मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 93, कुल 335 में से
संदर्भ में पढ़ें५४ मेघदूतम्
मन्वनूपम् जलप्रायदेशसमीपे इत्यर्थः, आविर्भूत-प्रथममुकुलाः = सञ्जातपूर्व-कुड्मलाः, कन्दलीश्च = भूकन्दलीश्च, जग्ध्वा = भुक्त्वा, अरण्येषु = काननेषु, उर्व्याः = पृथिव्याः, अधिकसुरभिम् = उत्कट-सुगन्धियुक्तम्, आघ्राय = घ्रात्वा, सारङ्गाः = कुरङ्गाः, जललवमुचः = सलिलबिन्दुवर्षकः, ते = मेघस्य, मार्गम् = पन्थानम्, सूचयिष्यन्ति = निर्देशं करिष्यन्ति ।
शब्दार्थः—( हे मेघ ! ) अर्धरूढैः = आधे निकले हुए, केसरैः = रेशों से, हरितकपिशम् = हरे और धूसर रंगवाले, नीपम् = कदम्ब को, दृष्ट्वा = देखकर, अनुकच्छम् = दलदल में, आविर्भूतप्रथममुकुलाः = जिनमें पहले-पहले कलियाँ प्रकट हुई हैं, कन्दलीः = केले के समान पुष्प वृक्षों को, जग्ध्वा = खाकर, अरण्येषु = वनों में, उर्व्याः = पृथ्वी की, अधिक-सुरभिम् = अत्यन्त सुरभित, गन्धम् = सुगन्ध को, आघ्राय = सूंघकर, सारंगाः = मृग, हाथी, भ्रमर, जललवमुचः = जलबिंदु बरसाने वाले, ते = तेरे, मार्गम् = मार्ग को, सूचयिष्यन्ति = सूचित करेंगे ।
भावार्थः—( हे मेघ ! ) हस्तिभ्रमरमृगाः अर्धोत्पन्नकेसरैः हरितधूसरं कदम्बकुसुमं विलोक्य, जलप्रायदेशे उत्पन्नपूर्वकूङ्मलाः भूमिकन्दलीश्च भुक्त्वा, अरण्येष्वत्यधिकसुरभि भूमिगन्धमाघ्राय सलिलबिंदु-त्यजतस्ते पन्थानमनुमापयिष्यति ।
हिन्दी—हे मेघ ! हाथी, मृग और भौंरे अर्धविकसित केसर से हरे-धूसर रंगवाले कदम्बपुष्प को देखकर, दल दल से पहले-पहले जिनमें कलियाँ प्रकट हो रही हैं, ऐसे भूमिकन्दलियों के नये कुङ्मलों को खाकर, जंगलों में अधिक सुगन्धित पृथ्वी के सुगंध को सूंघकर, जलबिंदु बरसाने वाले तेरे मार्ग को सूचित करेंगे ।
समासः—हरितञ्च तत् कपिशम् = हरितकपिशम् (कर्मधारयः) । कच्छस्य समीपे अनुकच्छम् ( अव्ययीभावः ) । आविर्भूताः प्रथमा मुकुलाः यासां ताः आविर्भूतप्रथममुकुलाः ( बहुव्रीहिः ) । साराण्यंगानि येषां ते ( मृगादयः ) ( बहुव्रीहिसमासः ) ।