भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

१६६ मीमांसादर्शनम् [. सू० पौनरुक्त्यं परिहृतम् । अर्थवत्त्वशब्देन करणत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रियत इति वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनत्वमुक्तम् । उपपत्तिशब्देन तु क्रियत इति वर्त्तमानाङ्गक्रियत्वनिर्देशालम्बनमिति स्पष्टमेवापौनरुक्त्यमित्याह - अथ वेति । होमं प्रति साधनत्वानुपपत्तिमाशङ्क्य, सौत्रेणोपपत्तिशब्देनोपपत्ति भाष्यकृद्वदति - शक्यते चेति । ग्रन्थेनेत्यर्थः । तत्र शक्य इत्यनेन करोतेः शक्तिलक्षणार्थत्वमुक्तम् । लटो वा भूतभविष्य- त्कालक्षणार्थत्वं चशब्देन सूचितम् । 'एतद्धीति' भाष्यं साध्याहारं व्याचष्टे---तन्नेति । कथं चाकारि करिष्यते वेत्यभिधीयत इति । अत्राप्यध्याहार्य्यं न हीत्युत्तरभाष्यं व्याचष्टे- वर्त्तमानेति । वर्त्तमानाङ्गक्रियस्य होमसाधनत्वासम्भवात्करोतिना वा शक्तिर्लक्ष्यते, लटो वा भूतभविष्यत्कालत्वमित्यर्थः । भाष्यमपि यस्मान्न वर्त्तमानान्नक्रियाकालः कश्चिद्धोम- साधनमस्ति । तस्माल्लक्षणाश्रयणमिति योज्यम् । एतदेवोत्तरभाष्यमेकग्रन्थत्वेन व्याचष्टे- यद्धेति । लक्षणापत्तेरुभयपक्षसाम्येनादोषत्वप्रतिपादनार्थस्य व्यर्थे स्तुतिरन्याय्येति चेदिति वक्ष्यमाणसूत्रस्य सर्वपूर्वपक्षोपपत्तिसङ्कल्पनाय व्याख्यानार्थम् । यदि चेति भाष्यं व्याचष्टे- यदि चेति । क्रियावर्त्तमानत्वयोरेकपदोपादानादन्योन्यनिरपेक्षयोश्चानुपपत्त्यभावादैक्यमङ्गी- कृत्वोभयोरित्युक्तं वर्त्तमानत्वशब्देन च क्रियावर्त्तमानत्वमभिप्रेतम् । चोद्यसामान्यमात्रेण दोषत्वानपायात्सूत्रभाष्यापेक्षितपरिहारसाम्यमपि दर्शयति-तेनेति । हेताविति भाष्यं कथन्तर्ह्यपेक्षितमत आह- हेताविति । भाष्यकृताऽर्थवत्त्वपदस्यैव श्रौतार्थवादपरतया व्याख्यातत्वात् सूत्रान्तरव्याख्यानार्थं यदि चेत्यस्मात्प्राक् पठितमित्य- दोषः । तदिदानीं व्याचष्टे-स्तुताविति । न ह्यन्नकरणत्वाविशेषाद्दर्व्यादिवच्छूर्पस्य प्राप्तेः शूर्पेण जुहोतीत्यनर्थकं स्यादत आह- शूर्पेणेति । भाष्यकृद्वयाख्याने हेतुत्वप्रतिज्ञायां हेत्वनभिधानादर्थवत्त्वोपपत्तिहेत्वोश्च साध्यानभिधानात्सूत्रस्य न्यूनत्वापत्तेः । स्वयं व्याख्यानान्तरमाह - इत्थं वेति । विधिर्वा स्यादपूर्वादितिपूर्वाधिकरणपूर्वपक्ष- हेतोरत्राप्यनुषङ्गेण पूर्वपक्षप्रतिज्ञायां हेत्वपेक्षापूरणात् स्याच्छब्देन चान्वयवाक्यकल्पतया हेतुत्वायोगाशङ्कापरिहारं मत्वान्वयवाक्यस्य दर्व्यादिप्राप्तिफलत्वोपपादनार्थत्वेनार्थवत्त्वो- पपत्त्योः साध्यकाङ्क्षापूरणात्सूत्रस्यान्यूनत्वं भाष्यकृतोऽभिप्रेतम् ॥२६॥ भा० प्र०-पूर्व अधिकरण में विधि की तरह कथित वाक्यों का अर्थवादत्व स्थिर किया गया है । प्रकृत में हेतु के समान कथित वाक्यों का अर्थवादत्व स्थापन करने के लिए इस सूत्र से पूर्व पक्षी की अवतारणा की जा रही है । इस सूत्र में "वा" शब्द पूर्व पक्ष का सूचक है । "शूर्पेण जुहोति तेन ह्यन्नं क्रियते" (जै० ब्रा० १।६।५) शूर्प के द्वारा होम करें, क्योंकि उसी के द्वारा अन्न सम्पादित होता है, इस तरह के वाक्यों में हेतु का निर्देश किया गया है, उसको हेतुविधि कहा जाता है । क्योंकि, इन वाक्यों में 'हि' शब्द पठित है । हि शब्द हेतु का बोधक है । इस प्रकार इसको हेतु विधि मानने पर श्रौत अर्थ ही गृहीत होता है, अन्यथा, अर्थवाद मानने पर वाक्य में लक्षणा माननी पड़ेगी,

२७ ] प्रथमाध्याये द्वितीयपादः १६७ मुख्य अर्थ सम्भव रहने पर लक्षणा मानना उचित नहीं है। यदि यह कहा जाय कि इन वाक्यों में हेतुविधि मानने का क्या फल है ? इसके समाधान में यही कहना उचित है कि दर्वी स्थाली आदि द्रव्यों से अन्न का सम्पादन होता है, उनमें किसी एक के करने से ही कार्य चलेगा, शूर्प से ही होम करना चाहिए—यह कोई नियम नहीं है। शूर्प ही अन्न का करण है—यह भी बात नहीं है, वरन् दर्वी स्थाली आदि भी अन्न का करण है। शूर्प से तो केवल तण्डुल के छिलके को हटाया जाता है, किन्तु, दर्वी, स्थाली आदि से अन्न का पाक होता है। इसलिए शूर्प की अपेक्षा दर्वी स्थाली आदि ही अन्न का साधकतम होने से प्रकृत में करण है। अतः शूर्प, दर्वी, स्थाली, आदि में विकल्प ग्रहण ही उचित है—यही पूर्वपक्ष का आशय है। 'हेतुः'='हेतु विधि, 'वा' पूर्व पक्ष का सूचक, 'स्यात्' =होगा, अर्थवत्त्वोपपत्तिभ्याम् = अर्थवत्त्व अर्थात् प्रयोजन साधकत्व एवं उपपत्ति अर्थात् युक्ति होने से, 'तेन अन्नं क्रियते" यह वाक्य हेतु विधि है, हेतु से ही दर्वी आदि का होमसाधनत्व रूप सार्थक होता है, इसीलिए उक्त वाक्य में 'हि' शब्द के द्वारा उपपत्ति अर्थात् युक्ति भी उल्लिखित है। (पूर्व पक्ष) ॥ २६ ॥ स्तुतिस्तु शब्दपूर्वत्वादचोदना च तस्य ॥ १.२.२७ ॥ शा० भा०—न त्वेतदस्ति शब्दपूर्वकोऽयमर्थोऽन्नकरणं हेतुरिति । शब्द- श्चान्नकरणं शूर्पहोमे हेतुरित्याह, न च दर्विपिठरहोमे । तेन शब्दपूर्वं शूर्पम्, न च दर्विपिठरादेश्चोदना ॥ २७ ॥ भा० वि०—ननु गृहीतव्याप्तिकस्य लोके हेतुत्वेन व्यपदेशादन्नकरणत्वस्य च होमसम्बन्धेन सहागृहीतव्याप्तिकत्वात् कथं हेतुत्वमिति—स्यादिति । सूत्रावयवं निरस्याशङ्कामाह—नन्विति । अत्र क्रियासामान्यवाचिना करोतिना ज्ञानाख्यः क्रियाविशेषो लक्ष्यते, तेन कार्यं गम्यम्, कारणं च गमकम्, गम्यगमकशब्दयोश्च कृदन्तत्वात् तत्परेण भावप्रत्ययेन सम्बन्धाभिधायिना भवितव्यम्, कृत्तद्धित- समासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति स्मरणात् । सम्बन्धस्य च कारकाणां क्रियोत्पादनशक्तिरूपत्वात् तस्याश्च व्याप्यव्यापकव्यवहारहेतुत्वेन व्याप्तिरूप- त्वात् कार्यकारणभावशब्देन व्याप्तिर्गीयते, तेन व्याप्तिरूपे तस्मिन् असिद्धे कथं हेतुव्यपदेश इत्यर्थः, लोके हेतुव्यवहारात् पूर्वमेव प्रमाणान्तरेण व्याप्तिसिद्धेः अपेक्षात् एव, वेदे तु 'सिद्धवद्धेत्वपदेशान्यथानुपपत्तिकल्पितेन यद्यदन्नकरणं तेन तेन होतव्यमिति वचनेन कार्यकारणभावाख्यः संबन्धो विधायिष्यते—प्रतिपाद- यिष्यत इति सूत्रावयवेन परिहरति--सत्यमित्यादिना । हेतुः स्यादित्यनेनोक्त- मुपसंहरति--शूर्पेणेति । अत्र च समस्तस्य वाक्यस्य केवलहेतुपरत्वात् तदन्यथा-

