मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 488, कुल 804 में से
संदर्भ में पढ़ें४१४ मीमांसादर्शनम् [ सू० द्वित्रेष्वहःसु बाध्येत प्रयोगानम्लेच्छचोदितात् । म्लेच्छाचाराप्रमाणत्वमथ त्वध्यवसीयते ॥ ४७५ आर्यावर्ते ततः शक्या प्रसिद्धयन्वेषणक्रिया । तस्याश्चाल्पेन कालेन सदसद्भावनिर्णयः ॥ ४७६ ततश्च निगमादीनां सुज्ञातः स्वार्थगोचरः । तस्मात्तदर्थवत्त्वाय म्लेच्छाचाराप्रमाणता ॥ ४७७ धर्मे चानादरात्तेषां भ्रश्येताऽर्थोऽपि शब्दवत् । न चास्ति संस्कृतः शब्दः कश्चिन्म्लेच्छापभाषणे ॥ ४७८ संस्कृतप्रतिरूपा हि तद्भाषाऽर्थान्तरे स्थिता । न चावाचकरूपाणां वाचकत्वं कथंचन ॥ ४७९ आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् । पदान्तराक्षरोपेतं कल्पयन्ति कदाचन ॥ ४८० न्यूनाक्षरं कदाचिच्च प्रक्षिपन्त्यधिकाक्षरम् । तद्यथा १द्राविडादिभाषायामेव तावद्व्यञ्जनान्तभाषापदेषु स्वरान्तविभक्ति- स्त्रीप्रत्ययादिकल्पनाभिः स्वभाषानुरूपानर्थान्प्रतिपद्यमाना दृश्यन्ते । तद्यथोदनं चोरित्युक्ते चोरपदवाच्यं कल्पयन्ति । पन्थानमतरित्युक्तेऽतर इति कल्पयि- त्वाऽऽहुः । सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पाप् शब्दं पकारान्तं सर्पवचनमकारान्तं कल्पयित्वा सत्यं पाप एवासाविति वदन्ति । एवं मालो शब्दं स्त्रीवचनं माला इति कल्पयित्वा सत्यमित्याहुः । वैरशब्दं च रेफान्तमुदरवचनं वैरिशब्देन प्रत्याम्नायं वदन्ति । सत्यं सर्वस्य क्षुधितस्याकार्ये प्रवर्त्तनादुदरं वैरिकार्ये प्रवर्त्तते इति । तद्यदा द्राविडादिभाषायामीदृशी स्वच्छन्दकल्पना, तदा पारसीकबर्बरयवनरोमकादिभाषासु किं विकल्प्य, किं प्रतिपत्स्यन्त इति न विद्मः । तस्मान्म्लेच्छप्रसिद्धं यत्पदमार्यैर्विकल्प्यते । न कश्चित्तत्र विश्वासो युक्तः पदपदार्थयोः ॥ ४८१ निरुक्तव्याक्रियाद्वारा यस्त्वर्थः परिगम्यते । पिकनेमादिशब्दानां स एवार्थो भविष्यति ॥ ४८२ १. चोर्-अतर्-पाप्-माल्-वयर-इत्येतेषां शब्दानां क्रमेण ओदन-मार्ग-सर्पं-सत्य- उदररूपेष्वर्थेषु द्राविडानामद्यत्वेऽपि प्रयोगो वर्तते ।