भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 295, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 295

॥ अथ प्रथमाध्यायस्य तृतीयः पादः ॥ प्रथमं स्मृत्यधिकरणम् । [ १] धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १.३.१ ॥ पू० शाबरभाष्यम् शा० भा०—एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्त्येवमयमर्थोऽनुष्ठातव्य एतस्मै च प्रयो- जनायेति । किमसाौ तथैव स्यात्, न वेति । यथा अष्टकाः कर्तव्या; गुरुर- नुगन्तव्यः, तडागं खनितव्यम्, प्रपा प्रवर्तयितव्या, शिखाकर्म कर्तव्यमित्येवमा- दयः । तदुच्यते । धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । शब्दलक्षणो धर्म इत्युक्तम् चोदनालक्षणोऽर्थो धर्म इति । अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुरित्थमसौ पदार्थः कर्तव्य इति कथमिव ते वदिष्यन्त्यकर्तव्य एवायमिति । स्मरणानुपपत्त्या । ह्यननुभूतोऽश्रुतो वाऽर्थः स्मर्यते, न चास्या- वैदिकस्यालौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति । या हि बन्ध्या स्मरेदिदं मे दौहित्रकृतमिति, न मे दुहिताऽस्तीति मत्वा न जातुचि- दसौ प्रतीयात्सम्यगेतज्ज्ञानमिति । एवमपि ययैव पारम्पर्येणाविच्छेदादयं वेद इति प्रमाणमेषां स्मृतिरेवमिय- मपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षेणोपलब्धत्वाद् ग्रन्थस्य नानुपपन्नं पूर्वविज्ञानम् । अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद्व्यामोहस्मृतिरेव गम्यते । तद्यथा कश्चिज्जात्यन्धो वदेत्स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते पूर्वविज्ञानमिति च पर्यनुयुक्तो जात्यन्धमेवापरं विनिर्दिशेत् । तस्य कुतः ? जात्यन्धान्तरात् एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित्संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति । अतो नाऽऽदर्तव्यमेवंजातीयकमनपेक्षं स्यादिति पूर्वपक्षः ॥ १ ॥ भाष्यविवरणम् भा० वि०—सङ्गतिं वक्तुं वृत्तवर्त्तिष्यमाणार्थं वक्ति—एवमित्यादि । सक- लस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य प्रामाण्यम्—धर्मप्रमितिहेतुत्वम्, तत्रापि कृत्स्नप्रामाण्यं चोदनोपयोगश्च प्रथमेन पादेन, द्वितीयेन मन्त्रार्थवादयोश्चोपयोग-

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 295, कुल 804 में से · BharatKosha