१६८ मीमांसादर्शनम् [ सू० नुपपत्तिकल्पितसर्वान्नकरणसाधनत्वविधिप्राप्तत्वेन शूर्पस्य तच्छ्रुतेरेवानुवाद- त्वात् उपलक्षणार्थं शूर्पग्रहणम्, तेन शूर्पेणान्येन वा होमे कर्तव्य इत्यर्थः । ननु शूर्पेण जुहोतीति श्रुतं विधिं परित्यज्य शूर्पश्रुतेः उपलक्षणार्थत्वं चाश्रित्य तेन ह्यन्नमिति हेतुनिर्देशान्यथानुपपत्त्या अश्रुतविधिकल्पने किं प्रयो- जनमिति पृच्छति--किमिति । उत्तरं - अन्यदपीति । शास्त्रस्य महाविषयत्वं तेन च यस्य कस्यचिदन्नकरणस्य सर्वदा लाभात् पुरुषस्यानुष्ठानसौकर्यं प्रयोजनमिति भावः । ननु शूर्पश्रुतेरुपलक्षणार्थत्वेऽपि तेनेति साधकतमार्थया तृतीया कथं दर्व्या- दीनां करणत्वप्राप्तिस्तेषामसाधकतमत्वादिति चोदयति-कुत इति । अर्थवत्त्व- पदव्याख्यानेन परिहरति-तस्यापीति । दर्व्यादेरप्यन्नक्रियायामुपयोगमात्रमस्त्ये- वेत्यर्थः । तथापि तेनेति तृतीयोक्तसाधकतमत्वासिद्धिरित्याशङ्क्योपपत्तिपदं व्याचष्टे-शक्यते चेति । नात्र तेनेति साधकतमत्वमभिप्रेतम्, किन्तु लाङ्गलाद्य- पेक्षया दर्व्यादीनामन्तरङ्गसाधनत्वं तावन्मात्रेण तृतीयोपपत्तिरिति भावः । यद्वा पूर्वभाष्य एवार्थवत्त्वपदेनापेक्षितं करणत्वं तृतीयालम्बनमभिधाय क्रियत इति वर्तमानान्नक्रियतापदिष्टस्य कथं होमसंबन्धे हेतुत्वमुच्यते, एकस्य युगपत् क्रियाद्वयायोगादित्याशङ्क्योपपत्तिपदं व्याचष्टे-शक्यते चेति । अत्र क्रियत इति करोतिना तच्छक्तिमुपलक्ष्य तस्यावर्तमानत्वमभिधीयते । अथवा लटा भूतभविष्यद्वाचिनोः लुङ्लिटोरर्थः क्रियायामेव लक्ष्यते, उभयथापि तेनान्नं क्रियते=कर्तुं शक्यत इति श्रुत्यर्थोपपत्तिशब्देनोक्तमित्यर्थः । ननु करोत्यादेर्मुख्यार्थपरित्यागेन लाक्षणिकार्थत्वं कस्मादाश्रीयते तत्राह- एतद्धीति । कर्तुं शक्यत्वं तत्र हेतुर्नहीति यस्मान्न वर्तमानक्रियाकालः कश्चि- द्दर्व्यादिहोमसाधनमस्ति यस्यार्थस्यायं क्रियत इति प्रतिनिर्देशो व्यपदेशः । तस्माल्लक्षणाश्रयणमिति योजना । यदा तु वर्तमानः काल इति पाठः तदा न हि वर्तमानः कालोऽन्नक्रियाया अस्मिन् प्रयोगे सम्भवति, होमसाधनत्वानुपपत्तेः यस्य क्रियत इति प्रतिनिर्देश इति योज्यम्, एवमर्थवत्त्वोपपत्तिभ्यां इति व्याख्या- यार्थवत्त्वमन्यथा व्याचष्टे-हेतौ चेति । शब्दः=हि शब्दः स्तुताविति सर्वजना- भिमतेनान्नकरणत्वेन प्रशस्त्यं लक्ष्यत इत्यर्थः । ननु त्वत्पक्षेऽपि साधकतमार्थंतृतीयायापेक्षितसाधनत्वस्य कृञादिशक्तिवर्त- मानत्वस्य लटा वा भूतभविष्यत्वयोर्लक्षणयापद्येतेत्याशङ्क्य सिद्धान्तेऽपि शूर्प- विषये सा तुल्येति वक्तुं व्यर्थे स्तुतिरिति सूत्रं तस्यार्थं सकलपूर्वपक्षसङ्कलना- यात्रैवाह-यदि चेति । व्यर्थे तस्मिन्निति दर्व्यादिस्साधकतमत्वाद्यभावेनार्थशून्ये

सूत्रमापतति ॥२७॥

२७ ] प्रथमाध्याये द्वितीयपादः १६९ तस्मिन् हेतौ शूर्पेऽपि तदभावेन स्तुतिरनर्थिका स्यादित्यर्थः, एतदेव विवृणोति- शूर्पमपीति । तेन साधकतमत्त्वादिना विनेत्यर्थः । तत्र तुशब्दार्थमाह-एतदिति । हेतुपरत्वम्, शब्दपूर्वत्वादिति व्याचष्टे- शब्देति । अन्नकरणत्वस्य होमे हेतुताया मानान्तरागोचरत्वादिति भावः । ततः किमित्यत आह-शब्दश्चेति । शूर्पहोमे=शूर्पेण होमे कर्तव्ये इत्यर्थः । शूर्पेणेति तृतीयाश्रुत्या शूर्पस्य होमकरणत्वावगमात् आनुमानिकदर्व्याद्यप्राप्तेः होमस्य च शूर्पेण निराकाङ्क्षत्वाच्छूर्पहोम एव हेतुत्वमित्यर्थः, तथाप्यन्नकरणत्वस्य शूर्पहोमसंबंधे हेतुत्वमेवेत्याशङ्क्य शूर्पेण जुहोतीति विधिसिद्धत्वेन हेत्व- नपेक्षत्वात् स्तुतित्वमेवेति स्तुतिरिति । सूत्रावयवो योज्यः । निगमनतया सूत्र- शेषं योजयति-तेनेति । यस्माच्छब्दपूर्वकं शूर्पस्य करणत्वम्, यस्माच्च हेत्व- पदेशस्य स्तुतित्वेनोपपत्तिः तस्माच्छूर्पश्रुतिविरोधाद्धेत्वपदेशानुपपत्त्यभावाच्च न दर्विपिठरादेः होमसाधनत्वचोदना तदनुमानमित्यर्थः । न च शूर्पश्रुतिः अव्युत्पत्यानुवादत्वादान्न होमकारणत्वपरेति वाच्यम्, विध्युद्देशपातिन्यास्तस्यास्तद- पेक्षितहोमकरणसमर्पकत्वे संभवत्यनुवादत्वकल्पनानुपत्तेरिति द्रष्टव्यम् ॥२७॥ त० वा०-शूर्पेणेति तावत्करणविभक्तिश्रुत्यैवावरुद्धो होमो नानुमानिकैर्द्द- र्विपिठरादिभिः सह बाधविकल्पसमुच्चयान्प्रतिपद्यते । होमश्च तेन निराकाङ्क्षी- भूतो नान्यत्प्रार्थयते । अनुत्थितायामेव दर्विपिठारादिश्रुतौ शूर्पं प्राप्नुवच्छ्रुत्यनुमानं प्रतिबध्नाति । तेन ब्रवीति अचोदना च तस्येति । हेत्वपदेशश्च स्तुत्यैवोपपद्य- मानः सन्नाश्रुतदृष्टान्तकल्पनायै प्रभवति । शूर्पश्रुतिश्च विध्युद्देशपातिन्यनन्य- प्रयोजना विस्पष्टा च सती परित्यक्तुं न युज्यते । तस्माद्यद्वाऽन्नकरणत्वादित्येष कर्तव्य इत्यनेनापेक्षितत्वाल्लक्षणयैतत्प्रतिपादयति प्रशस्तत्वादिति । अथ वाऽन्नकरणत्वादिति श्रुतिवृत्तमेव । तत्र यथाश्रुतं विध्युद्देशे हेतुताम- प्रतिपद्यमानं तदनन्तराकाङ्क्षितार्थाविप्लुतहेत्वपेक्षप्राशस्त्यहेतुरवधार्यते, अन्न- करणत्वात्पशस्त इति । कल्पनाद्वयेऽपि च लोकप्रसिद्धदृष्टान्तलाभान्नाश्रुततद्वा- क्यानुमानप्रसङ्गो भविष्यति । सिद्धं हि प्रशस्तानां कर्तव्यत्वमन्नकरणानां च प्रशस्तत्वमिति । अचोदना च तस्येति व्याख्यान्तरम् । तव हि यद्यन्नकरणम्, तच्चोद्यते । न च दर्विपिठरादीनां करणता, साधकतमस्य पाकादेः करणत्वात् । एवं चोत्तर- सूत्रमापतति ॥२७॥ न्या० सु०-अत्र भाष्यकृताऽन्नकरणताया हेतुत्वस्य प्रमाणान्तरानवसेयत्वेन शब्दैक- समधिगम्यत्वाच्छब्देन च शूर्पेण होमकत्तव्येऽन्नकरणत्वस्य हेतुत्वाभिधानात्तस्य च

१७० मीमांसादर्शनम् [ सू० शूर्पेण जुहोतीति विधिसिद्धत्वेन हेत्वनपेक्षतया स्तुतिमात्रार्थत्वावगतेः शूर्पस्यैव शब्द- विहितत्वात्तदवरुद्धे होमे दर्व्यादिरचोदनेत्येवं सूत्रं व्याख्यातम् । तद्विवृणोति - शूर्पेणेति । विरोधसिद्धयर्थं द्वा१क्यप्रदर्शनार्थं१ करणग्रहणं समर्थः पदविधिरिति पदमात्रविधौ साम- र्थ्यापेक्षास्मरणाच्छूर्पस्य दर्व्यादिसापेक्षत्वे शूर्पप्रातिपदिकस्य विभक्त्यनन्वयप्रसङ्गान्निर- पेक्षत्वं विभक्तिग्रहणेनोक्तम् । समुच्चयनिवृत्त्यर्थं चैतद् द्वयम् । श्रुतिग्रहणं बलीयस्त्वाद् बाधविकल्पनिरकरणायोक्तम् । न केवलं विभक्त्यन्वयान्यथानुपपत्त्या शूर्पस्य दर्व्याद्यन- पेक्षत्वं स्यात् किन्त्वसामर्थ्यादपीत्याह -- होमश्चेति । ननु हेत्वपदेशान्यथानुपपत्त्यान्वयविधा यिश्रुत्यनुमानावश्यंभावाद् बलाबलविशेषेऽपि मुख्यानुकल्पव्यवस्थया विरोधपरिहारो भविष्यतीत्यत आह - अनुत्थितायामिति । अत्रैव अचोदना च तस्येति सूत्रावयवं योज- यति - तेनेति । हेत्वपदेशान्यथानुपपत्तिनिराकरणार्थतया स्तुतिग्रहणं व्याचष्टे - हेत्व- पदेशश्चेति । आद्यं पूर्वपक्षं निरस्यति - शूर्पश्रुतिश्चेति । किमालम्बनस्तर्हि हेतुनिर्देशः, अत आह - तस्मादिति । वक्ष्यमाणपक्षापेक्षया यद्वाशब्दः, तेन विध्युद्देशेनानन्तरमाकाङ्क्षित- मर्थेन विधिसामर्थ्येनोपप्लुतं हेत्वपेक्षं यत्प्राशस्त्यम्, तस्य हेतुरिति विग्रहः । न केवलं हेतुपरत्वासम्भवात् प्राशस्त्यपरत्वम्, किन्त्वश्रुतान्वयवाक्यकल्पनानापादकत्वादपीत्याह --- कल्पनेति । एतदेव सूत्रमन्नस्वरूपस्य होमसाधनतया कल्प्येन शब्देन चोद्यमानतयेष्टत्वा- द्दर्व्यादिरकरणत्वादचोदनेत्यन्त्यप्रतीकेनावतार्याऽन्यथा व्याचष्टे - अचोदना चेति । भाष्य- मप्यस्यां व्याख्यायामेवं योज्यं शब्दश्चान्नकरणहेतुरित्याह - तच्च शूर्पहोमेति । शूर्पेण जुहोतीत्येतद्वाक्यविधेयाङ्गीक्रियमाणेऽस्य स्तुत्यर्थत्वात्प्रमाणान्तरानुसारेण गौणत्वाद्युज्यते दर्व्यादिहोमेऽनुकल्पेन वाक्येन विधेयेऽङ्गीक्रियमाणे, तस्य करणत्वाभावान्न युज्यतइति । व्याख्यानान्तरस्य प्रयोजनमाह - एवं चेति ॥ २७ ॥ भा० प्र०-पूर्व पक्षियों के पूर्वोक्त सन्देहों के समाधान में आचार्यों का कहना है कि शूर्प को अन्न की साधनता का बोधक वाक्य अर्थवाद है। दवीं, स्थाली आदि को अन्न का साधन न कहकर श्रुति में शूर्प को ही अन्न का साधक कहा गया है । 'शूर्पेण' इस तृतीयान्त पद के प्रयोग से शूर्प में अन्न की साधनता श्रुति के द्वारा ही कही गई है। दवीं, थाली, आदि में अन्न की साधनता अनुमान सिद्ध है । अलौकिक अर्थ में वेद ही प्रमाण है, वेद 'शूर्पेण' इस करण में तृतीया का प्रयोग कर इसमें साधनता सुस्पष्ट है, अतः, थाली आदि के साथ शूर्प की साधनता के विकल्प का प्रसङ्ग ही नहीं है। क्योंकि, समान बल रहने पर ही दो द्रव्यों में विकल्प होता है । किन्तु, शूर्प की अन्न साधनता स्वतःप्रमाण श्रुति द्वारा बोधित होने से दवीं, थाली प्रभृति में अनुमेय अन्न साधनता श्रुति की अपेक्षा दुर्बल है । अतः, शूर्प के साथ थाली आदि का विकल्प नहीं हो सकता है । श्रुति उपदिष्ट १. द्वारैक्ये सति विरोधः, विरोधे सति करणयोः समुच्चयासम्भवः ।

