भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 95, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 95

५६ मेघदूतम्

**अन्वयः—**अम्भोबिन्दुग्रहणचतुरान् चातकान् वीक्षमाणाः श्रेणीभूताः बलाकाः परिगणनया निर्दिशन्तः सिद्धाः स्तनितसमये सोत्कम्पानि प्रियसहचरी-सम्भ्रमालिङ्गितानि आसाद्य त्वाम् मानयिष्यन्ति ।

**व्याख्या—**अम्भोबिन्दुग्रहणचतुरान् = वारिकणग्रहणपटून्, चातकान् = सारंगान्, वीक्षमाणः = अवलोकयमानः, श्रेणीभूताः = पंक्तिबद्धाः, बलाकाः = बकपंकतीः, परिगणनया = एका, द्वे, तिस्रः इति क्रमपूर्वकेण संख्यानेन, निर्दिशन्तः = अंगुल्या निर्देशं कुर्वन्तः, सिद्धाः = देवयोनि-विशेषाः, स्तनित-समये = रति-समये, त्वद्गर्जनकाले वा, सोत्कम्पानि = उत्कम्पसहितानि, प्रियसहचरी-संभ्रमालिङ्गितानि = स्निग्धप्रियात्वराश्लेषानि, आसाद्य = प्राप्य, त्वाम् = मेघम्, मानयिष्यन्ति = साधुवादान् वदिष्यन्ति ।

**शब्दार्थः—**अम्भोबिन्दुग्रहणचतुरान् = जल के कणों को ग्रहण करने में चतुर, चातकान् = “चातक” नामक पक्षियों को, वीक्षमाणः = देखते हुए, श्रेणीभूताः = पंक्तिबद्ध, बलाकाः = वकपंक्तियों को, परिगणनया = एक-दो तीन इस तरह गिनकर, निर्दिशन्तः = अंगुली से दिखाते हुए, सिद्धाः = देव-योनिविशेष, स्तनितसमये = संभोगकाल में अथवा (तुम्हारे गर्जन काल में ), सोत्कम्पानि = कम्पन के सहित, प्रियसहचरीसम्भ्रमालिङ्गितानि = अपनी प्यारी सहचरियों के भय के साथ भरपूर आलिंगन को, आसाद्य = प्राप्त कर, त्वाम् = तुम्हें (मेघ को ), मानयिष्यन्ति = धन्यवाद देंगे ।

**भावार्थः—**हे मेघ ! वर्षणजलग्रहणनिपुणान् चातकान् पश्यन्तो बद्धपंक्तीः बलाकाः एका द्वे तिस्रः इत्थं संख्यानेन दर्शयन्तः सिद्धाः रतिक़ाले त्वद्गर्जनेन भीतानां कामिनीनां स्वेच्छयाऽऽश्लेषं प्राप्य त्वां धन्यवादन् व्याहरिष्यन्ति ।

**हिन्दी—**हे मेघ ! वर्षा के जल-विन्दुओं को ग्रहण करने में चतुर चातकों को देखते हुए, पंक्तिबद्ध बकपंक्तियों को एक, दो, तीन इस प्रकार अंगुली से गिनकर बताते हुए (दिखाते हुए) सिद्धलोग, संभोग काल में तुम्हारे गरजने के कारण भयभीत अपनी प्रियाओं के भरपूर आलिंगन को प्राप्तकर तुम्हें धन्यवाद देंगे ।