भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 215, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 215

२६ ] प्रथमाध्याये द्वितीयपादः ·१६३ विधेयत्वेन हेत्वनाकाङ्क्षत्वात्तं प्रति हेतुविधानमयुक्तमाशङ्क्य, होमशब्दस्य सम्बन्ध- लक्षणार्थत्वमाह—सम्बन्धस्य चेति । नन्विति भाष्यस्य परेषां व्याख्यानं दूषयितुमुपन्यस्यति-नन्विति । अन्यत्राप्येवमेवोक्त्या भाष्यकृत्सम्मतिं प्रकटयति-तथा चेति । यद्धि यस्य कारणभूतं दृष्टम्, सिद्धे तच्चेत्साध्येऽपि१ कारणभूतमवगतं भवेत्, तत्तस्य साधनमिति भाष्ये वक्ष्यते दूषयति — तच्चेति । स्वयं त्रेधा व्याचष्टे — अत इति । क्रियासामान्यवाचिना करोतिना ज्ञानाख्यक्रिया- विशेषो लक्ष्यत इति भावः । शङ्कते — नन्विति । अङ्गभूतनियमरूपसम्बन्धोपलक्षणत्वेना- यमुपन्यस्तः, नाङ्गत्वेनेति परिहरति — सत्यमिति । अनुमाने व्यवह्रियते—अनेनेति । नियमोऽनुमानव्यवहारशब्देनोक्तः । एवं तु लक्षितलक्षणाप्रसङ्गाद् गम्यगमकलक्षणार्थाभ्यां कार्यकारणशब्दाभ्यां परेण भावप्रत्ययेन कृतद्धितसमासेषु भावप्रत्ययेन सम्बन्धाभिधानमितिस्मरणात्, गम्यगमक- सम्बन्धाभिधानाद् गम्यगमकयोश्च नियमलक्षणस्य सम्बन्धस्य शक्तिरूपत्वात्तत्प्रतिपादना- र्थतदुक्तमिति पूर्वापरितोषाद्व्याख्यानान्तरमाह—यद्वेति । ननु शक्तिनिरपेक्षस्य हेतोर्व्या- प्तिमात्रेण गमकत्वात्तत्प्रतिपादनं व्यर्थमत आह—ययोरेव हीति । ययोरेव सा शक्तिरव- धृता, तत्रैव तयोरेव मध्ये एकस्येतरप्रति हेतुता। तत्रेति निर्धारणे सप्तमीद्विवचनं गमकस्य चाधारत्वम्, गम्यस्य च विषयत्वम्, गम्यविषयागमकाधारत्यर्थः । कीदृशी शक्तिरित्यपेक्षिते गम्यगमकसामर्थ्यात्मनेत्युक्तम् । तृतीयेत्थंभूतलक्षणे गम्यगमकसामर्थ्यरूपेत्यर्थः । तस्याः प्रतिपत्त्युत्तरकालत्वेनानङ्गत्वमाशङ्क्य२--व्याप्तिग्रहणकाल इत्युक्तम् । कार्यावसेयत्वाच्छक्तेः कथं ततः प्रागवधारणमित्याशङ्क्य, कार्यकारणभावित्वेनेत्युक्तम् । अयमाशयः—नियम- लक्षणः सम्बन्धोऽनुमानाङ्गम् । न चासावविनाभावमात्रेण भवति सत्यप्यविनाभावे हिंसा- त्वाधर्म्मसाधनत्वयोर्नियम्यनियामकत्वाभावात् किं त्वाक्षेप्याक्षेपकभावेन यद्यस्मिन्सत्य- नेनावश्यं भवितव्यमिति यदाक्षेपकशक्तत्वेनावसोयते, तदेव तेन नियन्तुं शक्यते स्वरूप- प्रयुक्तं हि साहित्यं नियमः, प्रयोजकत्वं चाक्षेपकत्वम् । एतच्च विस्तरेणाचार्य्यैरनुमान- वादेऽभिहितम् । 'व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्म्मः प्रयोजकः । अस्मिन्सत्यमुना भाव्यमिति शक्त्या निरूप्यते ॥ तस्माद्य एव यस्यार्थो नियतो ऽदृष्टशक्तिकः । स एव गमकस्तस्य न प्रसङ्गान्वितो ऽपि यः ॥ साध्यहेतुत्वमर्थानां व्याप्तिशक्त्यनुरोधतः । श्लो० अनु० परि० सं० १४,२३,११०; इतिच । १. यद्धि वह्न्यादिः यस्य धूमादेः सिद्धे महानसे साध्येऽपि पक्षेऽपीत्यर्थः । २. प्रतीत्युत्तरेति २ पु० पा० ।