२९ ] प्रथमाध्याये द्वितीयपादः १७१ होम की करणाकाङ्क्षा श्रुतिबोधित शूर्प के द्वारा ही चरितार्थ होने से थाली प्रभृति की होमसाधनता की प्राप्ति का अवसर ही नहीं है । ‘श्रुतिः’=अर्थवाद, ‘तु’=पूर्वं पक्ष का व्यावर्तक, “शब्दपूर्वकत्वात्” = क्योंकि शूर्प अन्न का कारण है, वह श्रुति बोधित है, ‘अचोदना’=अविधि या विधि नहीं है । ‘च’= और,,तस्य’=दर्वी, थाली आदि का । श्रुति के द्वारा शूर्प को ही अन्न साधनता कहा है, दर्वी स्थाली आदि की अन्न साधनता की विधि या वेदवचन नहीं है । अतः, यह स्तुति या अर्थवाद वाक्य है ॥ २७ ॥ व्यर्थे स्तुतिरन्याय्येति चेत् ॥ १.२.२८ ॥ शा० भा०—इति पुनर्यदुक्तम्, तत्परिहर्त्तव्यम् ॥ २८ ॥ भा० वि०—ननु शूर्पविषयेऽपि साधकतमत्वक्रियावर्तमानतवाद्यर्थाभावात् कथं स्तुतिरिति ‘व्यर्थे स्तुतिरिति’ सूत्रार्थस्य पूर्वमुक्तत्वादनुभाषणार्थमेतत्सूत्रमिति व्याचष्टे—इति पुनरिति । तस्य परिहारयोग्यतामाह—तदिति ॥ २८ ॥ त० वा० — यत्पुनः शूर्पेऽप्यन्नकरणत्वानुपपत्तेः स्तुतिर्न प्राप्नोतीत्युक्तम् । किं तत्राभिधीयते ॥ २८ ॥ न्या० सु०--एतत्सूत्रार्थस्य पूर्वमुक्तत्वादनुभाष्यार्थार्थतैतत्सूत्रमिति पुनर्यदुक्तमिति वदता भाष्यकृता व्याख्यातम्, तद्व्याचष्टे—यत्पुनरिति ॥ २८ ॥ भा० प्र०—शूर्प के द्वारा अन्न का सम्पादन नहीं होता, किन्तु, दर्वी, स्थाली आदि के द्वारा ही अन्न का निष्पादन होता है, इसलिए, शूर्प की प्रशंसा करना सङ्गत नहीं है, इसलिए इस स्थल में हेतु विधि ही आश्रयणीय है, अर्थात् दर्वी स्थाली आदि के द्वारा भी होम किया जा सकता है—यही श्रुति का आशय है और ऐसी स्थिति में यह भी सङ्गत नहीं होगा । ‘व्यर्थे’=जो प्रयोजन का निर्वाहक नहीं है उसके सम्बन्ध में, “स्तुतिः” = प्रशंसा, ‘अन्यस्या’ = अनुचित, “इति चेत्” यदि यह कहा जाय ॥ २८ ॥ अर्थस्तु विधिशेषत्वाद्यथा लोके ॥ १.२.२९ ॥ शा० भा०—अस्मत्पक्षेऽर्थोऽस्ति । वाक्यशेषो हि स विधेस्तदा भवति । संवादश्च स्तुतिवचनत्वेन । यथा वयं शूर्पेणान्नं क्रियमाणं जानीमः, तथा शूर्पेणान्नं क्रियत इत्येव गम्यते । तदा चावर्तमानं स्तोतुं वर्तमानमित्युपदिशति । त्वत्पक्ष एष दोषो यस्य ते हेतुविधिः । विधौ हि न परः शब्दार्थः प्रतीयते । न च वर्त- मानमुपदिशन्वेदः शक्यमर्थं विदध्यात् ।

१७२ मीमांसादर्शनम् [ सू० अस्मत्पक्षे तु एष परशब्दः परत्र वर्तते । यथा लोके बलवान्देवदत्तो यज्ञ- दत्तादीन्प्रसहत इति । प्रकृष्टबलेऽपि बलवच्छब्दो वर्तमानो न सिंहं शार्दूलं वाऽपेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलाः, तानपेक्ष्य भवति । एवं तेन ह्यन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः शूर्पस्य, निकृष्टान्यन्यान्यन्नकरणान्यपेक्ष्य भविष्यति ॥ २९ ॥ भा० वि०—सूत्रेण परिहरति--अर्थस्त्विति । तुशब्दश्शङ्काव्यावर्तकः, अर्थशब्दं व्याचष्टे—अस्मत्पक्ष इति । अर्थोऽन्नकरणत्वादिरूपः कुत इत्याशङ्क्य विधिशेषत्वादिति व्याचष्टे—वाक्येति । तेन व्रीह्यादिस्सर्वनाम्ना परामृष्टः सत्यपि विधिशेषत्वे कथमर्थसत्तेत्याशङ्केत्यत आह—सांवदश्चेति । विधिशेषतया स्तुति- वचनत्वे चानुवादत्वेन भवितव्यम् अनुवादश्च मानान्तरसिद्धस्यैवेत्यर्थः, तथापि किमित्याशङ्क्य यथालोक इति व्याचष्टे--तेनेति । शूर्पेण क्रियत इति श्रुत्या सङ्कीर्त्यत इति अवगम्यत इत्यर्थः, एवमुपयोगित्वमात्रं करणविभक्त्यर्थमभिधाय वर्तमानान्नक्रियात्वाभिधानमुपपादयति--तथा१ चेति । तथा अवर्तमानमप्यन्न- क्रियायोगित्वं शूर्पं स्तोतुं वर्तमानं व्यपदिशति श्रुतिरित्यर्थः, अर्थस्तु विधिशेष- त्वादित्यस्य व्यतिरेकं दर्शयन् परपक्षे दोषमाह—त्वत्पक्ष एष इति । मुख्यत्वाद्य- ग्रह इति । तत्रापि कथं तदग्रहो दोषस्तत्राह--यस्येति । विधिः अज्ञातज्ञापनं हेतुविधिवादत्वात् तवेत्यर्थः, विधित्वेऽपि कुतो दोषापत्तिरित्यत आह--विधौ हीति । न परस्य=अन्यस्य शब्दस्यार्थः प्रयोजनं तया प्रतीयत इत्यर्थः, लक्षणायां हि परशब्दार्थः प्रयोजनं भवति, विधिपक्षे त्वपूर्वाविषयत्वान्न लक्षणा युक्तेत्या- शयः, भवतु तर्हि मुख्यार्थत्वमत आह--न हीति । वर्तमानान्नक्रियं साधकतमं चोपदिशन्र वेद इत्यर्थः एकक्रियाविशिष्टस्य शूर्पादेस्तदैव क्रियान्तरायोगात् साधकतमेन च पाकादिना होतुमशक्यत्वादिति भावः । ननु त्वत्पक्षेऽपि मुख्यार्थाभ्युपगमे विरोधः, लक्षणाभ्युपगमे तु स एव दोषः, इत्याशङ्क्य लाक्षणिक एवार्थः स्वीकर्तव्यः, विधिशेषत्वेनानुवादतया प्रमाणा- न्तरानुसारितया लक्षणाया अप्यदोषत्वादित्यभिप्रेत्य सूत्रयोजनं मत्वाह—अस्मत्पक्ष इति । तत्रापि यथालोक इति व्याचष्टे--यथालोक इति । बलवच्छब्दः प्रकृष्टबले वर्तमानोऽपि इति सम्बन्धः, यद्यपि भूम्नो अतिशायनस्य च मतुबर्थत्वाद्विशेषा- भिधानाच्च सर्वेभ्यः प्रकृष्टबलत्वं शब्दशक्त्या प्रतीयते, तथापि सिंहादीनाम- धिकबलानपेक्ष्याधिकबले देवदत्ते स्तुत्यर्थलक्षणया प्रयुक्त इत्यर्थः । दाष्टन्तिंक- माह—एवमिति । शूर्पस्यापि लाङ्गलाद्यपेक्षया प्रकृष्टस्यैवात्यन्तप्रकृष्टत्वेन स्तुति- स्तेनेत्यादिना क्रियत इत्यर्थः ॥ २९ ॥ १. तदा चेति मु० पु० पाठः ।

