भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 216, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 216

१६४ मीमांसादर्शनम् [ सू० सा चाक्षेपशक्तिर्व्याप्तिग्रहणकाल एवावधार्यते—तथा हि । धूमस्याग्निसाहित्यं नित्यं दृश्यते, तस्य धूमस्वरूपप्रयुक्तत्वाभावे नित्यत्वायोगादर्थापत्त्या धूमस्वरूपस्य प्रयोजकत्वम्, कल्प्यते । तत्र धूमत्वश्यामलत्वोर्द्धंगतित्वायनेकसम्पाते धूमत्वमेवप्रयोजकम्, नान्यदिति व्यवस्था शक्त्या विनानुपपद्यमाना शक्तिं कल्पयति । अतोऽनुमानाङ्गभूतनियमलक्षणसंबन्धसिद्धय- र्थेयं शक्तिः न गम्यगमकभावसिद्धयर्था, येन तदुत्तरकालावसेया स्यात् । सत्यां तु शक्तौ, नियमवच्च तेन गम्यगमकभवो भविष्यतोति भाविनीं गम्यगमकतामालोच्य गम्यगमक- शक्तिरित्युच्यते । तदेव कार्यकारणभावित्वेनेति भविष्यत्कालवाचिगम्यादिपठितभाविशब्द- प्रयोगेण दर्शितम् । कार्यकारणशब्दौ गम्यगमक।रो व्याख्यातौ । यस्मिन्सामर्थ्ये सति नियामकमग्न्यादि गम्यं भविष्यति, नियम्यं च धूमादि गमकं तत्कार्यकारणभाविसामर्थ्यम्, तस्य भावः कार्यकारणभावित्वं तेनेतीयमपि तृतीयेत्थंभूतलक्ष- णार्थैव । अनेन च भाष्यगतो भावशब्दो भवतेर्णिजन्तादेरजित्यच्प्रत्ययमुत्पाद्य भावनार्थो व्याख्यातः । भावनं चोत्पादनम्, तच्च शक्त्यधीनमिति, कार्यकारणभावशब्देन गम्यगमक- भावापादिका शक्तिरुक्ता भवति । एवमपि कार्यकारणशब्दयोर्लक्षणावृत्त्यपरिहाराद्भावशब्दस्य शक्तावप्रयुक्तत्वादपरि- तोषात्स्वमतेनान्यथा व्याचष्टे—अथ वेति । काणादा ह्यस्येदं कार्यं कारणं संयोगि समवायि एकार्थसमवायिविरोधि चेति लैङ्गिकमित्यनुमानाङ्गभूताविनाभावोपाधित्वेन कार्यकारण- भावादिच्छन्ति । लोकेऽपि त्वेवमेव दृश्यते । इह चान्नकरणत्वेन दर्व्यादेर्होमसाधनत्वं विधीयमानमन्नकरणत्वकारणकमेव भवति । भाष्यगतहोमशब्दवच्चात्रत्योऽपि संवन्धलक्ष- णार्थः । आक्षेपभाष्यमुपसंहरति-तस्मादिति । हेतुव्यपदेशशब्देनैतदुक्तम्, हेतुर्हि प्रमाणान्तर- प्रसिद्धः स व्यपदेश्यः सिद्धवत्कीर्त्तनीयो भवति, न चायं तथेति, न हेतुत्वं युक्तमिति । सत्यमिति समाधानभाष्यं व्याचष्टे—सत्यमिति । अनेन च विधायिष्यते कार्यकारण- भावो दृष्टान्तवचनेन कल्प्येतेति व्याख्यातम् । दृष्टान्तशब्देन दृष्टश्चासावन्तश्चेति समीप- वचनान्तशब्दाङ्गीकारेण सह दृष्टिरूपास्यान्याप्तिरुक्ता । कल्पिताया अपि व्याप्तेरशाब्द्याः शाब्देन हेतुनाऽन्वयमाशङ्क्यान्यसिद्धयर्थं वचने कलानमुक्तम् । सप्तमेऽपि वचनं पुनर्द्विविधं प्रत्यक्षमानुमानिकं चेति वदता भाष्यकारेण श्रुतार्थापत्तेः शब्दकल्पकत्वमेव प्रकटितम् । शब्दकल्पकत्वानङ्गीकारे चाग्नये जुष्टन्निर्वपामीत्यादेर्मन्त्रस्य विकृतावसन्निहिताग्न्यादिपदनिवृत्त्या साकाङ्क्षस्यापि सूर्यादिनार्थेन नैराकाङ्क्ष्यसिद्धेनं सूर्यादिपदप्रक्षेपेणोहः सिद्धयेत् सूत्रकृताव्यर्थाद्वा कल्पनैकदेशत्वादिति स्रुवेणावद्यतीत्यादि- श्रुतवाक्यैकदेशादश्रुत इव द्रव्यमित्यादिपदकल्पनैवोक्ता । चतुर्थेऽप्यश्रुतफलेष्वेकाहकाण्डपठितेषु विश्वजिदादिषु ‘चोदनायां फलाश्रुतेः कर्ममात्रं विधीयते न ह्यशब्दं विधीयत इति फलप्रतिपादकशब्दाभावान्निष्फलत्वं पूर्वपक्षयित्वा ‘अपि वाम्नानसामर्थ्याच्चोदनार्थेन गम्येत अर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते अर्थतो ह्यसम-