भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 217, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 217

२६ ] प्रथमाध्याये द्वितीयपादः १६५ र्थानाम्मानन्तर्य्येऽपि असम्बन्धः तस्माच्छ्रुत्येकदेशः स' इति श्रुतवाक्यैकदेशभूतस्वर्गकामा- दिपदकल्पनमेव वक्ष्यते । अर्थस्य शब्दैकदेशभूतस्वर्गकामादिपदकल्पनमेव वक्ष्यते । अर्थस्य शब्दैकदेशत्वायोगाच्छ्रुतार्थापत्तिमाहुर्यं शब्दस्याकल्पिकाम्, अतः सूत्र-भाष्य-न्याय- तन्त्रविरोधात्ते निराकृताः । कीदृशं दृष्टान्तवचनमित्यपेक्षिते दर्शयति—यद्यदिति । शूर्पेण होम इति भाष्यं हेतुः स्यादित्यनेन पुनरुक्तमाशङ्क्य उपसंहारार्थत्वेन व्याचष्टे—तेन चेति । शूर्पेण होमे कर्त्तव्ये इति द्वितीयपूर्वपक्षाभिप्रायेणोक्तम् । प्रथमपूर्वपक्षे तु समस्तस्य वाक्यस्य केवलहेतु- परत्वात्तदर्थानुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य तच्छ्रुतेरवयुत्यानु- वादत्वादुपलक्षणार्थं शूर्पग्रहणम् । शूर्पेणान्येन वा होमः कर्त्तव्य इत्यर्थः । किं प्रयोजन- मिति प्रश्नभाष्यं व्याप्तिवचनकल्पनेन प्रयोजनस्योक्तत्वादयुक्तमाशङ्क्य व्याचष्टे—किं प्रयोजनमिति । द्वितीये पूर्वपक्षे चैतदुक्तं तदा हि शूर्पेण जुहोतीति विधेस्तेन ह्यन्नं क्रियत इत्यर्थवादनिराकाङ्क्षत्वे सत्यपि, शूर्पासम्भवेऽनुकल्पभूतदर्व्यादिप्राप्त्यर्थं तेन ह्यन्नं क्रियत इत्यस्यापि परावृत्त्य हेतुपरतेष्यते । तत्र शूर्पश्रुतेरुपलक्षणार्थत्वात्तेन ह्यन्नं क्रियत इत्य- विशेषेणान्नकरणमात्रस्य हेतुत्वप्रतिपादनान्न हेतुपरत्वे व्यवस्था लक्ष्यत इति, श्रुतविधि- त्यागेनाश्रुतविधिकल्पनस्य किं प्रयोजनमिति प्रश्नाभिप्रायो व्याख्येयः । द्विविधमपि प्रश्नाभिप्रायन्निराकर्त्तुमन्यदपीत्युत्तरभाष्यं व्याचष्टे—अपरस्त्वाहति । शास्त्रस्य महाविषयत्वम्, पुरुषस्य चानुष्ठानसौकर्य्यमश्रुतविधिकल्पनस्य अनेन प्रयोजनमुक्तम् । अन्नकरणत्वाविशेषात्सर्वेषां होमसाधनत्वेऽभिहिते, कुत इति प्रश्नभाष्यन्निराभिप्रायमा- शङ्क्याह—कुत इति तेनेति । शूर्पपरामर्शितत्प्रातिपदिकात्परया तृतीया शूर्पंगतस्यै- वान्नरकरणत्वस्य हेतुत्वाभिधानात् कुतो दर्व्यादिप्राप्तिरिति यः सिद्धान्ताभिप्रायः यदि च हेतुरित्यत्र सूत्रे वक्ष्यते, स एवात्र प्रश्ने ज्ञेय इत्यर्थः । अभिप्रायन्तरमाह—अथ वेति । अभिप्रायद्वयनिराकरणार्थत्वेन सौत्रार्थवत्त्वपद- व्याख्यानार्थं तस्यापीति भाष्यं व्याचष्टे—इतरस्त्वाहति । तृतीयोपात्तस्य करणत्वस्य हिशब्दोपात्तहेतुत्वविधावुद्देश्यत्वान्नाप्रातिपदिकान्वयलाभेन शूर्पंगतत्वेन विशेष्टुमशक्यत्वात् अन्नकरणमात्रस्य हेतुत्वाद्व्यादिप्राप्तिसिद्धिरित्याद्यभिप्रायार्थः । करणत्वं चार्थवत्त्वशब्देना- भिप्रेतं द्वितीये रूपयोगित्वं दव्यदिः पाकाद्यपेक्षया विप्रकर्षेऽपि यदन्नक्रियायामुपयोगित्वं तदेवात्यन्तविप्रकृष्टलाङ्गलाद्यपेक्षया साधकतमत्वेन विवक्ष्यत इत्यर्थः । 'शक्यते चेति' भाष्यं सौत्रोपपत्तिशब्दव्याख्यानार्थतया व्याचष्टे—शक्यते चेति । पौनरुक्त्यमाशङ्कते— पूर्वेण त्विति । परिहरति—तेनेति । कर्त्तुमिति । करोतिना अन्नक्रियाविषयाविवक्षा लक्ष्यते, तेनान्नं कियत इति विवक्षितुं शक्यत इत्यर्थः । वेदे वक्तृभावाद्विवक्षानुपपत्तेर्व्या- चिख्यासात्र विवक्षाशब्देनाभिप्रेता । एतदेव व्याचष्टे-यदेव हीति । एवं चार्थवत्त्वपदोक्तो- पयोगित्वे सत्यपि साधकतमत्वाभावात्करणत्वानुपपत्त्याशङ्कानिराकरणार्थत्वेनोपपत्तिपदस्य