२९ ] प्रथमाध्याये द्वितीयपादः १७३ त० वा०-अस्मत्पक्षेऽर्थोऽस्ति स्तुत्यालम्बनमन्नकरणत्वं नाम, वाक्यशेषो हि भवन्पारतन्त्र्याद् गौणत्वादपि प्रतिपद्यते । तदा च विधेयान्तरवशादवश्य- मनुवादेन भवितव्यमनुवादश्च यथाविज्ञातस्य भवति । अतः शब्देनैवाभ्यनुज्ञातं यादृशं वयमन्नकरणत्वं शूर्पे पश्यामः, तादृशमिदं संकीर्त्यत इति । अनेन वर्त- मानापदेशो व्याख्यातः । तत्रापि हि कृतं वा करिष्यमाणं वा स्तोतुं क्रियत इत्युच्यते । कथं स्तुतिः ? सर्वलोकस्य भूतभविष्यदनादरेण वर्तमानोपकारा- नुरागाद्वर्त्तमानालोचनेनैव च कालान्तरेऽपि तत्र प्रीतिरिति क्रियत एवाऽनेनान्न- मित्यच्यते । अथ वाऽन्नक्रियाशक्तेर्वर्तमानतान्नक्रियायामेवोपचर्य स्तोति । तत्रापि जनानां शक्त्यतिक्रमेणाभिव्यक्तिप्रियत्वात्क्रियत इत्युक्ते स्तुतिर्भवति । ' न शक्त्यभिधा- नात् । तव तु विधिवादत्वान्मुख्यस्यान्नकरणत्व-वर्तमानत्वयोर्ग्रहणे दोषः किं कारणम् ? विधानं ह्यत्यन्तानवगतार्थविषयम् । तत्र यथाश्रुतादन्यथाग्रहणं निष्प्रमाणकम् । एतदेवाऽऽह-विधौ हि न परशब्दार्थः प्रतीयत । परशब्दार्थो हि लक्षणासु प्रयोजनम् । तदिह भूतभविष्यत्क्रियावाचिनः, शक्तिवर्तमानतावाचिनो वा स्वार्थे वर्तमानान्नक्रियावाची शब्दः कल्पनीयः । तन्निमित्तमात्रे शब्दार्थे साधकतमत्ववाचिनी तृतीया । नचैवंभूतत्वं कुतश्चित्सिद्धमित्यप्रमाणकम् । अथ मुख्यार्थपरिग्रहः । तत्रोच्यते । न च वर्तमानं साधकतमं वोपदिशन्वेदः शक्यमर्थं विदध्यात् । न हि वर्तमानान्नक्रियेण शूर्पादिना साधकतमेन वा पाकेन होतुं शक्यते । तस्मादुभयथाऽपि विप्रतिषिद्धम् । अस्मत्पक्षे त्वनुवादत्वात्परशब्दार्थग्रहणम् । तथा लोके बलवान्देवदत्त इति भूम्यतिशयने वा मतुप्प्रवृत्तिः । न च विशेष उपात्तोऽमुष्मात्प्रकृष्टबल इति । तत्र सर्वसत्त्वेभ्यः प्रकर्षे मुख्यः शब्दो न च तथा संभवति सिंहादीनां बलवत्तर- त्वादिति देवदत्तान्यूनतरबलानपेक्ष्यैवमभिधीयते । तथाऽन्न विप्रकृष्टतरान्नसाधन- लाङ्गलाद्यपेक्षया शूर्प साधकतममित्युच्यते । नन्वेवमापेक्षिकप्रवृत्तेर्मुख्यत्वमेव स्यात्, तथा च देवदत्ते बलवच्छब्दप्रवृत्तिं नैव गौणीं मन्यते । सत्यमेवम्, यदा तावन्न्यूनमात्रापेक्षयैव प्रयुज्यते, यदा त्ववि- शेषप्रवृत्तेस्तदधिकबलेष्वपि बलवद्बुद्धिर्जता तदा स एव शब्दः कुतश्चिदपि न्यूनबले वर्तमानो गौणः संपद्यते । तथा यदि विध्युद्देशोपात्ते शूर्पेऽन्नकरणत्व- मनूद्यते । ततस्तन्न्यूनमात्रापेक्षया वा मुख्यत्वं न्यूनानुपादानाद्वा सामान्यतः प्रवृत्तस्य सर्वप्रकृष्टगामित्वबुद्धौ सत्यां गौणता । भवतस्त्वपूर्वविधानादत्यन्तसाधक- तमत्व-वर्तमानत्वयोः क्रियां प्रत्युपादानान्न्यूनापेक्षागौणत्वयोर्निमित्तं नास्ती- त्यतिकिलेशः स्यादित्यसमानम् ॥ २९ ॥

१७४ मीमांसादर्शनम् [ सू० न्या० सु०-अर्थशब्दव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्ष इति । विधिशेषत्वादितिसूत्रावयवव्याख्यानार्थं वाक्येति भाष्यं व्याचष्टे-वाक्येति । सत्यपि विधिशेषत्वे कथमर्थवत्तेत्याशङ्कानिराकरणार्थं सम्वादश्चेति भाष्यं व्याचष्टे-तथा चेति । वर्त्तमानाङ्गक्रियत्वाभिधानोपपादनार्थं तदा चेति भाष्यं व्याचष्टे-अनेनेति । करोतेरेति शक्तिलक्षणार्थत्वमनेन भाष्येण वर्त्तमानमितीतिकरणेन अक्रियं वा स्तोतुं सत् क्रियमित्युपदि- शन्तीत्यपि सूचनाद्दर्शितं भवतीति व्याख्यातुमाह-अथ वेति । अनेन चैवं भाष्यं व्या- ख्यातम्, कृतं करिष्यमाणं वा स्तोतुं क्रियतइति वर्त्तमानशक्तिकं वा स्तोतुं क्रियत इत्यु- पदिशतीति । 'अर्थस्तु विधिशेषत्वादित्यस्य' व्यतिरेकप्रदर्शनार्थं त्वत्पक्ष इति भाष्यं व्याचष्टे-तव त्विति । वर्त्तमानशब्देन क्रियामप्युपलक्ष्येति दोषापादनार्थं विधौ हीति भाष्यं प्रश्नपूर्वकं व्याचष्टे-किं कारणमिति । परशब्दार्थः प्रतीयतइत्यनेन वाच्यतया प्रतीतिरुक्तेति, कथंचिद् भ्रान्तिः स्यात् तच्च जहत्स्वार्थतापत्तेरयुक्तमिति प्रयोजनपदप्रक्षे- पेणोक्तार्थे योजयति-एतदिति । प्रयोजनपदप्रक्षेपे कारणमाह-परेति । न तु वाच्ये इति शेषः । कस्य शब्दस्यार्थे कः शब्दोऽत्र कल्प्यत इत्यपेक्षायामाह-तद्विहेति । भूत- वाचिनोऽकारीति लूडः, भविष्यद्वाचिनो वा करिष्यतइति लुटश्चार्थे वर्त्तमानवाची शब्दः क्रियते इति लट् प्रत्ययः कल्पनीयः । शक्तिवर्त्तमानतावाचिनो वा शक्यत इति शक्नोति स्वार्थे क्रियावाचो शब्दः क्रियत इति करोति धातुः कल्पनीय इत्यर्थः । न चेति भाष्यं शङ्कापूर्वकं व्याचष्टे - अथेति । सक्रियमित्यत्यत्र द्रष्टव्यम् । अशक्या- र्थत्वमेव दर्शयति-न हीति । तत्र तु विधिवादित्वादित्यारभ्य द्वितीयपूर्वपक्षदूषणमुक्तम् । तदुपसंहरति-तस्मादिति । उभयथेति । लाक्षणिकत्वे, मुख्यत्वे च विधिवादिनः क्रियत इति विप्रतिषिद्धमित्यर्थः । दृष्टान्तव्याख्यानार्थमस्मत्पक्ष इति भाष्यं व्याचष्टे-अस्मत्पक्षे त्विति । सत्यप्यन्यस्मिन्प्रकृष्टबले देवदत्तस्यापि बलसद्भावात्कथं गौणतेत्याशङ्कय भूम्यति- शायने वेत्युक्तम्-स्मरन्ति हि । 'संयोगेऽस्तिविवक्षायां नित्ययोगेऽतिशायने । भूमिनिन्दाप्रशंसासु भवन्ति मतुवादयः ॥ इति इह च यज्ञदत्तादीन्प्रसहत इति वाक्यशेषाद् भूम्यतिशायने चेति ज्ञायते, दृष्टान्त- दाष्ट्रान्तिकयोरपेक्षिकातिशयसद्भावान्मुख्यत्वं शङ्कते -- नन्वेवमिति । नानेन भाष्येण निकृष्टमात्रापेक्षया प्रयोगे गौणत्वमुक्तम्, किं तु सर्वापेक्षयोगे निकृष्टमात्रापेक्षया प्रयोग- विषयस्य मुख्यस्यातिशयस्योपचारार्थमुपन्यास इति परिहरति-सत्यमिति । मुख्यत्वं चात्र सम्भवमात्रेणोच्यते, न प्रकृतोपयोगितया, परशब्दार्थग्रहणमित्युपक्रमात् । वर्त्तमान- क्रियत्वस्य गौणत्वे देवदत्तः पचति, योऽधुना भुङ्क्त इति दृष्टान्तो दातव्यः । विधिपक्षेऽपि तद्यपेक्षिकं मुख्यमेव साधकतमं भविष्यतीत्याशङ्कयाह-भवतस्त्विति । वर्त्तमानक्रियत्व- गौणत्वयोर्दृष्टान्तत्वेनात्रोपादानम् । यथा वर्त्तमानक्रियत्वोपादानवत्सर्वापेक्षसाधकतमत्वस्य

३० ] प्रथमाध्याये द्वितीयपादः १७५ क्रियां प्रत्युपादानात्, तस्य च यथा वर्त्तमानक्रियत्वस्य गौणत्वे निमित्तं नास्ति, तथा साधकतमस्य न्यूनापेक्षायां निमित्तं नास्तीत्यर्थः ॥ २९ ॥ भा० प्र०—पूर्वपक्षी ने शङ्का की है कि शूर्प में अन्नसाधनता न रहने पर उसकी स्तुति अनुचित है । इसके समाधान में सिद्धान्ती का कहना है कि शूर्प के द्वारा होम की कर्त्तव्यता श्रुति में उक्त होने पर "तेन हि अन्नं क्रियते" इस प्रकार उपदिष्ट होता है । हल आदि वस्तुओं में अन्न की साधनता नहीं है, सभी द्रव्यों से अन्न की निष्पत्ति नहीं हो सकती है, अतः इन द्रव्यों की अपेक्षा शूर्प की अन्न के प्रति साधनता होने से विहित शूर्प की स्तुति की जाती है । शूर्प से अतिरिक्त किसी वस्तु में अन्न की साधनता है या नहीं—यह विचार निष्प्रयोजन है । राम बलवान है—यह कहने पर श्याम, कृष्ण आदि की अपेक्षा ही उसकी बलवत्ता प्रतीत होती है, व्याघ्र, सिंह आदि की अपेक्षा उसकी बलवत्ता सिद्ध नहीं होती है । 'अर्थः' = सफल, 'तु' = किन्तु, "विधिशेषत्वात्" = विधि का शेष या अङ्ग होने से, "यथा लोके" = जैसे संसार में लौकिक दृष्टान्त में । लौकिक दृष्टान्त में देवदत्त आदि को बलवान् कहने पर उसके सजातीय कम बल रखने वाले यज्ञदत्त आदि की अपेक्षा ही उसकी वलवत्ता की प्रतीति होती है । प्रकृत में भी जो द्रव्य अन्न में साधन नहीं है उनकी तुलना में शूर्प को अन्न का साधन कहा गया है । अतः शूर्प की स्तुति विधि का शेष या अङ्ग है, यह कथन असङ्गत है ॥ २९ ॥ यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥ १.२.३० ॥ शा० भा०—यद्यपि च भवेदन्नकरणं हेतुर्दवपिठरप्रकाराणाम्, तथाऽपि शूर्प एवावतिष्ठेत । शब्दादन्नकरणं हेतुरिति विज्ञायते । शब्दश्च शूर्पस्याऽऽह, न दर्वि- पिठरादीनाम् । तद्धि निर्दिश्यते, यस्माच्छूर्पेणान्नं क्रियते, तस्माच्छूर्पेण जुहो- तीति । यथा यस्माद्द्बलवदुपध्मातोऽग्नस्तेन मे गृहं दग्धमिति, नानग्निरपि बलवदुपध्मातो दहतीति गम्यते । अथ मतम्, येन येनान्नं क्रियते प्रणाड्या शूर्पा- दन्येनापि, तेन तेनापि होमः क्रियत इति । अव्यवस्था विधीनां स्यान्न केनचित् । प्रणाड्याऽन्नं क्रियते । तत्र यावदुक्तं स्याज्जुहोतीति, तावदेवान्नकरणेन जुहोतीति । अस्मत्पक्षे पुन. शूर्पं स्तूयते । तेन ह्यन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि, परोचनायैव । तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव कार्यमिति ॥ ३० ॥ इति तृतीयं हेतुवन्निगदाधिकरणम्

