = रास्ते को, तीर्णः=पार करके, उपलविषमे=पत्थरों के कारण ऊँची-नीची, विन्ध्यपादे = विन्ध्या-चलपर्वत की तलहटी में, विशीर्णाम् = फैली हुई, रेवाम् = नर्मदा को, गजस्य = हाथी के, अङ्गे = अङ्ग में, भक्तिच्छेदैः = चित्रकारी के द्वारा, विरचिताम् = बनायी गई, भूतिम् = सजावट, इव = की तरह, द्रक्ष्यसि = देखोगे ।
भावार्थः—हे मेघ ! आम्रकूट-पर्वतस्य किरातकामिनीभिः कृतसम्भोगे लतागृहे किञ्चित्क्षणं विश्रम्य तत्र जलवर्षणेन द्रुतगतिः सन् आम्रकूटात्परं मार्गमतिक्रम्य प्रस्तरबहुलान्निम्नोन्नत-भूमौ विन्ध्याद्रेस्तटे विस्तीर्णां नर्मदां गज-मस्तके रचनाभङ्गिभिर्विरचितां भस्मरेखामिवावलोकयिष्यसि ।
हिन्दी—हे मेघ ! वनचर वधुओं के द्वारा उपभुक्त लताकुञ्ज वाले उस आम्रकूट पर्वत पर कुछ देर विश्राम करके पानी बरसने के कारण शीघ्र गति से आम्रकूट के आगे के मार्ग को पार करके ऊँचे-नीचे पथरीले बिन्ध्याचल