मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 493, कुल 804 में से
संदर्भ में पढ़ें१० ] प्रथमाध्याये तृतीयपाद। ४३९ परमार्थतस्तु कल्पसूत्राणामपि विप्रकीर्णानैकशाखागतश्रुत्यर्थनिबन्धनेन स्मृतितुल्य- त्वात्स्मृत्यधिकरणविषयत्वमस्त्येवेत्यपरितोषात्स्वमतेन सर्वेषां वेदातिरिक्तविद्यास्थानानां स्मृत्यधिकरणप्रतिपादितवेदमूलत्वमाक्षिप्येह समाधीयत इति परिहारमाह—यद्वेति । स्वातन्त्र्यलक्षणेनातिशयेन प्रामाण्यम्-अतिप्रामाण्यम्, ननु स्मृतीनां प्रत्यक्षवेदार्थोपनिबन्धना- भावेन वेदवैलक्षण्यात्कथं स्वतःप्रामाण्याशङ्केत्यपेक्षायां पौरुषेयत्वाङ्गीकरणेन प्रामाण्या- भ्युपगमे कल्पनागौरवापत्तेस्तत्परिहारायापौरुषेयत्वमेवोचितमिति सन्देहोपपादनाय पूर्वपक्षं सम्भावयति—यदीति । विषयव्याप्त्यर्थं षडङ्गस्यैतद्विचारविषयत्वमाह—यद्वेति । न्यायवशात्स्वातन्त्र्यलक्षणप्रयोगशास्त्रत्वसम्भवे वेदशब्दवाच्यत्वस्याभियुक्तप्रयोगा- धीनत्वादभावे वेदत्वशङ्कानुपपत्तिमाराङ्क्य—षडङ्गेऽपीत्युक्तम् । एतदेव विवृणोति— मन्त्रेति । विरोधाधिकरणस्य शाक्यादिग्रन्थविषयत्वे तदाक्षेपसमाधानार्थं तेषामप्येतदधिकरण- विषयत्वं सम्भवतीत्याह—यद्वेति : ननु विरोधाधिकरणं विषयान्तरासम्भवादनङ्गीकृतमपि केनचिच्छाक्यादिग्रन्थस्य वेदमूलत्वसम्भावनामात्रेणाशङ्क्य, तन्निराकरणार्थंत्वेन व्याख्यातम्, इदं तु विषयान्तरसम्भवात्किमिय्यनङ्गीकृतवेदत्वनिराकरणार्थत्वेन व्याख्यायते । अत आह — शाक्यादयोऽपि हीति । कथं वदन्तीत्यपेक्षायामुत्पादाद्वेति शाक्यग्रन्थमुदाहरति— यथेति । उत्पादादिति प्रवाह्नित्यत्वमभिप्रेतम् । अनुत्पादादिति कूटस्थनित्यत्वम् । तथागताः=बौद्धाः । धर्मनित्यत्वस्य तत्प्रतिपादकागमनित्यत्वमन्तरेणायोगात्तन्नित्यताप्य- नेनोक्तेत्याशयः । एतदेवोपसंहरति ततश्चेति । वाशब्दोऽत्राध्याहार्यः । एवमपि किमर्थं विचार्यमित्यपेक्षायामाह—चोदनेति । ननु शाक्याद्यागमस्य वेदमूलत्वे निराकृतं वेदत्वं वेदतुल्यत्वं वा दूरादेवापास्तम् । कथमत्राशङ्क्यत इत्याशङ्क्य रूपकद्वारेणाशङ्कामुप- पादयति—काममिति । शाक्यादिचोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेन, वेद- मूलत्वेन वा द्वारेण प्रवेष्टुमुद्यततोऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गवाह्यत्वलक्षणन्यायदण्ड- पाणिभिर्मीमांसकैर्वारितो वरं न प्रविशेत्सम्प्रति तु मीमांसकानुमतेनापौरुषेयत्वेन महापथेन प्रकटं प्रवेष्टुमिच्छतीत्यर्थः । सर्वेषामपि विचारविषयत्वं स्वाभिमतं द्योतयितुं भाष्यकारीयोदाहरणस्योपलक्षणा- र्थतामाह—एवमिति । पूर्वपक्षसूत्रव्याख्यानार्थं प्रयोगस्येति भाष्यं व्याचष्टे—का गति- रिति । पूर्वार्द्धनेति चेदिति सूत्रावयवो व्याख्यातः। प्रयोगशास्त्रशब्दव्याख्यानार्थं सत्य- वाचामिति भाष्यं द्वेधा व्याचष्टे—वेदत्वमिति । पौरुषेयस्य विधायकोपस्थापनमात्रचरितार्थ- त्वेन साक्षादनुष्ठानविधायकत्वाभावात्प्रयोगशास्त्रशब्देनापौरुषेयत्वलक्षणं स्वातन्त्र्यमुक्त- मित्याशयः । भाष्यकृता 'कथमवगम्यत इति' पृष्ट्वा वैदिकैरेषां संवादो भवतीत्युक्तम् । तदपौरुषेयत्वे संवादानपेक्षत्वादयुक्तमाशङ्क्य वेदसंवादेन प्रामाण्यनिश्चयात्पौरुषेयत्वे च