मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 213, कुल 804 में से
संदर्भ में पढ़ें२६ ] प्रथमाध्याये द्वितीयपादः १६१ शब्दस्यार्थः । पूर्वेण तु समानार्थता गम्यते । तेन विवक्षा । शक्त्यभिप्रायमेतत् । यदेव हि तदुपयोगिमात्रम्, तदेव शक्यते कथञ्चित्साधकतमत्वेन विवक्षितुम् । अथवाऽर्थवत्त्वं करणविभक्तिनिर्देशालम्बनमुपपत्त्या पुनर्वर्तमानानन्नक्रियस्य हेतुत्वाभिधानात्तादृशस्य होमं प्रत्यनुपपत्त्याशङ्क्योपपत्तिं वदति—शक्यते च तेनेति । तत्र चोदयति । एतद्धि क्रियत इत्युच्यते । तत्कथं शक्यत इत्यभि- धीयते । वर्तमानक्रियास्यासम्भवादित्युत्तरम् । यद्वा स्वयमेवाऽऽशङ्क्य परिहरति— यदि च न दर्विपिठरादीति । उभयोः परामर्शः । साधकतमत्व-वर्तमानत्वे चेत्तत्र न विद्येते, शूर्पेऽपि तथैवेति स्तुतिर्न स्यात् । तेन यथा तव स्तुत्यर्थः, कथ- ञ्चिद्विद्यते तथा मम हेत्वर्थ इत्यविशेषः । हेतौ च श्रुतिरित्यादि असम्बद्धवाक्य- सम्बन्धिदोषादन्ते द्रष्टव्यम् । स्तुतौ लक्षणेति । अन्नकरणत्वेन सर्वजनाभिमतेन प्राशस्त्यं लक्ष्यते । शूर्पेणेति चास्मिन्पक्षे नित्यानुवादोऽन्नकरणसामान्येनैव प्राप्तस्य । इत्थं वा सूत्रगमनिका । तत्रार्थवादात्प्रयोजनवत्तरत्वमुपपत्तिरित्यप्रसिद्धं सम्बन्धोऽपि, काल्पनिकवाक्याश्रयणात् । तस्माद्धेतुः ॥ २६ ॥ अथ तृतीयं हेतुवन्निगदाधिकरणम् । न्या० सु०—अधिकरणविषयप्रदर्शनार्थमथेति भाष्यं व्याचष्टे—इहेति । पूर्वप्रकृता- पेक्षित्वावाच्यथशब्दप्रतिपादितपूर्वाधिकरणसङ्गतिसूचनार्थं हिशब्दादिभिरित्युक्तम् । पूर्वत्र श्रेयःसाधनत्वप्रतिपादकविधिशब्दाभावेनौदुम्बरो यूपो भवतीत्यादीनां विधित्वे निराकृते, तेन ह्यन्नं क्रियत इति हेतुत्वप्रतिपादकहिशब्दसद्भावेन हेतुत्वं भविष्यतीति पूर्वाधिकरण- सिद्धान्तहेतुप्रत्युदाहरणरूपेणात्र पूर्वपक्षोत्थानात्सङ्गतिः । न च परमार्थहेतव इत्यनेन हेतुवदिति वतेर्व्यावर्त्त्यं दर्शितम् । 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजान् यक्ष्य- न्भवती'त्यादयः—परमार्थहेतवः । आतिथ्येष्वानूयाजाभावेऽपि अष्टावुपभृति गृह्णातीति प्रकृतौ विहितस्योपभृत्यष्टगृहीतस्य चोदकप्राप्तस्य निवृत्त्यर्थं चतुर्गृहीतत्वे विधीयमानेऽनु- याजाभावस्य हेतुत्वाभिधानात् यत्र यत्रानुयाजाभावः, तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृतौ चाष्टग्रहणस्य चतुर्द्वयद्वयलक्षणार्थत्वद्योतनार्थप्रयाजार्थं जुह्वां समानयने नियोगतोऽर्द्ध- मेव समानेतव्यमिति ज्ञायते । हेतुः स्यादिति पूर्वपक्षभाष्यं हेतुविध्यभिप्रायम्, अनुवादाभिप्रायं वेति विकल्प्य विधि- पक्षे तावदौदुम्बराधिकरणनिरस्तत्वादयुक्तमित्याक्षिपति—तत्रेति । यथा तत्र यदिह फलवचनम्, तदौदुम्बरस्य यूपस्येत्यादिना प्रत्यक्षस्य विधेरभावात्कल्प्यस्य च कार्यविशेष- सम्बन्धित्वेनैव कल्पयितुं शक्यतया, कार्यान्तरं प्रत्यभावात्फलपरत्वे स्वरूपविधानाशक्ति- प्रसक्तेः फलवचनानर्थक्यमुक्तम्, तथेहापि प्रत्यक्षविध्यभावात्कल्प्यस्य च हेतुपरत्वेऽन्नकरण- ११