मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 96, कुल 335 में से
संदर्भ में पढ़ेंपूर्वमेघः ५७
**समासः—**अम्भसां बिन्दवः = अम्भोबिन्दवः ( ष० तत्० ) तेषां ग्रहणं ( ष० तत्० ) तस्मिन् चतुरास्तान् ( स० तत्० )। प्रियाश्च ताः संहचर्यः (कर्मधारय०) तासां सम्भ्रमः ( ष० तत्० ) तेन आलिंगितानि ( तृ० तत्० ) प्रियसहचरीसम्भ्रमालिगितानि ।
**कोशः—**पृषन्तिबिन्दुपृषताः, इत्यमरः। सारंगाः स्तोकश्चातकः समाः, इत्यमरः। बलाकाः वकपंक्तिः स्यात्, इत्यमरः। स्तनितं गर्जितं मेघं निर्घोषे रसितादि च, इत्यमरः ।
**टिप्पणी—**वीक्षमाणाः—यहाँ “वि” उपसर्गपूर्वक आत्मनेपदी “ईक्ष” धातु के लट् लकार के स्थान में “लटः शतृशानचावप्रथमासमानाधिकरणे” इस सूत्र से “शानच्” प्रत्यय करके “वीक्षमाण” ऐसा रूप हुआ है। **श्रेणीभूताः—**अश्रेणयः श्रेणयः संपद्यन्ते इति श्रेणीभूताः। यहाँ “श्रेणी” शब्द से भूताः के योग में “कृभ्वस्ति योगे संपद्यकर्तरि च्विः” इस सूत्र से अभूत तद्भाव अर्थ में च्वि प्रत्यय होकर “च्वौ च” इस सूत्र से दीर्घ होकर “श्रेणीभूता” ऐसा रूप बना है ॥ २२ ॥
उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः
कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२३॥
**अन्वयः—**हे सखे ! मत्प्रियार्थं द्रुतं यियासोः अपि ते ककुभसुरभौ पर्वते पर्वते कालक्षेपम् उत्पश्यामि । सजलनयनैः शुक्लापाङ्गैः केकाः स्वागतीकृत्य प्रत्युद्यातः भवान् कमपि आशु गन्तुं व्यवस्येत् ।
व्याख्या —हे सखे = हे मित्र ! मत्प्रियार्थम् = मत्प्रियायै किंवा मदिष्टसम्पादनाय, द्रुतम् = शीघ्रम्, यियासोः = गन्तुमिच्छोः अपि, ते = तव मेघस्येति यावत्, ककुभसुरभौ = कुटजपुष्पपरिमलसुरभिते, पर्वते पर्वते = प्रत्यद्रौ, कालक्षेपम् = समयविलम्बम्, उत्पश्यामि = उत्प्रेक्षे । सजलनयनैः = अश्रुपूर्णाक्षिभिः, शुक्ला-