मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 218, कुल 804 में से
संदर्भ में पढ़ें१६६ मीमांसादर्शनम् [. सू० पौनरुक्त्यं परिहृतम् । अर्थवत्त्वशब्देन करणत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रियत इति वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रियत इति वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनमिति स्पष्टमेवापौनरुक्त्यमित्याह - अथ वेति । होमं प्रति साधनत्वानुपपत्तिमाशङ्क्य, सौत्रेणोपपत्तिशब्देनोपपत्ति भाष्यकृद्वदति - शक्यते चेति । ग्रन्थेनेत्यर्थः । तत्र शक्य इत्यनेन करोतेः शक्तिलक्षणार्थत्वमुक्तम् । लटो वा भूतभविष्य- त्कालक्षणार्थत्वं चशब्देन सूचितम् । 'एतद्धीति' भाष्यं साध्याहारं व्याचष्टे---तन्नेति । कथं चाकारि करिष्यते वेत्यभिधीयत इति । अत्राप्यध्याहार्य्यं न हीत्युत्तरभाष्यं व्याचष्टे- वर्त्तमानेति । वर्त्तमानाङ्गक्रियस्य होमसाधनत्वासम्भवात्करोतिना वा शक्तिर्लक्ष्यते, लटो वा भूतभविष्यत्कालत्वमित्यर्थः । भाष्यमपि यस्मान्न वर्त्तमानान्नक्रियाकालः कश्चिद्धोम- साधनमस्ति । तस्माल्लक्षणाश्रयणमिति योज्यम् । एतदेवोत्तरभाष्यमेकग्रन्थत्वेन व्याचष्टे- यद्धेति । लक्षणापत्तेरुभयपक्षसाम्येनादोषत्वप्रतिपादनार्थस्य व्यर्थे स्तुतिरन्याय्येति चेदिति वक्ष्यमाणसूत्रस्य सर्वपूर्वपक्षोपपत्तिसङ्कल्पनाय व्याख्यानार्थम् । यदि चेति भाष्यं व्याचष्टे- यदि चेति । क्रियावर्त्तमानत्वयोरेकपदोपादानादन्योन्यनिरपेक्षयोश्चानुपपत्त्यभावादैक्यमङ्गी- कृत्वोभयोरित्युक्तं वर्त्तमानत्वशब्देन च क्रियावर्त्तमानत्वमभिप्रेतम् । चोद्यसामान्यमात्रेण दोषत्वानपायात्सूत्रभाष्यापेक्षितपरिहारसाम्यमपि दर्शयति-तेनेति । हेताविति भाष्यं कथन्तर्ह्यपेक्षितमत आह- हेताविति । भाष्यकृताऽर्थवत्त्वपदस्यैव श्रौतार्थवादपरतया व्याख्यातत्वात् सूत्रान्तरव्याख्यानार्थं यदि चेत्यस्मात्प्राक् पठितमित्य- दोषः । तदिदानीं व्याचष्टे-स्तुताविति । न ह्यन्नकरणत्वाविशेषाद्दर्व्यादिवच्छूर्पस्य प्राप्तेः शूर्पेण जुहोतीत्यनर्थकं स्यादत आह- शूर्पेणेति । भाष्यकृद्वयाख्याने हेतुत्वप्रतिज्ञायां हेत्वनभिधानादर्थवत्त्वोपपत्तिहेत्वोश्च साध्यानभिधानात्सूत्रस्य न्यूनत्वापत्तेः । स्वयं व्याख्यानान्तरमाह - इत्थं वेति । विधिर्वा स्यादपूर्वादितिपूर्वाधिकरणपूर्वपक्ष- हेतोरत्राप्यनुषङ्गेण पूर्वपक्षप्रतिज्ञायां हेत्वपेक्षापूरणात् स्याच्छब्देन चान्वयवाक्यकल्पतया हेतुत्वायोगाशङ्कापरिहारं मत्वान्वयवाक्यस्य दर्व्यादिप्राप्तिफलत्वोपपादनार्थत्वेनार्थवत्त्वो- पपत्त्योः साध्यकाङ्क्षापूरणात्सूत्रस्यान्यूनत्वं भाष्यकृतोऽभिप्रेतम् ॥२६॥ भा० प्र०-पूर्व अधिकरण में विधि की तरह कथित वाक्यों का अर्थवादत्व स्थिर किया गया है । प्रकृत में हेतु के समान कथित वाक्यों का अर्थवादत्व स्थापन करने के लिए इस सूत्र से पूर्व पक्षी की अवतारणा की जा रही है । इस सूत्र में "वा" शब्द पूर्व पक्ष का सूचक है । "शूर्पेण जुहोति तेन ह्यन्नं क्रियते" (जै० ब्रा० १।६।५) शूर्प के द्वारा होम करें, क्योंकि उसी के द्वारा अन्न सम्पादित होता है, इस तरह के वाक्यों में हेतु का निर्देश किया गया है, उसको हेतुविधि कहा जाता है । क्योंकि, इन वाक्यों में 'हि' शब्द पठित है । हि शब्द हेतु का बोधक है । इस प्रकार इसको हेतु विधि मानने पर श्रौत अर्थ ही गृहीत होता है, अन्यथा, अर्थवाद मानने पर वाक्य में लक्षणा माननी पड़ेगी,