मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 491, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपादः ४३७ यस्य चान्विष्यमाणाऽपि प्रसिद्धिर्न भविष्यति । कामं प्रदर्शितद्वारा तत्र कल्प्याऽऽश्रयिष्यते ॥ ४९७ विविक्ता बहुरूपा च या संदेहप्रदायिनी । अनन्योपायतामात्रे क्वचिदेव ग्रहीष्यते ॥ ४९८ न चार्थप्रत्ययान्न ङ्गन्निरुक्ताद्यनर्थकम् । षडङ्गवेदविज्ञानपूर्वकर्मक्रियाफलात् ॥ ४९९. यथा महाभारतनिर्वचनान्वाख्याने द्वैपायनेनोक्तम् । महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ इति ॥ ५०० एवं निरुक्तव्याकरणाद्यङ्गानुगृहीतवेदाध्ययनजनितकर्मविबोधपूर्वकानुष्ठानाय- त्तत्वात् स्वर्गादिसिद्ध्यर्थं पूर्वसिद्धेरव्युत्पन्नरूपे च ज्ञातेऽपि निरुक्तावगतधात्वर्थ- पूर्वकनामार्थज्ञानद्वारा वाक्यार्थप्रतिपत्तिपूर्वकानुष्ठानादेवाद्दष्टसिद्धिरिति, म्लेच्छ- सिद्धपिकाद्यर्थग्रहणेऽपि निरुक्तादीनामर्थवत्ता सिद्धेति ॥ १० ॥ इति पञ्चमं पिकनेमाधिकरणम् न्या० सु०—अत्र भाष्यकृता कल्पसूत्रेषु प्रामाण्याप्रामाण्यसन्देहमुपन्यस्य प्रामाण्यं पूर्वपक्षयित्वा, सिद्धान्ते निराकृतम्, तत्स्मृत्यधिकरणव्युत्पादितसकलविद्यास्थानप्रामाण्य- विरुद्धत्वादयुक्तमाशङ्क्य पूर्वपक्षवचनव्यक्तिगतं प्रामाण्यशब्दं स्वतःप्रामाण्याभिप्रायत्वेन द्वेधा व्याचष्टे—कल्पेति । म्लेच्छाचाराणामपि केषांचिदनादित्वेन शिष्टाचारतुल्यतया स्वतःप्रामाण्येऽभिहिते, वेदातिरिक्तविद्यास्थानानामप्यध्येतृस्मरणेनाऽनादितया वेदत्वेन वेदतुल्यतया वा स्वतःप्रामाण्योपपत्तेर्न वेदमूलत्वम् । तद्विरोधिनां वा प्रामाण्यं युक्त- मित्यनन्तराधिकरणव्युत्पादितस्वतःप्रामाण्योपजीवनेन स्मृतिविरोधिकरणद्वयाक्षेपपादनन्तर- सङ्गतिम्, प्रकृतसङ्गतिं च सूचयितुं सम्प्रतीत्युक्तम् । विचार्यंत इति विचारार्थं पूर्वपक्ष- वचनव्यक्तिद्वेधोपन्यस्यत इत्यर्थः । ननु मन्वादिस्मृतिवदेषामपि पौरुषेयत्वेन पारतन्त्र्यावगमात्स्वतःप्रामाण्यशङ्का न युक्तेत्याशङ्क्याह—वैदिकेति । मन्वादिस्मृतीनां तिरोहितप्रायवेदार्थनिबन्धनादर्थवत्त्वं कल्पसूत्राणां तु स्पष्टवेदार्थविषयत्वात्प्रणयनानर्थक्यापत्तेरपौरुषेयत्वावगमात्स्वतः प्रामाण्य- शङ्का युक्तेत्याशयः । कल्पसूत्रशब्दयोरेकार्थत्वाद् द्वयोरुपादानमनर्थकमिति मन्यमानः पृच्छति—आहेति । कार्यतस्तावद्भेदमाह—सिद्धरूप इति । अवयवव्युत्पत्त्या भेदमाह— कल्पनाद्धीति । स्वरूपतो भेदमाह—कल्पा इति । प्रतिक्रतुप्रयोगाणां प्रतिपादकतया पाठत एव सिद्धा, न तु स्वसंज्ञाभिर्व्याख्यानापेक्षा इत्यर्थः । 'एतत्तीर्थ'मित्याचक्षते' इत्यादिभिः स्वसंज्ञाभिमिश्रत्वं पादग्रहणमित्यादिभिः स्वपरिभाषाभियंतसिद्धमित्यतीतसिद्धशब्दनिःकृष्टवि- परिणतानुषङ्गेन योज्यम् ।