मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 523, कुल 804 में से
संदर्भ में पढ़ें१२ ] प्रथमाध्याये तृतीयपादः ४६९ मागधदाक्षिणात्यतदपभ्रंशप्रायासाधुशब्दनिबन्धना हि ते। मम१ वि हि भिक्खवे कम्मवच्चइ वसी सवं। तथा२ उक्खित्ते लोडम्मि उक्खेवे अत्थि कारणम्। पडणे णत्थि कारणम्। अत्युम्भवॆ३ कारणं इमे संखंडा धम्मा संभवन्ति सकारणा अकारणा विणस्संति। उप्पत्तिमणुकारणमित्येवमादयः। ततश्चासत्यशब्देषु कुतस्तेष्वर्थसत्यता। दृष्टापभ्रष्टरूपेषु कथं वा स्यादनादिता ॥ ५८४ वेदेषु हि तावदेव पदवाक्यसंघातात्मकत्त्वादिहेत्वाभासैः कृतकत्वभ्रान्तिर्भवति। या तद्विरवस्थानाद्वेदरूपं न दृश्यते। ऋक्सामादिस्वरूपे तु दृष्टे भ्रान्तिर्निवर्तते४ ॥ ५८५ आदिमात्रमपि श्रुत्वा वेदानां पौरुषेयता। न शक्याऽध्यवसातुं हि मनागपि सचेतनैः ॥ ५८६ दृष्टार्थव्यवहारेषु वाक्यैर्लोकानुसारिभिः। पदैश्च तद्विधैरेव नराः काव्यानि कुर्वते ॥ ५८७ प्रपाठकचतुःषष्टिनियतस्वरकैः पदैः। लोकेष्वप्यश्रुतप्रायैरृग्वेदं क करिष्यति ॥ ५८८ ऋग्वेदस्यापौरुषेयत्वे युक्तिः अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम्। होतारं रत्नधातममित्येतन्नृवचः कथम् ॥ ५८९ किमालोच्य क्व वा दृष्ट्वा वाक्प्रतिच्छन्दमीदृशम्। रचयेत्पुरुषो वाक्यं किं चोद्दिश्य प्रयोजनम् ॥ ५९० अग्नेः पुरोहितत्वं च क्व दृष्टं येन कीर्त्यते। ईळेशब्दप्रयोगश्च क्व दृष्टस्तोत्रगोचरः ॥ ५९१ देवत्वं चास्य यज्ञस्य विहितं क्वोपलक्षितम्। विधिनैव हि देवत्वं प्रतिकर्मविधार्यते ॥ ५९२ न जात्या देवतात्वं हि क्वचिदस्ति व्यवस्थितम्।' होतृत्वमपि यत्तस्य देवताह्वानहेतुकम् ॥ ५९३ १. ममापि भिक्षवः कर्म वर्तत एवाऽशरीरपातात्। २. तथा, उत्क्षिप्ते लोष्टे उत्क्षेपेऽस्ति कारणं पतने नास्ति कारणम्। ३. अस्त्युद्भवे कारणमिमे संस्कृता धर्माः संभवन्ति सकारणा अकारणा विनश्यन्ति। उत्पत्तिमनुकारणमपेक्षन्ते। ४. दृष्टेभ्रान्ति।