भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 212, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 212

१६० मीमांसादर्शनम् [ सू० वाक्यान्तरसिद्धत्वाच्छूर्पहोमसम्बन्धस्य च शूर्पेणेत्यस्मादवगतेः अनुष्ठानस्य च प्रयोगविधिना सिद्धेर्विध्यभावान्नार्थवादत्वम्, नाप्यानर्थक्यम्, तेन ह्यन्नमिति शूर्पहोमसम्बन्धे अन्नकरणत्वरूपहेत्वपदेशान्यथानुपपत्त्या यद्यदन्नकरणं तेन तेन होतव्यमिति विधिवाक्यानुमापकत्वात् अरयेति भावः ॥ २६ ॥ त० वा०—इह ये हेतुवन्निगद्यन्ते हिशब्दादिभिः न च परमार्थहेतवः, त उदाहरणम् । तत्र यदि तावद्धेतुत्वं विधीयते, ततः पूर्वेणैव गतम् । यदिह हेतुत्वं तच्छूर्पहोमसम्बन्धं प्रति, न चाविहितोऽसावस्तीति, कस्य हेतुरुच्यते ? अथ भूतानुवादमात्रम्, तत्तु वायुक्षेपिष्ठत्ववद्गतमित्यनारब्धव्यमेतत् । उच्यते । न तावदनेनैव वाक्येन हेतुत्वं विधीयते । न च भूतानुवादमात्रम्, किं तर्हि, हेतोः प्रसिद्धपूर्वकत्वादसिद्धवदुपदिष्टस्य यावत्यसिद्धचाशङ्का, तत्राथर्ापत्तिलभ्याद्वचना- त्सिद्धिः । याऽपि चार्थवादाकाङ्क्षा कस्मादिति ? साऽप्यनेनैव हेतुना निवर्त्यत इति मन्यते । अथाप्यर्थवादत्वम्, तथाऽपि तदन्तर्निर्णीतहेतुत्वमेवेति, सर्वान्नकरण- विषयं विज्ञायते । ततश्च हेतुरप्यस्तीति पूर्वः पक्षः । सम्बन्धस्य च विधेयत्वात्- दगतमेव हेतुत्वं होमस्येति वदति—नन्वप्रसिद्धे कार्यकारणभाव इति । केचि- दाहुः । कार्यकारणयोरेवानुमानम् । तथा च दध्नेन्द्रियकामस्येत्यत्रापि वक्ष्यति । तत्तवयुक्तम् । अकार्यकारणभूतानामपि कृत्तिकादीनामचिरोद्गतरौहिण्यादिप्रति- पत्तिहेतुत्वदर्शनात् । अतो गम्यगमकत्वमेव कार्यकारणभावं मन्यते । ननु सोऽप्यनुमानोत्तरकालीनत्वादनङ्गम् । सत्यम् । अन्यस्मिन्नेव तु सम्बन्धे सति पाश्चात्यप्रसिद्धयन्तमेनमनुमानव्यवहारोपलक्षणत्वेनोपन्यस्यति । यद्वा शक्त्य- भिप्रायम् । ययोरेव हि व्याप्तिग्रहणकाले गम्यगमकसामर्थ्यात्मना कार्यकारण- भावित्वेन साऽवधृता तत्रैव हेतुता । अथ वा उदाहृतविषयहेतुलक्षणमेतत् । अविनाभावो ह्यनेककार्यकारण- स्वस्वामिसहचरभावादिप्रभेदभिन्नः, तत्रान्नकरणता होमे हेतुत्वेनोच्यमाना सम्बन्धान्तराभावात्कारणत्वेन स्यात् । तच्चाप्रसिद्धं तस्मान्न हेत्वपदेशः सत्यम् । लोके हेतुव्यवहारकालात्प्रथमं प्रमाणान्तरेण सम्बन्धप्रसिद्धिरपेक्ष्यते । वेदे तु हिशब्दप्रतिपादितहेतुत्वान्यथानुपपत्त्या सम्बन्धाभिधायि दृष्टान्तवचनं कल्प्येत- यद्यदन्नकरणम्, तेन तेन जुहोतीति, तेन चोपपन्नं हेतुत्वम् । किं प्रयोजनमिति । यदि च हेतुरवतिष्ठेतेत्यनेनाभिप्रायेण । अपरस्त्वाह—व्याप्तौ सिद्धायां सर्वान्न- साधनसाधनको होमः सिद्धो भवति । कुत इति । स एव सिद्धान्ताभिप्रायः । अथ वा कुतो दर्व्विपिठरादेः साधकतमत्वम् । इतरस्त्वाह—अन्नक्रियायां तावत्तस्यार्थवत्ताऽस्ति, तावन्मात्रं वाश्रयिष्यते । शक्यते च तेनापीति । उपपत्ति-