मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 524, कुल 804 में से
संदर्भ में पढ़ें४७० मीमांसादर्शनम् [ सू० रत्नधायितमत्वं च तन्नरैर्ज्ञायते कथम् । अविज्ञातगुणानां च कल्पते स्तवनं न तु ॥ ५९४ स्वतन्त्रो वेद एवैतत्केवलो वक्तुमर्हति । यजुर्वेदस्यापौरुषेयत्वे हेतुः इषे त्वेत्ययमप्यर्थः पुरुषेणोच्यतां कथम् ॥ ५९५ शाखाच्छेदोपयोगश्च पुंभिरुत्प्रेक्ष्यतां कुतः । एवमूर्जेत्ययं मन्त्रः केन शाखानुमार्जने ॥ ५९६ वक्तुं शक्यो नियोक्तुं वा बुद्धिपूर्वककारिणाम् । वायवः स्थेत्ययं मन्त्रो वत्सापाकरणं प्रति ॥ ५२७ एकशो विनियोक्तव्य इति कः कथयिष्यति । वायुशब्देन बहुवचनान्तेन मातुर्वियोज्यमान एकैको वत्सोऽभिधीयत इति, नैतद् बुद्धिपूर्वकारिणा चिन्तितुं शक्यम् । सामवेदेष्वियं युक्तिः सामवेदे यदाग्नाइप्रभृतीनां प्रयुज्यते । रूपं तत्रापि पौंस्त्वे नाभिप्रायोऽस्ति कश्चन ॥ ५९८ को नाम बुद्धिपूर्वकारी पुरुषोऽर्थाभिधानपराणामृगक्षराणां लोकव्याकरणा- दिष्वनवगतपूर्वमग्न इत्यस्य पदस्याकारमाकारेण प्लुतेन विकुर्यात् । तथा वीतय इत्यस्मिन्नोकारस्यापि विक्रियाम् । तशब्दस्य च तो शब्दं ये शब्दस्यापि रूपताम् ॥ ५९९ को मूढो बुद्धिपूर्वो वा नियमात्कल्पयिष्यति । तेन वेदस्वतन्त्रत्वं रूपादेवावगम्यते ॥ ६०० किंचिदेव तु तद्वाक्यं सदृशं लौकिकेन यत् । तत्रापि च्छान्दसी मुद्रा दृश्यते सूक्ष्मदर्शिभिः ॥ ६०१ एवं च यदाऽध्येतारोऽध्यापयितारः, पार्श्वस्था वा वेद-पद-वाक्य-तदर्थरूपा- प्यालोचयन्ति, तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्कि- काणां प्रतीतिभावना नोत्पद्यत इति, तत्तत्प्रतिपादनक्षमवेदोत्थापितन्यायोपनिब- न्धनान्मीमांसकैः केवलं यश एव पीतम् । शाक्यादिग्रन्थेषु पुनर्यदपि किंचित्साधुशब्दाभिप्रायेणाविनष्टबुद्ध्या प्रयुक्तम्, तत्रापि प्रज्ञसि-विज्ञसि-पश्यतातिष्ठतादिप्रायप्रयोगात्किंचिदेवाविप्लुतं लभ्यते । किमुत यानि प्रसिद्धपभ्रष्टदेशभाषाभ्योऽप्यपभ्रष्टतराणि भिक्खवे इत्येव- मादीनि द्वितीयाबहुवचनस्थाने ह्येकारा तं प्राकृतं पदं दृष्टम्, न प्रथमाबहुवचने