१७६ मीमांसादर्शनम् [ सू० भा० वि०—अभ्युपगम्यापि हेतुपरत्वं न दर्व्यादौ प्रसङ्ग इत्याह—यदि च हेतुरिति । यदि चेत्यादिसूत्रभागं व्याचष्टे—यद्यपि चेति । दर्वीपिठरप्रकाराणां दर्वीपिठरजातीयानामन्नकरणत्वं हेतुः यद्यपि भवेत्, तथापि स हेतुः शूर्प एव व्यवतिष्ठेतेत्यन्वयः, दर्वीपिठरप्रकाराणामित्यनेनात्यन्तसाधकतमत्वाभावेऽपि दर्व्यादिसाधारणं साधकतमत्वरूपं करणत्वं शूर्पस्य दर्शितम् । ननु कथं शूर्पगतमेवान्नकरणत्वं हेतुः स्यादित्याशङ्कयानिर्देशादिति सूत्रमात्रं व्याचष्टे—शब्दादिति । नत्वकरणत्वसत्तामात्रेणेत्यर्थः, हेतोः शब्दनिर्दिष्टत्वे सत्यपि कथं व्यवस्थेत्यत आह—शब्दवृत्तेरिति । शूर्पगतस्यान्नकरणत्वस्यैव हेतुत्व- माहेत्यर्थः, कथमिदमवगम्यते ? तत्राह—तद्धीति । शूर्पं हि होमसम्बन्धितया निर्दिश्यते=प्रतिज्ञायत इत्यर्थः । अन्यस्मिंश्च प्रतिज्ञातेऽन्यगतस्य हेतुत्वायोगात् शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः तत्र सिद्धं वाक्यार्थमाह—यस्मादिति । शूर्पेण जुहोतीति इति तेन वाक्यार्थस्सिद्धो भवतीति शेषः । ननु यस्माद्धूमवान् पर्वतः तस्मादग्निमानित्यादौ यथा न पर्वतगतत्वं विशेष- णमादाय हेतुत्वम्, तद्वदिह किं न स्यादित्याशङ्क्य नेदं सामान्यतो दृष्टं किंतु विशेषतो दृष्टमत उदाहरति—यथेति । नह्यत्र बलवदुपाध्मातत्वमात्रं गृहदाह- कत्वे हेतुः शङ्खादेरपि प्रसङ्गात् तेनाग्निगतत्वेन विशेषितं तद्वदत्रापि इति भावः, “सामान्यादिति चेत्” इति सूत्रावयवं व्याचष्टे—अन्येनापीति । अन्येन दर्व्यादिनेत्यर्थः, तेनेति तृतीया सर्वनामार्थस्य शूर्पस्य बाधादन्नकरणत्व- मात्रं हेतुः स्यादिति शङ्कार्थः । सूत्रशेषेणोत्तरमाह—अव्यवस्थेति । तथा सतीति- शेषः, अतिप्रसङ्गं विवृणोति—न केनचिदिति । सर्वेणापि यथाकथञ्चित् क्रियत इत्यर्थः, तत्र च विधिवैयर्थ्यमित्याह—तत्रेति । जुहोतीत्युक्तेऽपि येन केनचिद्धो- तव्यमिति तावत् प्रतीयते अन्नकरणेनेत्युक्तेऽपि सर्वस्यान्नकरणत्वात् सर्वेण च होतुमशक्यत्वाद्येन केनचिदित्येव प्रतीयते, ततो विधिरनर्थकः स्यादिति प्रत्यय- स्यैव बाधः, तस्माद्धेतुत्वाभ्युपगमेऽपि शूर्पगतमेवान्नकरणत्वं हेतुरिति भावः, एवमभ्युपगम्यापि हेतुत्वं व्यवस्था मुक्त्वाभ्युपगमं त्यजन् स्वपक्षे हेत्वनभिधानाद्धि शब्दानुपपत्तिमाशङ्क्य परिहति—अस्मत्पक्ष इति । प्रसिद्धान्नकरणत्वाभिधानेन स्तुत्यर्थो हिशब्द इत्यर्थः । ननु कथमस्य स्तुतिपरत्वम् ? वृत्तान्तपरत्वप्रतीतेरत आह—वृत्तान्तेति । वृत्तान्तस्य मानान्तरसिद्धतया तज्ज्ञानेऽनुपयोगात् स्तुतिपरत्वमेव वाक्यस्यावग- म्यते इत्यर्थः, तस्मद्धिवन्निगदानामिवैषामपि स्तुतिपरत्वमेवेत्यधिकरणार्थ- मुपसंहरति—तस्मादिति । शूर्पस्यापि मुख्यकरणत्वाभावात् विधौ च लक्षणा- योगात् हेतुत्वानुपपत्तेरिति । इतरधिकरणसमाप्तिं द्योतयति ॥ ३० ॥

पादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासम्भवादुपात्तविशेषमात्रोप-

३० ] प्रथमाध्याये द्वितीयपादः १७७ त० वा० — अभ्युपेत्यवादोऽयम् ! यद्यपि हेतुविधानम्, तथाऽपि न दर्विपिठ- रादेः प्रसङ्गः । कुतः ? शूर्पं हि विधायाऽन्नकरणं हेतुरुच्यते । सोऽपि च न लोके प्रसिद्धः । शब्दमेव दृष्टान्तवाचिनमनुमाय साधयितव्यः । तदनुमाने च श्रुतहेतु- त्वान्यथानुपपत्तिः प्रमाणम्, सा च यावत्येव हेतुत्वमुपपन्नम्, ततोऽधिककल्पनायै न प्रभवति । शूर्पे च होमसम्बन्धित्वेन प्रतिज्ञातेऽन्यधर्मस्याहेतुत्वादवश्यं तद्- गतमेवान्नकरणत्वं वक्तव्यम् । सन्निधेश्च तदवच्छिन्नमेव तद्गम्यते । लोकेऽपि च यं धर्मिणं प्रतिज्ञाय, यो हेतुरुपदिश्यते, स प्रथमं तावत्तद्गतविशेषात्मनैव प्रतीयते । तदात्मकस्य तु साध्यांशानुगमाभावात्सामान्यमात्रं विवक्षितमिति, दृष्टान्तप्रयोगवेलायामेवावधार्यते । वेदहेतूनां पुनर्न सामान्यात्मना साध्यसम्ब- न्धोऽवगतः, न विशेषात्मना । सोऽधुनैवार्थापत्त्या कल्पनीयः । तत्र विशेषस्यो- पादानात्सामान्याप्रसिद्धेश्च तत्परित्यागनिमित्तस्यासम्भवादुपात्तविशेषमात्रोप- संहृतान्यथानुपपत्तिस्तद्गतमेव दृष्टान्तवचनं कल्पयति । तदकल्पने हि हेतु- निर्देशः श्रुतो विरुध्यते । यदि तु दर्विपिठरादिगतान्नकरणत्वहोमसम्बन्धाविना- भावो न कल्प्यते । न किंचिच्छ्रुतम्, दृष्टं वा नावकल्पते । तस्मादीदृशं दृष्टान्त- वचनं कल्प्यं यच्छूर्पमन्नकरणम्, तेन तेन जुहोतीति । तदेतद्विशेषदृष्टमनुमानम् । लोकेऽपि तृणधूमदर्शनात्तृणाग्निरेवानुमीयते, नाग्निमात्रम् । यथा च गमनं गोशब्दव्युत्पत्तिनिमित्तत्वेनोपादीयमानं सास्नादिमत्सामान्यप्रत्ययोत्तरकालं तद्ग- तमेव निमित्तत्वं प्रतिपद्यते, न गन्तुमात्रविषयमिति, गोशब्दव्यवस्था । तथा शूर्पगतान्नकरणहेत्वपदेशान्नान्यगतहेतुत्वप्रसङ्गः । तन्नैतावानर्थः स्यात् – यद्यन्नकरणसमर्थं शूर्पम्, तेन तेन होतव्यम्, न दर्वि- पिठरादिग्रहणम् । यथा वलवदुपध्मातेऽग्नौ दहनहेतुत्वेनोक्ते, स एवानुपध्मातो न दहेन्न तु शङ्खादयो बलवदुपध्माता दहन्ति । तस्माद्व्यवस्था । यदि पुनः शूर्पगतान्नकरणव्यतिरेकेण महासामान्यं विवक्ष्यते ततो यद्यद्गृहीतम्, तस्य तस्य काचिदन्ननिमित्तता विद्यत इत्यव्यवस्थितत्वाद्धोमाक्षिप्तद्रव्यमात्रानुवादः सन्न- नर्थकोऽन्नकरणशब्दः । तस्मादन्नहेतुत्वेन स्तुतित्वमेव वरमिति ॥ ३० ॥ इति हेतुवन्निगदाधिकरणम् ॥ ३ ॥ न्या० सू०—यद्यपि च भवेदित्यनुज्ञादर्शनाद्विधिपक्षोऽपि सम्मत इति कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थमाह — अभ्युपेत्येति । अस्य च प्रयोजनं 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजानिति बहुवचनात्सर्वानुयाजाभावस्य हेतुत्वावगतेरवभृथे बर्हिरनु- याजमात्राभावेऽतिप्रसङ्गन्निवृत्तिः तद्भाष्यं व्याचष्टे — यद्यपीति । अत्यन्तसाधकतमत्वा- भावेऽप्यापेक्षिकसाधकतमत्वप्रदर्शनाय भाष्ये दर्विपिठरप्रकाराणामित्युक्तम् । निर्देशादित्ये- १२

