मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 492, कुल 804 में से
संदर्भ में पढ़ें४३८ मीमांसादर्शनम् [ सू० ये यजामहे, यच्चागूर्याज्यादिरित्याद्युत्सर्गवदनुयाजवजंमित्याद्यपवादवद्वक्ष्येयुरिति गाणगारितत्संस्कारत्वादित्यादिहेतुमत्सम्प्रैषवदादेशान्पशुवत् (निपातानिति यथान्वयंः सम्प्रैषं दद्यात्तद्वद्धोता आदेशान् द्रव्यादेशान् कुर्यात् । छागपदेन प्रैषे छागपदेनादेशाः । आज्येन चाज्यपदेन भेद उद्धृतं पार्श्वतः श्रोणित इत्यादयः शब्दा पश्ववयववाचिनः निपाता इत्युच्यन्ते । तान् पशुवत्क्रियायां पशुवद् द्वयाम्नान्येत्यर्थः । यस्मिन् क्रतावग्नीषोमीयस्थाने सवनीयस्थाने वा पश्वैकादशिनी कृता, तत्र शालामुखीयै त्वाष्ट्रेण पशुना यजेत । तस्य पर्यग्निकरणान्तं कृत्वोत्सर्गः पूर्वमुक्तः । पर्यग्निकृत्वोत्सृजत्यपुनरानायेति तस्य तावत्येव समाप्तिः । आज्येन शेषं संस्थापयेदिति वा आज्येन समापने मन्त्रेषु छागशब्देन निगमाः कार्या इत्येकः पक्षः । आज्यस्य प्रतिनिधित्वेन स्थानिवद्भावात् द्रव्यान्तरत्वे त्वाज्यशब्देन निगमाः कार्याः इत्यन्यः पक्षः । तत्र प्रयोगमाह । यदि त्वध्वर्युव आज्येन समाप्नुयुस्तथैव होता कुर्यात्सम्प्रैषवदादेशा पशुवत्) निपात्यादिदृष्टान्तवत् 'पुरस्ताल्लक्षणा पुरोऽनुवाक्ये' इत्यादिलक्ष्यव्यापिलक्षणम्, तत्सूत्रमित्यर्थः । लक्ष्यव्यापिलक्षणं यस्मिन्निति सप्तमी- बहुव्रीहिः । ननु स्वसंज्ञापरिभाषादियोगे पौरुषेयत्वापत्तेः कथं स्मृतिवैलक्षण्यमित्या- शङ्कयाह—तत्रेति । सकलपुरुषप्रत्यक्षवेदप्रतिपाद्यार्थविषयग्रन्थप्रणयनवैयर्थ्यापत्तेरपौरुषेय- त्वावसायात्सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्तीत्यादिवदन्यपरसंज्ञादीनीति पूर्वपक्षी मन्यते इत्याशयः । एवं कल्पसूत्राणामपि स्मृत्यधिकरणे वेदमूलत्वं प्रतिपादितमित्यभ्युपेत्य तदाक्षेपेण प्रत्यवस्थानमुपपादितम् । इदानीमशब्दत्वेन तत्र पूर्वपक्षकरणात्कल्पसूत्रेषु च तदसम्भवादेषां स्मृत्यधिकरणविषयत्वाभावादिह विचारो न विरुद्ध इति परिहारान्तरमाह—अप्रामाण्य- मिति । अशक्यत्वमुपपादयति—प्रत्यक्षेति । तत्र स्मृत्यधिकरणपूर्वपक्षेऽपगतशब्दता शब्द- शून्यतोक्ता, सा कल्पसूत्रेष्वशक्या वक्तुमित्यर्थः । न केवलं पूर्वपक्षासम्भवादेषां स्मृत्य- धिकरणविषयत्वम्, किं तु मूलभूतवेदानुमानेन तत्र सिद्धान्तकरणात्, प्रत्यक्षवेदमूलेषु कल्पसूत्रेष्वनुमानायोगात् सिद्धान्तासम्भवेनाप्येषां स्मृत्यधिकरणविषयत्वं नास्तीत्याह— स्मृत्यधिकरणे चेति । यत्र न वैदिकं शब्दमुपलभ्यन्ते इति च सम्भवदशब्दत्वलक्षणपूर्वपक्षहेतुकानामेव तत्रोदाहृतत्वादुदाहरणभाष्यपर्यालोचनयाप्येषां स्मृत्यधिरणाविषयत्वं प्रतीयत इत्याह— एतानि चेति । इदं तु परिहारान्तरमनुपलभ्यमाने मूलस्मृतिप्रामाण्यसाधने प्रत्यक्षमूलानां कल्पसूत्राणामविचारितस्यापि प्रामाण्यस्य तुल्यन्यायसिद्धत्वादन्यथा च विरोधाधिकरणे सर्ववेष्टनस्मृत्युदाहरणानुपपत्तेः शिष्टाकोपाधिकरणे च क्रत्वर्थस्मृत्युदाहरणानुपपत्तेर्युक्त- मित्यपरितोषात्पूर्वमेव परिहारमनुसन्दधाति—न चेति । यद्यप्येषामिहाधिकरणे पूर्वपक्षे प्रामाण्यप्रतिपादनमाभाति, तथापि सिद्धान्ते स्वरानियमवाक्यशेषाभावाभिधानेन वेदवैलक्षण्य- प्रतिपादनात्स्वतःप्रामाण्यनिराकरणप्रतीतेनं प्रामाण्यं प्रतिपाद्यम्, येनेह तन्निराकरणात्स्मृत्य- धिकरणविरोधः स्यादित्यर्थः ।