मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 211, कुल 804 में से
संदर्भ में पढ़ें२६ ] प्रथमाध्याये द्वितीयपादः १५९ भामती की टीका कल्पतरु में कहा है कि—"अपौरुषेयी श्रुतिः पौरुषेयीमावृत्तिं न सहते" अर्थात् अपौरुषेय वेद पुरुषकृत आवृत्ति का सहन नहीं करता है। अर्थात् आत्मीय रूप में उसका सहन नहीं हो सकता है। इसीलिए वेद वाक्य अर्थ "यावद्वचन" जितने पद हैं, उन कतिपय पदों से जो अर्थ होता है; वही ग्राह्य है और अध्याहार आदि के द्वारा अन्य अर्थ करना सर्वथा असङ्गत है। क्योंकि वह अध्याहृत अर्थ पौरुषेय होगा। किन्तु जहाँ कोई उपाय नहीं है, वहाँ वेद में भी अगत्या वाक्यभेद मानना ही पड़ता है, इसलिए उपायान्तर के सम्भव होने पर वाक्यभेद अवश्य ही परिहार्य है ॥ २५ ॥ [ ३] हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १.२.२६ ॥ शा० भा०—अथ ये हेतुवन्निगदाः 'शूर्पेण जुहोति, तेन ह्यन्नं क्रियत (तै०ब्रा० १।६।५) इत्येवमादयः, तेषु सन्देहः—किं स्तुतिस्तेषां कार्यमुत हेतुरिति । किं प्राप्तम् ? हेतुः स्यादन्नकरणं होमस्य । नन्वप्रसिद्धे कार्यकारणभावे न हेत्वपदेशः । सत्यमेवं लोके, विधायिष्यते तु वचनेन वेदे । शूर्पेण होमे कर्तव्येऽन्नकरणं हेतुरित्युपदिश्यते । किं प्रयोजनम् ? अन्यदपि दर्व्विपिठरादि अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति । कुतः ? तस्याप्यन्नक्रियायामर्थवत्ता । शक्यते च तेनाप्यन्नं कर्तुम् । एतद्धि क्रियत इत्युच्यते । न हि वर्तमानकालः कश्चिदस्ति, यस्यायं प्रतिनिर्देशः । हेतौ च श्रुतिः, स्तुतौ लक्षणा । यदि च दर्व्विपिठरादि न साक्षादन्नं करोतीति, नान्नकरण- मित्यच्यते । व्यर्थे तस्मिन् शूर्पस्तुतिरनर्थिका स्यात् । शूर्पमपि हि न साक्षादन्नं करोतीति, तेन विनाऽर्थेन शूर्पस्य स्तुतिर्नोपपद्यते ॥ २६ ॥ भा० वि० अधिकरणस्य विषयमाह — अथेति । श्रेयस्साधनत्वप्रतिपादक- विधिविभक्त्यभावेन विधित्वाभावेऽपि हिशब्दादिभिः हेतुत्वं भविष्यतीति पूर्वा- धिकरणसिद्धान्तहेतुप्रत्युदाहरणेनात्र पूर्वपक्षोत्थानादस्य तत्सङ्गतिरिति प्रकृता- पेक्षितववाचिनाथशब्देन सूचितं ये हेतुवन्निगद्यन्ते, ननु 'चतुर्गृहीतान्याज्यानि भवन्ति, नह्यत्रानुयाजा इज्यन्ते' इतिवत् परमार्थहेतवः, ते हेतुवन्निगदास्तेनेति तृतीयाया शूर्पकरणमुच्यते करणमात्रं वेत्यपि निगमात् संशयमाह—तेष्विति । विमर्शपूर्वकं हेतुरिति पूर्वपक्षप्रतिज्ञां व्याचष्टे —किमित्यादिना । होमस्य=होम- सम्बन्धस्येत्यर्थः । अत्र च पूर्वाधिकरण-पूर्वपक्षसूत्रात् अपूर्वत्वादिति हेत्वाकर्षार्थं- स्सौत्रो वा शब्दः, स च भाष्यकृता स्यादित्यनेनैव व्याख्यातः । यद्यपि शूर्पेण जुहोतीति वर्तमानापदेशस्यार्थवादविधुरस्य विधायकत्वात् अर्थवादतयोपयुक्तस्य तेन हीत्यादेः पूर्वाधिकरणन्यायेन वाक्यभेदेन पुनर्हेतुविधित्वासंभवाद्विहिते शूर्पहोमसम्बन्धे निर्विषयस्य हेतुविधानस्यासम्भवः तथापि होमकर्तव्यताया