भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 214, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 214

१६२ मीमांसादर्शनम् [ सू० मात्रस्य होमसाधनत्वविध्यनुमानेन शूर्पस्यापि प्राप्तिसम्भवाच्छूर्पहोम सम्बन्धविधानानुपपत्ते- स्तत्र हेतुविधानार्थक्यम् । अन्नकरणमात्रस्य तु होमसम्बन्धं प्रति हेतुविधानमितरेतरा- श्रयापत्तेरनाशङ्क्यमेवेति शूर्पहोम सम्बन्धं प्रतीति काक्वा द्योतितम् । अनुवादपक्षे त्वा- नर्थक्येन पूर्वपक्षः प्रसज्येत । तत्त्वर्थवादाधिकरणे निरस्तमित्याह - अथेति । ततश्च पूर्वं- पक्षासम्भावनाऽधिकरणारम्भो न युक्त इत्याह- इतीति । समाधत्ते - उच्यत इति । अस्यार्थः - नानेन शूर्पस्य होमसाधनत्वमुद्दिश्य तन्नान्नक ण- त्वस्य हेतुत्वविधिराशङ्क्यते । यः पूर्वन्यायेन निरस्येत । यच्चात्रान्नकरणहेतुकन्दर्यादि- र्होमसाधनत्वं विधेयमाशङ्क्यते, तन्न याच्छ्रूतेन विधीयते, येन गौरवापत्त्या निरस्येते- त्यनेनैवेत्येवकारेण सूचितम् । एतच्च केवलहेतुत्वेन पूर्वपक्षमङ्गीकृत्योच्यते । यदा तु शूर्पेण जुहोतीति विधिमङ्गीकृत्य तेन ह्यन्नं क्रियत इत्यस्य तच्छेषत्वेनार्थ- वादत्वमभ्युपगम्य तदालम्बनसिद्धयर्थं हेतुविधिरपि दर्यादिप्राप्तिफलको भविष्यतीति, हेत्वर्थवादसमुच्चयेन पूर्वपक्षः क्रियते; तदा पूर्वन्यायनिरस्तत्वाशङ्कव नास्तीति तावच्छब्देन सूचितम् । न चेत्यानर्थक्यपरिहारायोक्तम् । कि तर्ह्यस्य प्रयोजनमिति पृष्टे, सिद्धवदुप- दिष्टस्य हेतुत्वस्य यावत्यन्वयांशे प्रसिद्ध्याशङ्का, तत्रांशे अर्थापत्तिलभ्याद्वचनात्सिद्धि- रित्युक्तम् । हेतोरन्वयकल्पकत्वोपपादनाय प्रसिद्धिपूर्वकत्वादित्युक्तम् । न चात्र सिद्धवच्छब्द- प्रयोगमात्रेण हेत्वनुवादाशङ्का । अप्राप्ताननुवादायोगानुपदिष्टस्येति यस्य ते हेतुविधिरित्ये- तद्भाष्यव्याख्यायां च तव हेतुविधिर्वादितादित्याद्यभ्युपेत्य वादे च यद्यपि हेतुविधानमिति स्पष्टम् । विधेयत्वाभिधानात् साधुशब्दाधिकरणे च व्याकरणस्यासन्देहप्रयोजनत्वनिग- करणावसरे तथा हेतुविधिर्हेत्वर्थवादो वेति हेत्वधिकरणविचारं स्वयमेव दर्शयिष्यति । अज्ञातज्ञापत्वरूपस्य चात्र विधेयत्वस्यानुष्ठाप्यरूपविधेयत्वाभावप्रतिपादनार्थेन सिद्धवच्छ- ब्देनाभिप्रेतत्वान्नव्यापारत्वे हेतुत्वस्याविधेयत्वं वाच्यम् । गौरवं तु कल्पकपदमहितैः श्रुतैः पदैर्हेतुविधिपूर्वकं तदन्यथानुपपत्त्याऽन्वयकल्पनाभिधानात्परिहृतम् । ननु सर्वस्य विधिपरत्वेऽर्थवादाभावाद्बिधिरवसीदेत आह-यापि चेति । कस्मादेत- त्कर्त्तव्यमित्याशङ्कायामर्थवादाः सम्बन्ध्यन्ते । सा चात्र हेतुनैव पूरितेति भावः । यद्यपि कथं भावापेक्षयाऽर्थवादाः संबन्ध्यन्ते, तथापि कर्त्तव्यमित्युक्ते कस्मादिति या पुरुषस्यापेक्षा जायते, सेह हेतुपूरणार्थत्वाय दर्शिता । यद्यपि चेयं प्राशस्त्यविषयापेक्षा, तथापि सादृश्या- दुभयविषयत्वभ्रमः पूर्वपक्षिण इति मन्यत इत्यनेन सूचितम् । यद्वा हेत्वर्थवादसमुच्चयेनायं पूर्वपक्षो न केवलहेतुत्वेनेत्याह - अथापीति । तदर्थ- वादत्वमन्तर्निणीतं हेतुत्वमस्मिन्नित्यर्थः । भवतु तर्हि तेन ह्यन्नमित्यर्थवादः । तदुन्मीलितः शूर्पेण जुहोतीति विधिः, तथापि तेनेत्यर्थवादानुसाराद्दर्यादीनामपि शूर्पतुल्यता, न तु व्यावृत्तिः । अत एव शूर्पशब्देन लक्षणयान्नकरणेन जुहोतीति विधीयते । अस्मिन्नर्थवादे सालम्बनत्वाय हेतुत्वेनाप्युपयोग इति, हेतुरपीत्यपिशब्देन समुच्चयो दर्शितः । होमस्या-