१७८ मीमांसादर्शनम् [ सू० तत्सूत्रावयवव्याख्यानार्थं शब्दादित्यादिभाष्यं व्यवस्थाहेतुप्रश्नपूर्वकं व्याचष्टे-कुत इति । सत्यपि हेतोः शब्दोक्तत्वे कथं व्यवस्थेत्याशङ्क्य शब्दश्चेति भाष्येण शूर्पगतस्यैवान्नकरण- त्वस्य हेतुत्वाभिधानादिति परिहृतम् । तदुपपादयितुमाह-सोऽपि चेति । शूर्पगतस्यैवान्न- करणत्वस्य हेतुत्वं शब्देनोक्तम् । इत्येतदेव कथमवगम्यत इत्याशङ्क्य तद्धि निर्दिश्यत इत्यादिभाष्यकृतोक्तं तस्याभि- प्रायमाह-शूर्पे चेति । अनेन च निर्दिश्यत इति प्रतिज्ञाभिप्रायं व्याख्यातम् । प्रकृतशूर्प- निर्देशकसर्वनामपरया तृतीयया तद्गतस्यैवान्नकरणत्वस्याभिधानात्तस्यैव हिशब्देन हेतुत्व- मुच्यते इत्येवं च तद्भाष्यं व्याख्येयमिति दर्शयितुमाह - सन्निधेश्चेति । एकपदोपादान- लक्षणा श्रुतिः सन्निधिशब्देनाभिप्रेता । ननु लोके व्याप्यविरोधेन सामान्यरूपस्यैव धूमादेर्हेतुत्वावगमात्तद्दृष्टान्तेनात्रापि तथात्वापत्तेः साध्यधर्मिणा विशेषणमयुक्तमित्याशङ्कयाह-लोकेऽपि चेति । वेदे तु हेत्वन्यथानुपपत्तिकल्प्यस्य दृष्टान्तवाक्यस्य सामान्यव्याप्तिविषयत्वायोगान्न तदनुरोधेन हेतोः सामान्यरूपतापत्तिरित्याह-वेदेति । कीदृशं तर्हि अत्र दृष्टान्तवाक्यं कल्प्यते इत्यत आह - तस्मादिति । शूर्पत्वैकार्थसमवायिनोऽन्नकरणत्वस्यैव हेतुत्वविधायकविधि- वचनद्वाराऽन्नकरणत्वावान्तरसामान्योपलक्षणार्थं शूर्पग्रहणम् । विशेषदृष्टसंज्ञकं चैतदनु मानम् । लोकेऽपि प्रसिद्धमित्याह-तदेतदिति । शब्देऽपि ज्ञाने गमेर्डोरिति गोशब्दव्युत्पत्ति- निमित्तत्वेनोपात्तस्य गमनस्य प्रतिपादेन सास्नादिमता विशेषणदर्शनात्तद्दृष्टान्तेनेहापि व्यवस्थासिद्धिरित्याह-यथा चेति । नन्वेवं तर्हि शूर्पेण जुहोतीत्येतावत्तैव सिद्धेर्हेत्वभिधानानर्थक्यं स्यादत आह— तत्रेति । यथेति । दृष्टान्तभाष्यं व्याचष्टे - यथेति । उपसंहरति - तस्मादिति । प्रत्यय- श्रुतिबलेन पदश्रुतिबाधात्सामान्यमात्रस्य हेतुत्वाभिधानाय सामान्यादिति चेदिति सूत्रा- वयवव्याख्यानार्थमयेति भाष्यं व्याचष्टे - यदि पुनरिति । आनर्थक्यापत्तेः प्रत्ययश्रुति- बाधायाव्यवस्था विधीनां स्यादिति सूत्रावयवव्याख्यानार्थमव्यवस्थेति भाष्यं व्याचष्टे- तत इति । हेत्वनभिधानेऽपि हिशब्दानर्थक्यापत्तिशङ्कानिराकरणार्थमस्मत्पक्षे पुनरिति भाष्यं स्पष्टत्वान्न व्याख्यातम् । तस्मादित्यपसंहारभाष्यमसमर्थशूर्पव्यावृत्त्यर्थं हेत्वभिधानो- पपत्तेरयुक्तमाशङ्क्य व्याचष्टे - तस्मादिति । अभ्युपेत्यवादमात्रमेतत् । वस्तुगत्या शूर्प- स्यापि मुख्यान्नकरणत्वाभावाद्विधौ च लक्षणाद्योगाद्धेतुत्वानुपपत्तिरिति भावः ॥ ३० ॥ इति न्यायसुधायां तृतीयं हेतुवन्निगदाधिकरणम् । भा० प्र०-इस सूत्र के द्वारा सिद्धान्ती ने "तुष्यतु दुर्जनः" इसी न्याय का अव- लम्बन कर शूर्प वाक्य को हेतु-विधित्व मानकर ही कहा है कि इसको हेतुविधि मानने पर भी शूर्प से अतिरिक्त किसी वस्तु में होम-साधनता विवक्षित नहीं होती

३१ ] प्रथमाध्याये द्वितीयपादः १७९ है, क्योंकि, पाकशाला में अग्नि प्रज्वलित है, इसलिए मेरा गृह तप्त हो गया है, यह कहने पर अग्नि की ही दाहकता सिद्ध होती है। उसी तरह प्रकृत में भी हेतु के द्वारा शूर्प की ही होम के प्रति साधनता कही गई है। 'शूर्पेण' इस पद में तृतीया विभक्ति से बोधित करणत्वसामान्य के द्वारा दर्वी, स्थाली आदि की उपस्थिति करने पर अन्य किसी वस्तु की होम साधन की कल्पना का प्रसङ्ग ही नहीं उठता है। क्योंकि किञ्चिन्निरूपिता हेतुता प्रायः सभी वस्तुओं में है। अनुमान के द्वारा दर्वी आदि की उपस्थिति करने पर भी "शूर्पेण' इस पद के द्वारा प्रत्यक्ष तृतीया श्रुति से बोधित शूर्प अपेक्षाकृत दुर्बल होने से उसके साथ शूर्प का विकल्प नहीं हो सकता है। अतः "तेन हि अन्नं क्रियते" इत्यादि हेतु के समान प्रतीयमान वाक्य हेतुविधि नहीं है वरन् अर्थवाद मात्र ही है। 'यदि' = यदि, 'च' = और, "हेतुः" = हेतुविधि के रूप में "निर्देशात्" = तथापि शूर्प का विशेषरूप में उल्लेख होने से, 'अवतिष्ठते' = शूर्प की ही हेतुता अवस्थित है। सामान्यात् इति चेत् = यदि कहा जाय, 'इति चेत्' = कहा जाय, [तृतीया विभक्ति होने से करणत्वसामान्य हेतु दर्वी स्थाली आदि ही ग्रहणीय होगा] 'अव्यवस्था' = अनियम, "विधीनां" विधियों की, 'स्यात्' = होगी। और यदि यह हेतुविधि ही रहती है, तथापि पूर्व की ही हेतुता व्यवस्थित है, क्योंकि उसी का निर्देश अर्थात् विशेष रूप से उल्लेख है। यदि 'शूर्पेण' इस तृतीया विभक्ति के द्वारा करण सामान्य विवक्षित होने से दर्वी, स्थाली आदि का भी हेतुत्व ग्रहण के योग्य है, यह मानने पर विधि की व्यवस्था नहीं होगी ॥ ३० ॥ अथ चतुर्थं मन्त्राधिकरणम् (४) तदर्थशास्त्रात् । शा० भा० — अथेदानों कि विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः । किम्, अर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति । यद्युच्चारण- मात्रेण, तदा न नियोगता बर्हिर्देवसदनं दामि (मै० सं० १।१।२) इत्येष बर्हिर्लवने विनियुज्येत । अभिधानेन चेत्, प्रकरणेन निर्ज्ञाताङ्गभावो नान्यत्रोपकर्तुं शक्नो तीत्यन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति । तदेवमवगच्छामः । उच्चारणामात्रेणैवोपकुर्वन्तीति । कुतः ? तदर्थशास्त्रात् । यदभिधानसमर्थो मन्त्रः तत्रैवैनं शास्त्रं निबध्नाति । उरुप्रथा उरु प्रथस्वेति (वा० सं० १।२२, तै० सं० १।१।८।१) पुरोडाशं प्रथयतीति (तै० ब्रा० ३।२।४) वचनमिदमनर्थकं यद्यर्थाभिधानेनोपकुर्वन्ति । अथोच्चारणमात्रेण, ततो वक्तव्यो

१८० मीमांसादर्शनम् [ सू० विनियोगः, उक्तश्च । अतो नार्थाभिधानेन । यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते । नन्वर्थवादार्थं भविष्यतीति चेत्, न हि । येन विधीयते तस्य वाक्यशेषोऽर्थ- वाद इत्युक्तम् । न च निरपेक्षेण विहितेऽर्थवादेन किंचिदपि प्रयोजनं क्रियते । अतो नार्थवादार्थं वचनम् । तथाऽभ्यादानसमर्था मन्त्रा उदाहरणम् । लिङ्गादेवाऽऽदाने प्राप्ता वचनेन विधीयन्ते । तां चतुर्भिरादत्ते (तै० सं० ५।१।१) इति । चतुःसंख्यार्थमिति चेन्न । समुच्चयशब्दाभावात् । तथा, इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्ते (श० ब्रा० १३।१।२। २१) इत्युदाहरणम् । रशनादाने (तै०सं० ५।१।२) प्राप्तस्य रशनादान एव शास्त्रं विनियोजकम् । तद्विवक्षितार्थत्वे न घटेतेति । ननु गर्दभरशनां परिसंख्यास्यति । न शक्नोति परिसंख्यातुम् । परिसंख्याह्यो हि स्वार्थं जह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत । तस्मान्न विवक्षितवचना मन्त्राः । अतो न प्रमाणं बर्हिर्देवसदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य । वाक्यनियमात् । नियतपदक्रमा हि मन्त्रा भवन्ति । अग्निमूर्धा दिवः (तै० सं० १।२।५।१) इति, न विपर्ययेण । यद्यर्थप्रत्यायनार्था विपर्ययेणाप्यर्थः प्रतीयत इति नियमोऽनर्थकः स्यात् । अथोच्चारणविशेषार्था विपर्ययेऽन्यदुच्चारणमिति नियम आश्रीयते । तेनान्यतरस्मिन् पक्षे नियमोऽर्थवान् स नूनं पक्ष इति । नन्वर्थवत्स्वपि नियमो दृश्यते । यथा--इन्द्राग्नी इति । युक्तं तत्र तत् । विपर्ययेऽर्थप्रत्ययाभावात् । बुद्धशास्त्रात् । बुद्धे खल्वपि पाठदार्थे तदभिधानसमर्थो मन्त्रो भवति । अग्नीदग्नीन् विहर इति । स बुद्धे किं बोधयेत् । अथ तूच्चारणविशेषार्थाः, बुद्धेऽप्यु- च्चारणविशेषोऽवकल्प्यतेति । ननु पुनर्वचनात्संस्कारविशेषो भविष्यति । एव- मस्मत्पक्षमेवाऽऽश्रितोऽसि । वचनमुच्चारणम् । तद्धि शक्यते कर्तुं नार्थप्रत्या- यनम् । तत्प्रतीतेऽशक्यम् । यथा सोपानत्के पादे द्वितीयामुपानहमशक्यत्वा- न्नोपादत्ते ॥ अविद्यमानवदनात् । यज्ञे साधनभूतः प्रकाशयितव्यः । न च तादृशोऽस्ति यादृशमभिदधति । यथा चत्वारि शृङ्गाः (तै० आ० १०।१०।१७) इति । न हि चतुः शृङ्गं

