मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 489, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपादः ४३५ सिद्धान्तः एवं प्राप्ते वदामोऽत्र पदं निपुणदृष्टिभिः । विज्ञायेताऽविनष्टं यत्तत्तदर्थं भविष्यति ॥ ४८३ देशभाषापभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् । यत्तु वेदतदङ्गेषु पदं दृष्टमविप्लुतम् । म्लेच्छभाषासु तद्रूपमर्थे क्वचन चोदितम् ॥ ४८४ तत्तथैव प्रतीयेत प्रमाणेनाविरोधतः । पिकनेमादि तद्ध्येवं निपुणैरवधारितम् ॥ ४८५ चोदितं ह्यपदिष्टं वा प्रयुक्तं वा क्रियागतम् । म्लेच्छैरवधृतं पश्चादार्यैर्द्वैभाषिकैः क्वचित् ॥ ४८६ तादृशं तु प्रदीयेत प्रामाण्येनेति निश्चितम् । न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥ ४८७ अपि च—पदार्थपदसम्बन्धज्ञानापेक्षप्रवर्तनात् । प्रसिद्धिर्यत्र तत्रस्था वाक्यार्थयाऽनुगम्यते ॥ ४८८ पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् । अविरोधात्प्रमाणेने तद्विद्याद्वेदनोदितम् ॥ ४८९ चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः । आर्यैः सहाऽविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥ ४९० यथैव क्लोमादयः पश्ववयवा वेदे चोदिताः सन्तोऽध्वर्य्यादिभिः स्वयमज्ञाय- मानार्थत्वाद्ये नित्यं प्राणिवधाभियुक्ताः, तेभ्य एवावधार्य विनियुज्यन्ते । यथा च निषादेष्ट्यां 'कूटं दक्षिणेति' विहिते य एवैतेन व्यवहरन्ति, तेभ्य एवाऽर्थतत्त्वं ज्ञात्वा दीयते । तथेह पिक-नेम-तामरसादिचोदितं सद्भेदादार्यावर्तनिवासिभ्यश्चा- प्रतीयमानं म्लेच्छेभ्योऽपि प्रतीयेत, लोकावगम्यनित्यशब्दार्थम्युपगमाविरोधात् स्वेनैव प्रमाणेन प्रतीयेतेति । यत्तु शास्त्रबलीयस्त्वादेतदग्रहणमिति ? तन्न । अविरोधे दुर्बलस्यापि ग्राह्य- त्वात् । यदेवात्यन्तं प्रमाणाभासमेव मृगतृष्णाज्ञानवद्भवति, तत् सर्वदैव परि- हर्तव्यम्, यत्पुनर्बलवद्विरोधापेक्षप्रमाणं(न) भवति, तद्विरोधाभावात्प्रमाणमेवे- त्यवधारणीयम् । न चैवमादि विरुध्यते, विपरीतार्यप्रसिद्ध्यन्तराभावात् । अत एव वैदिकवाक्यार्थस्वविषयप्रयुक्तपदार्थमात्राभियुक्ततरायंप्रसिद्धिबलीयस्त्वा- श्रयणम् ।