मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 490, कुल 804 में से
संदर्भ में पढ़ें४३६ मीमांसादर्शनम् [ सू० प्रसिद्धौ विद्यमानायां तद्वलीयस्त्वमिष्यते । असत्यां तु बलीयस्त्वं बन्ध्यासुतबलोपमम् ॥ ४९१ अष्टकादिषु ह्यदृष्टार्थेषु समूलकेषु स्मर्यमाणेषु गवादिपदस्वरूपतदर्थज्ञानेषु च सत्यमार्याणामाप्ततरत्वाभियुक्ततरत्वे विद्येते । पिकादिषु त्वार्यबलेनैवावगतस्व- रूपमात्रवाचकत्वेषु वाच्यविशेषज्ञानरहितत्वेनाऽऽर्येषु निर्व्यापारीभूतेषु पदवद् दृष्टार्थप्रतिपत्त्यर्थानादिशब्दप्रयोगलब्धसम्बन्धप्रसिद्धिम्लेच्छप्रयोगेभ्योऽर्थनिर्णये सति न किंचिद्विरुद्धमाकाङ्क्षितपदार्थज्ञानं च सेत्स्यति । निगमनिरुक्तव्याकरणैरपि न चैवमादीनामर्थान्तरं किंचिदुदाहृतम्, यत्प्राप्य कृतार्थाः सन्त इतरेषां प्रसिद्धिं परित्यजेम । काल्पनिकाः प्रसिद्धेश्च या क्लृप्ता सा बलीयसी । तस्यां सत्यं हि नाऽऽत्मानमितरा लब्धुमर्हति ॥ ४९२ आश्रयाणां च दौर्बल्यं धर्मं प्रति निरूपितम् । दृष्टार्थव्यवहारेषु कृष्यादाविव तुल्यताम् ॥ ४९३ तस्माद्यथैव सेवादौ गृहादिषु च कौशलम् । म्लेच्छानामधिकं तद्वदभिधेयार्थनिर्णये ॥ ४९४ शब्दस्वरूपं तावत्तेनाभियुक्तत्वाच्चिरविनष्टाविनष्टत्वेन न विविञ्चीरन् । यस्तु कथमप्यविनष्ट एव शब्दः तेषामपि प्रयोगविषयमापन्नस्तस्य चाऽऽर्यवदेवानादि- वृद्धव्यवहारपरम्परयाऽर्थं जानन्ति, तत्किं तेषां निराकर्तुं शक्यते । 'पत्रोर्णवारबाणादि'२ यच्च तद्देशसंभवम् । तैरेवाकथितं नाम तच्च को वेदितुं क्षमः ॥ ४९५ तस्मान्न तेषां व्यवहारप्रसिद्धौ दौर्बल्यम् । निरुक्तादेश्च सिद्धेऽर्थे तन्निमित्तादिमात्रके । व्यापारो न च पूर्वार्थप्रतिपत्तौ स्वरूपतः ॥ ४९६ निरुक्ते न तावल्लोकव्यवहारप्रसिद्धान्येव पदानि तद्गतक्रियानिमित्तशब्द- प्रयोगभाक्त्वेन निरुच्यते । व्याकरणेनापि प्रसिद्धार्थानामेवाविनष्टस्वरूपान्वाख्या- नमात्रं क्रियते । तत्र प्रासङ्गिकमेव कियदप्यर्थनिरूपणम् । तानि स्वविषयादन्यत्र दुर्बलानामपि न बाधकानि । १. पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनमित्यमरः । २. कञ्चुको वारबाणोऽस्त्रीत्यमरः ।