३१ ] प्रथमाध्याये द्वितीयपादः १८१ त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद् यज्ञसाधनमस्ति । तदत्राभिधानार्थः किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि हिंसायां किमभिदध्यात् ॥ अचेतनेऽर्थबन्धनात् । अचेतनेऽर्थे खल्वर्थं निबध्नन्ति, ओषधे त्रायस्वनैनमिति । अभिधानेनोपकुर्वन्त एवंजातीयका ओषधि पशुप्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः । शृणोत ग्रावाणः (तै० सं १।३।१३) इति चोदाहरणम् ॥ अर्थविप्रतिषेधात् । अर्थविप्रतिषेधोऽपि भवति । अदितियोंरदितिरन्तरिक्षमिति (तै०आ० १।१३) सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधाने- नोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः । एको रुद्रो न द्वितीयोऽवतस्थे, असंख्याताः सहस्राणि, ये रुद्रा अधि भूमियमिति (वा० सं० १६।५४) चोदाहरणम् । स्वाध्यायवद्वचनात् । स्वाध्यायकाले पूर्णिकाऽवहन्ति करोति । माणवकोऽवहन्तिमन्त्रमधीते । नासौ तेन मन्त्रेण तदभिधानमभ्यस्यति अक्षरानुपूय्र्या अवधारण एव यतते । येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः ॥ अविज्ञेयात् । अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक् सात इन्द्र ऋष्टिरस्मे (ऋ० सं० २।८) इति । सृण्येव जर्भरी तुर्फरीतू (ऋ० सं० ८।६।२) इति । इन्द्रः ऽसोमस्य काणुका इति च । एते किं प्रत्याययेयुः । उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति ॥ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १.२.३१ ॥ शा० भा०-अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते कृण्वन्ति कीकटेषु गावः (ऋ० सं० ३।५३।२१) इति । कीकटा नाम जनपदा । नैचाशाखं नाम नगरम् । प्रमगन्दो राजेति । यद्यभिधानार्थाः, प्राक् प्रमगन्दान्नायं मन्त्रोऽभूतपूर्वं इति गम्यते । तदेतैस्तदर्थंशास्त्रादिभिः कारणैर्मन्त्राणामविवक्षित- वचनता ॥ ३१ ॥ इति पूर्वपक्षः ।

१८२ मीमांसादर्शनम् [ सू० भा० वि०-सङ्गतिं वदन् विषयसंशयौ दर्शयति-अथेत्यादिना । इति शब्दादूर्ध्वं विचार्यत इत्यध्याहारः अत्र धर्मप्रमाणभूतविध्येकवाक्यतथार्थवाद- प्रामाण्येऽभिहिते सति, विवक्षितार्थत्वेन मन्त्राणां तदन्तर्भावादप्रामाण्यमित्यर्थ- वादहेतुप्रत्युदाहरणेन पूर्वपक्षवादिना प्रत्यवस्थानादस्यार्थवादविचारसङ्गतिरथ- शब्देनोक्ता कोऽर्थवादः ? को वा न ? इति कोष्ठशोधनिकात्मकस्याधिकरणद्वय- स्यार्थवादाधिरणशेषत्वादव्यवधायकत्वमिदानीमित्यनेन दर्शितम्, प्रकरणान्त- रत्वाच्चास्य समनन्तरसङ्गत्यभावो न दोषाय । विवक्षितमनन्यपरं वचनमर्था- भिधानं येषां ते, तथा अत्र चार्थवतामपि वाक्यानामुभयथा प्रयोगदर्शनात् संशयः निवक्षितवचनत्वमपि मन्त्राणां न विधित्वेन स्तुतित्वेन वा, किन्तु विहितार्थ- प्रकाशतया अनुष्ठानाङ्गत्वेनेति दर्शयन् संशयं विवृणोति-किमर्थेति । विना- नुष्ठेयार्थस्मृ्येति मात्रचोऽर्थः, पूर्वोत्तरपक्षप्रयोजनमाह-यद्युच्चारणेति । पूर्वपक्षे सामान्यविनियोगस्य प्रकरणसिद्धत्वेऽपि, यस्य बर्हिर्देवसदनं दामीत्यादेर्विशेष- विनियोगश्रुत्यभावः तस्य नियोगतो बर्हिर्लवणादौ प्रयोगे प्रमाणमिति कर्म- विशेषानादरेण यत्र क्वचन प्रयोगप्रसङ्गः, सिद्धान्ते तु सिद्धे सामान्यविनियोगे सामर्थ्यादेव विशेषविनियोगसिद्धेः, आन्तरेणापि वचनं कर्मविशेषादरः फलमित्यर्थः, तत्र एवं विचारे सतीत्यर्थः, एतदिति मन्त्रोपकारकत्वम्, एवमित्युक्तमुपकारकत्व- प्रकारमाह-उच्चारणेति । यद्यपि कर्मकालप्रयोज्यानामपि मन्त्राणामर्थाभिधाना- र्थता प्रतीयते तथापि ध्यानादिनापि अनुष्ठासिताथैस्मृतिसिद्धेरभिधानार्थत्वेऽपि अदृष्टकल्पनासाम्यादुच्चारणाभिधानार्थत्वसन्देहे उच्चारर्णविनार्थ प्रत्ययासिद्धेः प्राथम्यावश्यकत्वाभ्यामुच्चारणार्थतैव न्याय्येवि भावः । एवं न्यायबलेन मन्त्र- मात्रस्यादृष्टार्थतामुक्त्वा, तद्विशेषेषु लिङ्गबलेनापि तद्वक्तुं पृच्छति-कुत इति । सूत्रेणोत्तरमाह-तदर्थेति । यस्मिन्नर्थे मन्त्रस्याभिधानसामर्थ्यम्, तस्मिन्नेव विनि- योजकशास्त्रदर्शनात् न सामर्थ्यं विनियोजकमिति व्याचष्टे-यदीति । यद्यपि परिहारसूत्रक्रमानुरोधेनास्मिन् सूत्रे अभ्यादानशास्त्रमारभ्योदाहर्तव्यम्, तथापि कथञ्चिदुदाहृतैरपि प्रकृतमन्त्रानर्थक्यसिद्धेः व्यत्यासेनोपन्यास इत्यवगन्तव्यम् । ननु सामर्थ्यस्यापि दर्शनात् कथं शास्त्रस्यैव विनियोजकत्वमत आह-- वचनमिति । इदमिति वचनस्य प्रत्यक्षत्वाभिधानेनार्थाभिधानेनोपकारस्य प्रति- पन्नत्वेनानादेयत्वं सूचयति, उच्चारगोपकारत्वपक्षे तु विनियोजकान्तराभावात् शास्त्रमर्थवदित्याह-अथेति । न च विनियोगे विगानमिति वदन्निदमित्युक्तं विवृणोति-उक्तञ्चेति । नार्थाभिधानेनोपकुर्वन्तीत्यनुषङ्गः, मन्त्ररूपालोचनाया- मपि परेण विनियोगं दृष्ट्वा तदभावं प्रत्येष्यत इत्यत्र दृष्टान्तमाह--तद्यथेति । साक्षत्वं च प्रतिभासतो न वस्तुतः । लिङ्गप्रकरणानुमितमन्त्रविधिरतुत्यर्थत्वेना-

३१ ] प्रथमाध्याये द्वितीयपादः १८३ प्यर्थवत्त्वान्नार्थकमिति चोदयति-नन्विति । परिहरति-नहोति । तत्र हेतुर्यथेति येनेति विधिना एकवाक्यत्वमर्थवत्त्वे कारणमुक्तमर्थवादाधिकरण इत्यर्थः, ततः किमत आह-नचेति । मन्त्रलिङ्गेन प्रकरणेन वा कल्पितस्य विनियोगविधेः स्वात्मसमीपे अर्थवादमपश्यतः स्वयमेव प्ररोचनाशक्त्याविर्भावेन निवृत्तापेक्षत्वात् न दूरस्थया स्तुत्या प्रयोजनमित्यर्थः, फलितमाह-अथ इति । इह तु शास्त्रस्यार्थवादत्वाभावेऽपि गुणविधित्वमस्त्विति शङ्कां, निराकर्तु- मस्यैव सूत्रस्योदाहरणान्तरमाह-तथेति । अभ्यादानसमर्थाः=अभ्यादाना- भिधानसमर्था इत्यर्थः । तत्र सूत्रं योजयति-लिङ्गादिति । "देवस्य त्वा सवितुः- प्रसवेऽश्विनोर्बाहुभ्याम्, पूष्णो हस्ताभ्याम्, गायत्रेणच्छन्दसा ददेऽङ्गिरस्वत् अग्निरसि नारिरसि पृथिव्यास्सदस्त्यादग्निं पुरीष्यं अङ्गिरस्वदा भर त्रैष्टुभेन त्वाच्छन्दसामुददेऽङ्गिरस्वत् बभ्रिरसि नारिरसि त्वया वयं सदस्थ अग्निं शकेम खनितुं पुरीष्यं जागतेन त्वाच्छन्दसा ददेऽङ्गिरस्वत्" इत्येतेषां चतुर्णामपि मन्त्राणामादद इत्यभिधानसामर्थ्यादादाने प्राप्तत्वेऽपि चतुर्भिरित्यादिवचनेनादान एव ते विधीयन्ते तच्चानर्थकमित्यर्थः । चतुःसङ्ख्यालक्षणगुणविधानार्थं पुनर्व- चनमर्थवदिति चोदयति-चतुस्सङ्ख्येति । सङ्ख्याया अवच्छेदकत्वदर्शना- न्मन्त्राश्रयायाश्च सङ्ख्याया क्रियावच्छेदकत्वासम्भवात् मन्त्रावच्छेदकत्वस्य च विधानमन्तरेणापि सिद्धेरनर्थकं तदभिधानमिति, परिहरति-अन्तरेणेति । लिङ्गाद्विकल्पप्राप्तौ समुच्चयार्थं वचनमिति, शङ्कते-समुच्चयेति । च शब्दादेः तद्वाचकस्याभावान्मैवमित्याह-नेति । चशब्दाद्यभावमन्त्रसङ्ख्ययोः परस्पर- नियमादरुणैकहायनोवत् क्रियाऽङ्गत्वेन समुच्चयः स्यादित्यपि न वाच्यं लिङ्ग- प्राप्ततया मन्त्राणामविधेयत्वेन सङ्ख्याविशिष्टमन्त्रविधेरसम्भवात् अरुणैकहायनी, न चैवं पूर्वपक्षेऽपि विकल्पप्रसङ्गे मन्त्रेष्विति वाच्यम्, चतुर्भ्योऽदृष्टनिष्पत्तेर्वचन- गम्यत्वेन समुच्चयस्यैव युक्तत्वादिति भावः, अत्र तर्हि विधित्वाभावेऽपि भवेत् परिसङ्ख्यानादर्थवत्त्वमिति शङ्कां निरसितुमुदाहरति-तथेति । कथमिदमस्यो- दाहरणमित्याशङ्क्य सूत्रं योजयति-रशनेति । विवक्षितार्थत्वे हि रूपादेव रशनादाने प्राप्तस्य मन्त्रस्य तत्रैव विनियोजकं शास्त्रं स्यात्, यच्च घटत इति योजना । अस्तु तर्हि परिसंख्याविधित्वमित्याह-नन्विति । गर्दभरशनां वर्ज- नीयतया बोधयति शास्त्रमित्यर्थः, ततश्च नापूर्वविधित्वमित्याशयः । सिद्धान्त्याह-न शक्नोतीति । तत्र हेतुः परिसञ्चक्षाणो हीति-विधिरित्यर्थः । अयमाशयः इह कदाचिदश्वाभिधानीमादत्त इति वचनव्यक्तिमाश्रित्यादाने गर्दभ- रशनायाः परिसङ्ख्या स्यात्, कदाचिदित्यश्वाभिधानीमितिवचनव्यक्त्या मन्त्रे स्यात्, उभयथापि दोषत्रयापत्तिः, तथा हि विधिपरत्वेन प्रतीयमानस्य तथात्वा- नभ्युपगमरूपस्वार्थहानिरेकः, परस्य गर्दभरशनां नेत्यस्य वाक्यस्यार्थ एवार्थो

