मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 91, कुल 335 में से
संदर्भ में पढ़ें| ५२ | मेघदूतम् |
|---|
होगा, हि = क्योंकि, रिक्तः = भीतर से खाली, सर्वः = सभी, लघुः = हल्का ( हेय ) "और" पूर्णता = गुरुता, गौरवाय = गौरव के लिए, भवति = होता है ।
भावार्थः—हे मेघ ! तत्र जलवर्षणानन्तरं सुगन्धिभिर्वन्यगजानां दानवारिभिः सुवासितं जम्बूनिकुञ्जावरुद्धवेगं नर्मदाजलं गृहीत्वा व्रज ! जलवत्वादन्तःसारं त्वां पवनः प्रकम्पयितुं समर्थो न भविष्यति, यतो हि निःसारः सर्वोऽपि हेयः भवति, केवलं सारवतैव गौरवास्पदं भवति ।
हिन्दी—हे मेघ ! वहाँ जल बरसाने के बाद जंगली हाथियों के सुगन्धित मदजल से सुवासित जामुनों के निकुञ्जों के द्वारा रोके गये वेग वाले नर्मदा नदी के जल को लेकर (आगे) जाना । भीतर से शक्तिशाली तुझे वायु हिला नहीं सकेगा, क्योंकि प्रत्येक वस्तु जो भीतर से निःसार हो, हल्की होती है एवं भरापन गुरुता के लिए होता है ।
समासः—वान्ता वृष्टिर्येन स वान्तवृष्टिः (बहुव्रीहिः) । वनस्य गजा वनगजाः ( ष० तत्० ) तेषां मदैः वनगजमदैः (ष० तत्०) । जम्बूनां कुञ्ज-जम्बूकूञ्जः ( ष० तत्० ) तैः प्रतिहतो रयः यस्य तम् जम्बुकुञ्जप्रतिहतरयम् (बहुव्रीहि ) । अन्तः सारो यस्य तम् अन्तःसारम् (बहुव्रीहिः) ।
कोशः—वृष्टिर्वर्षम्, इत्यमरः । तिक्तो रसे सुगन्धे च, इति विश्वः । जम्बू स्त्री जम्बुजाम्बवम्, इत्यमरः । सारो बले स्थिरांशे च, इत्ययरः, सारो बले मज्जनि च स्थिरांशे, न्याये च नीरे च घने सारम्, इति विश्वः । भवेत् प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयः, इति मेदिनी । मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः, इति विश्वः ।
टिप्पणी—(दु) वम् धातु से कर्म में क्त प्रत्यय करके स्त्रीत्व विवक्षा में टाप् करके 'वान्ता' ऐसा प्रयोग बनता है । यहाँ "वम्" धातु का "उगलना" अर्थ होने पर भी गौणवृत्ति का आश्रय लेने के कारण जुगुप्सा व्यंजक अश्लीलता नहीं आ पायी है । क्योंकि "निष्ठ्यूतोद्गीर्णवान्तादिगौणवृत्तिव्यपाश्रयम् । अति सुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ।" ऐसा दण्डी लिखते हैं । आदाय—आङ्उप-