यस्य स परार्थं रशनादानमन्तरेण बन्धुमशक्यतयार्थात्प्राप्तस्य गर्दभरशनादानस्य मन्त्रलिङ्गादवगतस्य मन्त्रगर्दभाभिधानीसम्बन्धस्य च बाधः प्रसज्येतेत्यन्य इति दोषत्रयापत्तेः न परिसङ्ख्या युक्तेति । ननु परिसङ्ख्यानङ्गीकारे वाक्यस्य का गतिरित्याशङ्क्यादृष्टार्थत्वे मन्त्राणां विनियोगापेक्षत्वादपूर्वविधित्वमेवेत्यभिसन्धाय सूत्रार्थं निगमयति—तस्मान्नेति । अविवक्षितार्थत्वेऽपि किमित्याशङ्क्य पूर्वोक्तं पूर्वपक्षप्रयोजनं स्मारयन्नाह— अत इति । विनियोजकशास्त्रवैयर्थ्यप्रसङ्गान्न मन्त्रसामर्थ्यं मन्त्रविनियोगे प्रमाणमित्यर्थः । न चैवं विनियोजकशास्त्रहीनानां बर्हिर्देवैत्यादीनां कर्मविशेषनियत: प्रयोगो न स्यादिति वेदितव्यम् प्रयोगपरिग्रहेण प्रधानसम्बन्धिनामेव सतामङ्गाविशेषा- सम्बन्धिनामपि पाठक्रमानतिक्रमेण यत्र क्वचिदपि प्रयोगसम्भवेऽनिष्टापादनत्वा- दित्यभिहितम् । मन्त्राणामविवक्षितवचनत्वे लिङ्गान्तरमाह—वाक्यनियमादिति । सिद्धान्ता- सम्भवहेतुपरतया सूत्रं व्याचष्टे—न विपर्ययेणेति । नानियतपदक्रमादित्यर्थः, ततः किमत आह—यदीति । अग्निमूर्धेति योऽर्थः प्रतीयते नमूर्धाग्नि- रित्यनेनापि प्रतीयत एवेत्यनर्थको नियम इत्यर्थः, सम्प्रति पूर्वपक्षसाधकहेतुपर- तया सूत्रं व्याचष्टे—अथेति । नियतपदक्रम एवोच्चारणविशेषोऽदृष्टाय भवतीति तदर्थश्चेदयं नियम इत्यर्थः, तदा विपर्यये क्रमान्यत्ववदुच्चारणस्यान्यत्वात्तदु- च्चारणजस्यादृष्टतदभावे प्रमाणभावाच्चियमोऽर्थवानित्याह—विपर्यय इति । नन्वस्मत्पक्षेऽपि नियतपदक्रमैरेव वाक्यैरर्थप्रत्यायनाददृष्टं कल्प्यते तेनार्थ- वानेव नियम इत्याशङ्क्य तर्ह्यर्थप्रत्यायनस्य उच्चारणाधीनत्वात् प्राथम्यावश्य- कत्वाभ्यां उच्चारणार्थं एवायं नियमो युक्त इत्याह—अन्यतरस्मिन्निति । उच्चारणाभिधानपक्षयोरनयोर्मध्ये यस्मिन्पक्षे क्रमनियमः प्रयोजनातिशयवान् स एवोपादेयः पक्ष इत्यर्थः । नन्वर्थवतामपि वाक्यानां क्वचित्क्रमनियम आश्रीयते तस्मान्न तेनार्थविवक्षा साधयितुं शक्येति चोदयति—नन्विति । वैषम्येणोत्तरमाह—युक्तमिति । तत्र नियमाश्रयणमित्यर्थः, तत्र हेतुर्विपर्यय इति, नचाग्नीन्द्राविति प्रयोगेऽप्यर्थप्रत्यय- दर्शनादसिद्धो हेतुरिति शङ्कनीयम् यथेन्द्राग्नी इत्यनेनोपलक्षितोदाहरणान्तर- विषयत्वादस्य, तथा हि—इन्द्राग्नी निष्कौशाम्बिरित्यादीन्युदाहरणानि अत्राभि- संहिनानि, अर्थप्रत्ययाभावादित्यत्रापि शब्दासाधुत्वमर्थप्रत्ययाभावरूपं चानर्थक्य- मित्यादयो दोषा विवक्षिताः, तत्रेन्द्राग्नी इत्यस्य विपर्यये शब्दासाधुत्वमजाद्यजन्त- मिति इन्द्रशब्दस्य पूर्वनिपातस्मरणात् निष्कौशाम्बिरित्येतद्विपरीतस्य कौशाम्बि- निरित्यस्य निरादयः क्रान्ताद्यर्थे पञ्चम्येति प्रथमानिर्दिष्टत्वेन निश्शब्दस्योप-

३१ ] प्रथमाध्याये द्वितीय पादः १८५ सर्जन्ततया पूर्वनिपातस्मरणात् आनर्थक्यमित्यादयो दोषा यथायोगं योजनीयाः, तेनैतद्दोषभयादस्तु तत्र क्रमनियमः मन्त्राणां तु क्रमनियमाभावेऽपि अर्थवत्त्वादि- सम्भवादनर्थकः त्वत्पक्षे क्रमनियम इति भावः । मन्त्राणामविवक्षितार्थहेत्वन्तरमाह--बुद्धेति । सूत्रं व्याचष्टे - बुद्धे खल्व- पीति । पाठादिति । विचारपर्यन्तादित्यर्थः, एवेत्यध्वर्युप्रैषं व्यावर्तयति, विदुषा एवार्त्विज्याधिकारादग्नीध्राप्यात्मीयाः पदार्थाः प्रागेवानुष्ठानादवगन्तव्या इति भावः, भवतु बुद्धेऽर्थे प्रैषात्मकशास्त्रप्रवृत्तिः, तथापि किमित्याशङ्क्य पिष्टपेषण- न्यायेनाबुद्धबोधकत्वासम्भवात् आनर्थक्यप्रसङ्ग इत्यत आह-बुद्ध इति । यदि त्वदृष्टफलकोच्चारणार्थो मन्त्रस्तदा न कश्चिद्दोष इत्याह-अथेति । बुद्धेऽस्तिपुन- र्वचनप्रयोजनमिति शङ्कते- नन्विति । पूर्वपदार्थानुष्ठानसमाप्तावुत्तरपदार्थस्मर- णस्य स्मर्यमाणब्राह्मणसामर्थ्यादेव सिद्धे स्मृतिहेतुसंस्कारविशेषानपेक्षत्वेन मन्त्रो- च्चारणवैयर्थ्यात् पुनर्वचनाज्जायमानसंस्कारोऽपूर्वरूप आश्रयणीय यथा च पूर्वपक्षापत्तिरिति, परिहरति--एवमिति । नन्वदृष्टरूपोऽपि संस्कारोऽर्थप्रत्यायनात् भविष्यति, ततश्च मन्त्रस्य दृष्टार्थ- त्वात् पूर्वपक्षानापत्तिरत आह-वचनमिति । प्रत्यायनम् अबुद्धबोधनमित्यर्थः निष्पादितक्रिये कर्मणि विशेषानाधायकत्वेन साधनानुपादाने दृष्टान्तमाह-- यथेति । मन्त्रानर्थक्ये हेत्वन्तरमाह - अविद्यमानेति । ननु जगतो विचित्रत्वेनैवंविधस्यापि सम्भवात् कथमविद्यमानवचनतेत्याशङ्क्य व्याचष्टे - यज्ञ इति । अस्ति यज्ञसाधनभूत इत्यनुषङ्गः कर्म तत्सम्बन्धि वा मन्त्रैः प्रकाशयितव्यम्, न चायं मन्त्रप्रतिपाद्योऽर्थस्तथेत्यर्थः, कथमतथात्वमित्या- शङ्क्य मन्त्रोदाहरणपूर्वकमाह - यथेति । "त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश" इति मन्त्रशेषः, ननु यद्यपि सोऽर्थः कर्मसाधनभूतो नास्ति तथापि किं तत्राह तत्रेति । अदृष्टार्थत्वे तु नानर्थक्यमित्याह-उच्चारणार्थ इति । मा मा हिंसीः, मा मा संताप्तम् इत्यत्र चाचेतनेऽप्राप्तयोरपि हिंसासन्तापयोः निषेधानर्थक्याददृष्टार्थतैव युक्तेति, केचिदिति बहुवचननिर्वाहायोदाहरति- तथेति । इतश्चाविवक्षितार्था मन्त्रा इत्याह - अचेतन इति । सूत्रं व्याचष्टे - अचेतने खल्विति । कोऽसावर्थः कथं वा तमचेतने बध्नाति मन्त्रोऽत आह-अभिधानेति । ओषधि प्रतिपादयेयुरित्यनेन सम्बोधनं प्रैषणं चार्थशब्देनाभिसंहितमोषधि- विषयत्वं चार्थस्य बन्धनशब्दार्थ इति दर्शितं बन्धकत्वमुपपादयितुमभिधानेनोप- कुर्वन्त इत्युक्तम् ।