भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

४७० मीमांसादर्शनम् [ सू० रत्नधायितमत्वं च तन्नरैर्ज्ञायते कथम् । अविज्ञातगुणानां च कल्पते स्तवनं न तु ॥ ५९४ स्वतन्त्रो वेद एवैतत्केवलो वक्तुमर्हति । यजुर्वेदस्यापौरुषेयत्वे हेतुः इषे त्वेत्ययमप्यर्थः पुरुषेणोच्यतां कथम् ॥ ५९५ शाखाच्छेदोपयोगश्च पुंभिरुत्प्रेक्ष्यतां कुतः । एवमूर्जेत्ययं मन्त्रः केन शाखानुमार्जने ॥ ५९६ वक्तुं शक्यो नियोक्तुं वा बुद्धिपूर्वककारिणाम् । वायवः स्थेत्ययं मन्त्रो वत्सापाकरणं प्रति ॥ ५२७ एकशो विनियोक्तव्य इति कः कथयिष्यति । वायुशब्देन बहुवचनान्तेन मातुर्वियोज्यमान एकैको वत्सोऽभिधीयत इति, नैतद् बुद्धिपूर्वकारिणा चिन्तितुं शक्यम् । सामवेदेष्वियं युक्तिः सामवेदे यदाग्नाइप्रभृतीनां प्रयुज्यते । रूपं तत्रापि पौंस्त्वे नाभिप्रायोऽस्ति कश्चन ॥ ५९८ को नाम बुद्धिपूर्वकारी पुरुषोऽर्थाभिधानपराणामृगक्षराणां लोकव्याकरणा- दिष्वनवगतपूर्वमग्न इत्यस्य पदस्याकारमाकारेण प्लुतेन विकुर्यात् । तथा वीतय इत्यस्मिन्नोकारस्यापि विक्रियाम् । तशब्दस्य च तो शब्दं ये शब्दस्यापि रूपताम् ॥ ५९९ को मूढो बुद्धिपूर्वो वा नियमात्कल्पयिष्यति । तेन वेदस्वतन्त्रत्वं रूपादेवावगम्यते ॥ ६०० किंचिदेव तु तद्वाक्यं सदृशं लौकिकेन यत् । तत्रापि च्छान्दसी मुद्रा दृश्यते सूक्ष्मदर्शिभिः ॥ ६०१ एवं च यदाऽध्येतारोऽध्यापयितारः, पार्श्वस्था वा वेद-पद-वाक्य-तदर्थरूपा- प्यालोचयन्ति, तदा स्वसंवेद्यमेवापौरुषेयत्वमध्यवस्यन्ति । तावता तु बाह्यतार्कि- काणां प्रतीतिभावना नोत्पद्यत इति, तत्तत्प्रतिपादनक्षमवेदोत्थापितन्यायोपनिब- न्धनान्मीमांसकैः केवलं यश एव पीतम् । शाक्यादिग्रन्थेषु पुनर्यदपि किंचित्साधुशब्दाभिप्रायेणाविनष्टबुद्ध्या प्रयुक्तम्, तत्रापि प्रज्ञसि-विज्ञसि-पश्यतातिष्ठतादिप्रायप्रयोगात्किंचिदेवाविप्लुतं लभ्यते । किमुत यानि प्रसिद्धपभ्रष्टदेशभाषाभ्योऽप्यपभ्रष्टतराणि भिक्खवे इत्येव- मादीनि द्वितीयाबहुवचनस्थाने ह्येकारा तं प्राकृतं पदं दृष्टम्, न प्रथमाबहुवचने

१२ ] प्रथमाध्याये तृतीयपादः ४७१ सम्बोधनेऽपि । संस्कृतशब्दस्थाने च ककारद्वयसंयोगः, अनुस्वारलोपः, ऋवर्णा- कारापत्तिमात्रमेव प्राकृतापभ्रंशेषु दृष्टम्, न डकारापत्तिरपि । सोऽयं संस्कृता धर्मा इत्यस्य सर्वकालं स्वयमेव प्रतिषिद्धोऽपि विनाशः कृत इत्यसाधुशब्दनिबन्धन- त्वादित्यन्तेन हेतुना वेदत्वाकृतकशास्त्रान्तरशङ्कानिवृत्तिः । यासांश्चाकृतको विनष्टः शब्दराशिः, तस्य व्याकरणमेवैकमुपलक्षणम्, तदुपलक्षितरूपाणि च । असन्नियमादित्यस्य त्रेधा व्याख्यानम् वेदे यथोपलभ्यन्ते नैवं शाक्यादिभाषिते । प्रयोगनियमाभवादतोऽप्यस्य न शास्त्रता ॥ ६०२ असन्नियमादिति१ च व्याकरणोक्तनियमाभावादित्यर्थः । क्षणिकत्वनिराकृतनित्यसिद्धानित्यत्वात्यन्ताविद्यमानग्रन्थनियमाभ्युपगमाभि- प्रायेण वाऽसन्नियमादित्युक्तम्२ । असतां वा क्षणभङ्गशून्यवादानानात्मकत्वादीनाम्, असद्धेतुभिर्वा प्रतिपादननि- यमात्तदेककर्तृकधर्मवचनानामप्यप्रामाण्यम् । कर्तृस्मरणदार्ढ्याच्च नैषामकृतता मता । तेनाकृतकगम्येऽर्थे स्वातन्त्र्यान्न प्रमाणता ॥ ६०३ एवं समस्तवेदाङ्गधर्मशास्त्रेष्वपीदृशात् । कर्तृस्मृतिदृढिम्नः स्यान्न स्वातन्त्र्येण शास्त्रता ॥ ६०४ एतेन कल्पसूत्राणां स्वातन्त्र्येण प्रामाण्यनिरासः अनेन कल्पसूत्राणां प्रत्याख्याता स्वतन्त्रता । कर्तृस्मृत्या दृढं ज्ञाता तेषामप्यसतां क्रिया ॥ ६०५ येन न्यायेन वेदानां साधिताऽनादिता पुरा । दृढकर्तृस्मृतेस्तस्य कल्पसूत्रेषु बाधनम् ॥ ६०६ यथैव हि कल्पसूत्रग्रन्थानितराङ्गस्मृतिनिबन्धनानि चाध्येतृध्यापयितारः स्मरन्ति, तथाऽऽश्वलायनबौधायनापस्तम्बकात्यायनप्रभृतीन्३ ग्रन्थकारत्वेन । ततश्च प्रागवस्थायामसतामेव बन्धनात् । कुतः प्रयोगशास्त्रत्वं वेदवद्वेदतैव वा ॥ ६०७ न चैषां समाख्यामात्रबलादेव कर्तृत्वमुच्यते । येन आख्यां प्रवचनादि (१-१-२९) त्युत्तरमुच्यते । पुरुषपरम्परयैव हि स्मृतेषु कर्तृषु समाख्याऽभ्युच्चयहेतुत्वेन ज्ञायते । यथा च कठादिचरणैरनादिभिः प्रोच्यमानानामनादिवेदशाखानामनादिसमाख्या- १ क. असंनियमा । २ क. संनियमा । ३ अ. कात्याय ।

४७२ मीमांसादर्शनम् [ सू० संभवो नैवं नित्यावस्थितमाशकादिगोत्रचरणप्रवचननिमित्तसमाख्योपपत्तिः। माशकबोधायनापस्तम्बादिशब्दा ह्यादिमदेकद्रव्योपदेशिन इति, न तेभ्यः प्रकृति- भूतेभ्योऽनादिग्रन्थविषयसमाख्याव्युत्पादनसंभवः । अतश्च माशकादिसमाख्याऽप्यविद्यमानग्रन्थनियमनादेव प्रवृत्तेत्यपि हेत्वर्थ- योजना। वेदरूपनियमाविद्यमानत्वादिति वाऽत्र हेतुव्याख्या । कात्स्नं तु वेदाङ्ग- नीत्यनध्यायनियमाभावादिति वा योज्यम् । यत्तु भाष्यकारेण स्वराभावादित्यन्ताथं १ व्याख्यानं कृतम् । तन्मन्त्रेष्वप्यवेदत्वं कल्पाधीतेषु साधयेत् । तथा गृह्योपदिष्टेषु च्छान्दोग्यब्राह्मणेषु च ॥ ६०८ ब्राह्मणानि हि यान्यष्टौ सरहस्यान्यधीयते । छन्दोगास्तेषु सर्वेषु न कश्चिन्नियतस्वरः ॥ ६०९ तेन तेष्वप्यवेदत्वं स्वराभावात्प्रसज्यते । तस्मादुक्तस्वसंवेद्यरूपाभावोऽत्र कारणम् ॥ ६१० स्वरोऽपि त्वस्ति रूपांशे न त्वसावेव केवलः ॥ १२ ॥ न्या० सु०-एतत्सूत्रावतारणार्थमेत्यनुभाषणभाष्यं व्याचष्टे—यस्त्विति । आर्षेय- पञ्चार्षेयगोत्रव्यवस्थया शिखाकल्पव्यवस्थादर्शनाद् गोत्रविशेषवाच्युपपदानुमानेन कर्तृविशेष- विनियोगः स्यादित्येवं सूत्रव्याख्यानाथं गोत्रेति भाष्यं व्याचष्टे—तत्रेति । श्लोकं व्याचष्टे—यथैवेति । वसिष्ठादिगोत्रस्यान्यतो नाराशंसो । व्यतिरेकः तनूनपादित्युप- लक्षणतेत्यर्थः ॥ १२ ॥ भाव० प्र०- प्रस्तुत पूर्वपक्ष के उत्तर में कहा गया है कि कल्पसूत्र आदि अपौरुषेय नहीं है, क्योंकि, कात्यायन आदि महर्षियों ने इसकी रचना की है, इसीलिए कात्याय- नीय, शाट्यायनीय, आश्वलायनीय आदि संज्ञा सार्थक होती है। कात्यायन के द्वारा प्रणीत इस अर्थ में तद्धित 'छ' प्रत्यय के द्वारा ये पद सिद्ध होते हैं। 'आख्याप्रवचनात्' (जै० सू० १।१।३०) इस सूत्र में मीमांसकों ने जिस प्रकार काठक कालापक आदि संज्ञा को प्रवचन मूलक कहा है। उसी प्रकार यहाँ भी नहीं कहा जा सकता है, क्योंकि, वेद के रचयिता पुरुष अस्मर्यमाण होने से काठक आदि स्थलों में प्रवचन ही संज्ञा का कारण है, किन्तु इस स्थल में कात्यायन, शाटघायन आदि महर्षियों के रचयिता होने से उसी रूप में शिष्य का स्मरण करते हैं, इसलिए वेद के समान प्रवचन समाख्या को = संज्ञा नहीं कहा जा सकता है, भाष्यकार ने कहा है वेद में स्वर पाठ लक्षित होता है, किन्तु कल्पसूत्र आदि में स्वर का नियम नहीं है, अतः वह अपौरुषेय नहीं है। वार्तिककार ने कहा है— १ क. दित्यानियमार्थम् ।

१३ ] प्रथमाध्याये तृतीयपादः ४७३ भाष्यकार का यह कथन सर्वथा समीचीन नहीं है, क्योंकि सामवेद में अनेक स्थलों पर स्वर नियम नहीं है। वार्तिककार ने यह भी कहा है कि जिन युक्तियों के आधार पर वेद को अपौरुषेय कहा गया है, शाक्य आदि की स्मृतियाँ उन युक्तियों के आधार पर अपौरुषेय नहीं कही जा सकती हैं, किन्तु दृढ़तापूर्वक कर्ता का स्मरण रहने से उनका पौरुषेयत्व है, अतः अयोग्य धर्माधर्म में विषय में उनका अप्रामाण्य ही सिद्ध होता है । न=नहीं, कल्पसूत्र अपौरुषेय नहीं है । असन्नियमात्=असत् का अर्थात् पूर्व में अविद्य- मान ग्रन्थ का नियमात् निर्माण या रचना होने से । अथवा असत् अर्थात् पूर्व में अविद्यमान अर्थात् परर्वतिकालीन कात्यायन आदि महर्षियों से नियमित अर्थात् रचित होने से । कल्पसूत्र आदि प्रयोगशास्त्र अपौरुषेय नहीं हैं, क्योंकि, वह रचना से पूर्व में नहीं थे, वरन् कात्यायन आदि महर्षियों ने इनकी बाद में रचना की है। यह सिद्धान्त पक्ष है ॥ १२ ॥ अवाक्यशेषाच्च¹ ॥ १३ ॥ शा० भा०—ऋत्विजो वृणीते । वृता यजन्ति । देवयजनमध्यवस्यन्तीति । नात्र विधिर्गम्यते, वर्तमानकालप्रत्ययनिर्देशात् । न चात्र वाक्यशेषः स्ताव- कोऽस्ति²। तस्मादप्रमाणम् । यश्चाऽऽदर उक्तः स नान्तरीयकत्वाद्वेदवाक्यमिश्र- समाम्नानात् । यत्तु श्रुतिरिति³, नैतत् । अर्थवादत्वात् । कथमर्थवादः ? विध्यन्तरं ह्यस्ति, आग्नेयोऽष्टाकपाल इति । अत्राऽऽचार्यो वेदोऽभिप्रेतः । आचिनोत्यस्य बुद्धिमिति ⁴यद्वाऽऽचार्यवचनं प्रमाणं तदपेक्षम् । कतरत्तत् ? यत् प्रमाणगम्यम् ॥ १३ ॥ इति सिद्धान्तः । भा० वि०—इति सूत्रं कल्पाद्यवेदत्वे हेत्वन्तरपरं व्याख्यातुं त्वप्रत्ययपर- मध्याहृत्य च शब्दं चावतारयति—अवाक्यशेषत्वाच्चेति । तत्र विधानार्था- च्छिषेर्शिष्यते विधीयतेऽनेनेत्यस्मिन्नर्थे व्युत्पत्तेर्विधायकवचनं शेषशब्दमङ्गीकृत्या- शेषवाक्यत्वादविधायकवाक्यत्वादिति व्याचष्टे—ऋत्विजो वृणीत इत्यादिना । वर्तमानकालप्रत्ययो लट्प्रत्ययः तेन निर्देशादित्यर्थः । ननु वर्तमानापदेशस्यापि समिधो यजतीत्यादेः विधित्वाङ्गीकरणान्न तेन विध्यभावश्शक्यो वक्तुमित्याशङ्क्य स्तावकवाक्यशेषान्वयान्यथानुपत्त्या तत्र विधिपरत्वं कल्प्यते न तु कल्पादिषु वाक्यशेषोऽस्तीत्येवं परतयाप्येतदेव सूत्रं व्याचष्टे—न चात्रेति । यस्माद्वेदरूपाभावादवेदत्वम्, तस्मान्न स्वयं प्रमाणम्, किन्तु वेदमूलतयेत्युपसंहरति—तस्मादिति । मन्त्रब्राह्मणैस्तुल्यादरत्वं निरपेक्ष- १ अ. शेषत्वाच्च । २ अ. कस्तस्मादप्रमाणं । ३ अ. रिति नार्थवादत्वात् । ४. यद्वेति-यल्लोकेऽध्यापयितृवचनं सिद्धप्रमाणम्, तदपेक्षं श्रुतिवाक्यं तदनुवादकमित्यर्थः ।

४७४ मीमांसादर्शनम् [ सू० प्रामाण्यकारणं अनूद्य दूषयति—यच्चेत्यादिना । वेदवाक्यमिश्राणां कल्पसूत्राणां समाम्नानात् इति नान्तरीयकतवमुपपादिकम्, आचार्यवचनं प्रमाणमिति श्रुतिर्न मशकादिवचनप्रामाण्यपरा किन्त्वन्यपरेत्याह—यत्त्वित्यादिना । विध्यन्वयं विना कथमर्थवादतेति पृच्छति—कथमिति । उत्तरम्—विध्यन्तरं हीति । तथापि स्वार्थाभिधानद्वारत्वात् स्तुतेराचार्यवचनप्रामाण्यसिद्धिरित्याशङ्क्य श्रुतिसामान्यमात्रत्वान्नैवमित्याह—अत्रेति । अस्याधिकारिणः व्युत्पन्नोऽव्युत्प- न्नोऽपि चायमाचार्यशब्दो व्याख्यात्राध्यापयितृविषयः, न कल्पसूत्रकारविषय इति, परिहारान्तरमाह—यद्वेति । यत्प्रमाणभूतमार्यवचनं तदपेक्ष्येयं श्रुतिरिति योजना । पृच्छति—कतरदिति । आचार्यवचनं हि सर्वं प्रमाणमिति भावः । व्याख्यात्रादिवचनमपि संभवन्मूलप्रमाणकमेव सत्यं न सर्वम् इत्युत्तरमाह— यत्प्रमाणमिति । तदनेनाचार्यवचनं कथं नामयं श्रोता आद्रियेत ? इत्येवमर्थेयं श्रुतिरिति व्याख्यातम् ॥ १३ ॥ त० वा०—अतश्च वाक्यशेषोऽपि तस्मिन्नेवोपयुज्यते । बहवो वाक्यशेषा हि येषां लोकेष्वसंभवः ॥ ६११ अबुद्धिपूर्वतासिद्धिस्तेन वेदस्य तैरपि । 'बृहस्पतिर्वै देवानामुदगायात् इन्द्रो वृत्रमहनत्'१, प्रजापतिर्वपामात्मन उदखिदत्, गावो वा एतत्सत्रमासत, तासां दशसु मास्सु शृङ्गाण्यजायन्तेत्यादयः कथमिव बुद्धिपूर्वककारिणोऽर्थवादाः प्रणीयेरन् । नित्यत्वे सति येषां हि क्लेशेन विधियोजना । तान् कृत्वाऽध्यापयन् कर्ता सुसमत्वं व्यजेज्जडैः ॥ ६१२ न च तादृशवाक्यशेषमुद्राऽपि कल्पसूत्रादिग्रन्थेषु काचिदस्ति, यद्बलेना- कृतकत्वमेषामवसीयेत । विधिशून्यतया चैषां विहिताऽऽख्यातरूपता । गम्यते न त्वपूर्वार्थप्रतिपादनशक्तता ॥ ६१३ वर्तमानाप्रदेशोऽपि त्वर्थवादप्ररोचितः । विधित्वं लभतेऽन्यत्र कल्पसूत्रेषु नास्ति सः ॥ ६१४ पञ्चमेन लकारेण विधिर्यश्छन्दसि स्मृतः । मन्त्रब्राह्मणभिन्नत्वात्सोऽप्येतेषु न युज्यते ॥ ६१५ यद्यपि षडङ्गमके इत्यनेन कल्पसूत्राणां वेदत्वं भवेत् । १ क. महत्प्रजा ।

१३ ] प्रथमाध्याये तृतीयपादः ४७५ तथाऽपि तर्कवत्तेषां छन्दस्त्वं नोपपद्यते । मन्त्रब्राह्मणयोरेव च्छान्दसा विधयः स्थिताः ॥ ६१६ यथैव 'विधिर्विधेयस्तर्कश्च वेदः' (पा गृ. सू. ६।१६) इत्येतस्मिन्दर्शने सति समस्त२वैदिकतर्कोपसंहारात्मिका मीमांसाऽपि वेदशब्दवाच्या भवति, न३ त्वमन्त्रब्राह्मणरूपत्वाच्छन्दोनिबन्धनानि कार्याणि लभते, तथा कल्पसूत्राण्यपीति विधिपर्यायप्रयोगशास्त्रत्वाभावः । इतिहासपुराणाभ्यां सा त्वनैकान्तिकी स्मृता । या त्वेषां ब्रह्मयज्ञेऽपि विधानान्नित्यतोदिता ॥ ६१७ इतिहासपुराणानि कल्पानिति हि सा श्रुतिः । तस्मात्कृत्रिममध्यत्र विद्यास्थानं ग्रहीष्यते ॥ ६१८ वेदार्थोपसंहारस्य कल्पसूत्रानपेक्षैः कर्तुमशक्यत्वात्, अवश्यं च यावद्वेदम्, यावत्कर्मप्रयोगं च क्रियमाणैरपि विद्यास्थानाशून्यतार्थं कैरपि कल्पसूत्रैर्भवितव्यम् । वेदार्थकल्पनात्कल्पो नित्ययैवाऽऽख्ययोच्यते । जपे च नित्यकर्तव्ये नित्यमेव विधीयते ॥ ६१९ कर्माभ्यासाभिसंधानं विध्यर्थश्चात्र गम्यते । स चार्थो नित्य एवेति नाऽऽपतेद् ग्रन्थनित्यता ॥ ६२० यः पुनर्वेदसंवादः स तत्पूर्वतयेष्यते । तदर्थानुगमाच्चैषां न स्वतन्त्रप्रमाणता ॥ ६२१ वेदशब्दाभिधेयत्वं नैषामध्येतृषु४ स्थितम् । षडङ्गमेक इत्येतन्न च सिद्धान्तभाषितम् ॥ ६२२ संवादत्वानुवादत्वमेकस्यैकान्तनिश्चितम् । ऐकान्तिकविधित्वाच्च ब्राह्मणे तन्न युज्यते ॥ ६२३ कल्पादावनुवादत्वमापन्नं परिशेषतः । न च शाखान्तरन्यायस्तुल्याध्येतृकतावशात् ॥ ६२४ सर्वशाखाविधित्वं हि सिद्धमध्येतृभेदतः । प्रतिशाखं तु ये कल्पास्तदर्थप्रतिपादकाः ॥ ६२५ समानाध्येतृकत्वात्ते न कदाचिद्द्विधिक्षमाः । विवृण्वन्तश्च दृश्यन्ते हेतुभिर्ब्राह्मणोत्थितैः ॥ ६२६ १. विधिः—ब्राह्मणम् । विधेयो—मन्त्रः । तर्को मीमांसेति सूत्रार्थः । २ क. समवैहिकतर्कापसंह। ३ क. तत्त्वमन्त्रः । ४. क मध्येतृषु ।

पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति ।

४७६ मीमांसादर्शनम् [ सू० कल्पकारास्ततोऽप्येषां नैव ब्राह्मणतुल्यता । अन्यार्थैर्ब्राह्मणैश्चान्याज्ञापयन्त्यर्थनिर्णयान् ॥ ६२७ तस्मादपि स्वतन्त्रत्वं कल्पानां नोपपद्यते । अर्थकत्वेन केषांचिदक्षराणां च साम्यतः ॥ ६२८ सादृश्याद् ब्राह्मणभ्रान्तिर्जातैवंमपनीयते । आचार्यवचः प्रमाणमिति श्रुतेरभिप्रायवर्णनम् आचार्यवचसां यच्च प्रमाणत्वं श्रुतौ श्रुतम् ॥ ६२९ श्रुतिसामान्यमात्रत्वात्तस्याप्यन्यार्थतोदिता । व्याचक्षाणस्य वेदार्थान्वेदांश्च वदतः स्वयम् ॥ ६३० शिष्यान्प्रत्यप्तभावात्स्यादाचार्योक्तिप्रमाणता । आचार्यशब्दस्यार्थो मन्वादिभिरेवं व्याख्यातः । ‘उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गं च सरहस्यं च तमाचार्यं प्रचक्षते’ ॥ इति । ६३१ वेदसंप्रदानकाले च शिष्यास्तद्वचःसु कथं नाम श्रद्धधीरन्नित्येवमर्थमाचार्य- वचनं प्रमाणमित्युक्तम् । न कल्पसूत्रकारवचनविषयम् । न च पुंवचनं सर्वं सत्यत्वेनावगम्यते । वागिह श्रूयते यस्मात्प्रायादनृतवादिनी ॥ ६३२ तथाऽन्यत्राप्युक्तम् ‘तस्माद् द्वयं वाचा वदति सत्यं चानृतं च, पाप्मना ह्येषां विद्धेति’ (बृ. उ. १-३) ॥ १३ ॥ न्या० सु०—श्यामादिचिह्नविशेषवाच्युपपादानुमानाशाङ्कानिरासार्थमेतत्सूत्रमिति प्रति- पादनार्थं वा इदमिति भाष्यं व्याचष्टे—व्यक्तीति । एतदेव विवृणोति—व्यक्तीति । नित्यस्य-व्यवस्थिताचारान्नियतस्य कर्तुरूपलक्षणभूतस्य लिङ्गस्याभावात्तद्वाच्युपपदानु- मानानुपपत्तेः । सर्वंधर्मंतेति लिङ्गीभूतकर्तृविशेषणनित्यशब्दाङ्गीकरणेन स्वयं सूत्रं व्याचष्टे- ऽिङ्गेति । नियमाभावमुपपादयदन्येऽपीति भाष्यं व्याचष्टे—यच्चिह्नमिवेति । अन्वयव्यभि- चारार्थं भाष्यं व्याख्याय नैवं लिङ्गा इति व्यतिरेकव्यभिचारार्थं भाष्यं व्याचष्टे— दृष्टमिति । तस्मादित्यपसंहारभाष्यं व्याचष्टे—तस्मादिति । ननु नास्ति तन्नित्यमेषां लिङ्गमिवेति भाष्यान्नित्यशब्दस्य लिङ्गविशेषणत्वप्रतीतेः । कर्तृविशेषणत्वेन व्याख्यानमयुक्तमित्याशङ्कयाह—यस्त्विति । नित्यकर्त्तुरूपलक्षणशक्ति- प्रदर्शनार्थं लिङ्गस्य नित्यत्वं भाष्यकृता निराकृतम् । ननु सौत्रो नित्यशब्दो लिङ्गविशेषण- त्वेन व्याख्यात इति मन्यते इति काक्वा सूचितम् । नित्यशब्दसापेक्षत्वाल्लिङ्गशब्दस्या-

१३ ] प्रथमाध्याये तृतीयपादः ४७७ भावशब्देन सह—असमासप्रसङ्ग इत्युक्तम् । ननु राजपुरुषः शोभन इति पुरुषशब्दस्य शोभनशब्दसापेक्षस्यापि राजशब्देन सह समासो दृष्ट इत्याशङ्क्य—उपसर्जनोभूतेत्युक्तम् । 'भवति हि प्रधानस्य सापेक्षस्यापि समास' इति स्मृतेः । पुरुषस्य राजानं प्रति प्राधान्याद्युक्तः समासः । लिङ्गस्याभावं प्रत्युपसर्जनत्वात् वृद्धस्य राज्ञः पुरुष इति वद्युक्त इत्याशयः । ननु नित्यशब्दस्य प्रतिपाद्यं नियतत्वं लिङ्गशब्दार्थस्य लिङ्गत्वानुपपत्तेर्लिङ्गशब्दार्थेनैव नित्यशब्दार्थक्षेपाच्छब्दस्यान्यत्र व्यापाराभावेन सामर्थ्याविघातात् उपसर्जनसापेक्षत्वेऽपि देवदत्तस्य गुरुकुलमितिवन्नित्यसापेक्षत्वात्समासाविरोध इत्याशङ्कते—नन्विति । यदि हि सम्बन्ध्यन्तरस्य नित्यशब्दस्यार्थो नियतत्वं लिङ्गशब्दार्थेनैव स्वार्थसम्बन्धितया समभिव्या- हारानुपपत्त्याऽऽक्षिप्येत, ततोऽन्यत्र व्यापृतत्वात्तावत्सम्बन्धाक्षेपेऽसामर्थ्यं स्यात् लिङ्गशब्दार्थेनैव तु हेतुत्वेन नित्यशब्दार्थक्षेपान्न तेन लिङ्गशब्दस्याभावात् शब्दं प्रति सामर्थ्यं विहन्यत इत्यर्थः। गुरुशब्दस्य सम्बन्धिशब्दत्वाच्छिष्यसम्बन्धिरूपं विना स्वार्थ- प्रतिपादनाशक्तेस्तद्रूपमन्तरेण स्वार्थाभिधानापर्यवसानादपर्यवसितस्वार्थाभिधान एव शब्दान्तराभिधानसंयोगात्स्वार्थाभिधानवेलायामेव सम्बन्ध्यन्तरशिष्यमात्रप्रतीतौ निर्विशेष- सामान्यानुपपत्तेस्तद्विशेषापेक्षायामपि पर्यवसितस्वार्थाभिधानव्यापारस्य शब्दस्य सम्बन्ध्यन्त- रान्वयसिद्धौ व्यापारान्तराभावेन सामर्थ्याविघातात्समासो युक्तः । लिङ्गशब्दस्य तु सम्बन्धिशब्दत्वाभावात्सम्बन्ध्यन्तरमनपेक्ष्यैव पर्यवसिते स्वार्थाभिधाने, अर्थापेक्षया प्रतीत- स्यापि सम्बन्ध्यन्तरस्याशब्दत्वेनान्वयात्पर्यवसितव्यापारस्यापि शब्दस्यैव सम्बन्ध्यन्तरा- पेक्षाकल्पनायामभावशब्देन सहैकार्थलक्षणम्, व्यपेक्षालक्षणं वा सामर्थ्यं न सम्भवतीत्य- भिप्रायेण परिहरति—नैतदिति । सम्बन्धिशब्देषु हि सम्बन्ध्यन्तरापेक्षां विना शब्दप्रवृत्त्यसम्भवाच्छब्दप्रवृत्तिनिमित्तत्वेन सम्बन्ध्यन्तरापेक्षा सम्भवति । इह तु तदभावाच्छब्दकृतापेक्षातोऽपेक्षान्तरेणार्थंकृतेन लिङ्ग- शब्दस्य नित्यशब्देन सह सङ्गतेर्नैतल्लिङ्गशब्दस्य नित्यशब्दसापेक्षत्वम् । अनेन गुरुशब्दस्य देवदत्तशब्दसापेक्षत्वेन तुल्यमित्यर्थः । एतदेवोत्तरार्थत्वेन तूपपादितं लिङ्गत्वं चेन्नित्यत्वमेव प्रति सत्तां लभते यथा भार्या त्वं पतिमेव प्रति, न स्त्री त्वमिव सर्वसाधारणं ततो लिङ्गशब्दः स्वार्थस्य लिङ्गशब्दस्य नित्यापेक्षां विनात्मलाभायोगात्तदपेक्षेत, न त्वेतदस्ति । तथा हि । नित्यशब्दोऽयं नियताभिप्रायो वा स्यात्, तद्धर्मनियतत्वाभिप्रायो वा । तत्राग्न्यादिनियामकमेव प्रतिधूमादेर्लिङ्गत्वदर्शनान्नियतापेक्षा तावदनाशङ्कनीयैव । नियत- त्वेन तु विना यद्यपि लिङ्गत्वं नास्ति, तथापि नियतत्वप्रतियोगिकत्वाभावान्न तत्प्रत्येव लिङ्गत्वस्य सत्ता । साधारणसत्तानिबन्धनापेक्षिकत्वाभावेन तत्प्रतिपादकस्य लिङ्गशब्दस्य स्वार्थाभिधानकाले नित्यशब्दप्रतिपाद्यार्थान्तरापेक्षा निरस्ता । तत्पर्यवसितस्वार्थाभिधान- व्यापारस्यार्थान्तरान्वयसिद्धेर्व्यापारान्तरापत्तेः सामर्थ्यविघात इत्याशयः ।

४७८ मीमांसादर्शनम् [ सू० दृष्टान्तं तावद्वैधर्म्यपरत्वेन व्याचष्टे—गुरुशब्दस्य हीति । गुरुशब्दार्थस्य गर्भाधा- नादिपूर्वकवेदाध्यापनस्य शिष्यापेक्षात्मकलाभत्वमुपचाराच्छब्देऽभिहितम्, देवदत्तशब्देन षष्ठ्यन्तेनोपात्तो यः शिष्यसम्बन्धः, सोऽनतिरेकेण स्वार्थसत्तालाभादनाधिक्येनान्तर्णीतो यस्य गुरुशब्दस्य स्वार्थः, स तथोक्तः तस्य भावस्तत्त्वम् । ननु लिङ्गत्वस्यापि गुरुत्व- वत्सर्वान्प्रत्यसत्त्वेनासाधारणसत्तानिबन्धनापेक्षिकत्वसद्भावात्तद्वाचकस्य लिङ्गशब्दस्यापि गुरुशब्दवत्सम्बन्धिशब्देन नित्यसापेक्षत्वात्सामर्थ्याविघात इत्याशङ्क्य, अभ्युपगम्य ताव- त्सम्बन्धिशब्दत्वं लिङ्ग्यपेक्षया, न तु नित्यशब्दाथर्पापेक्षयेति परिहरति । ननु नित्यशब्दार्थनियतत्वं विना लिङ्गत्वायोगादस्त्येव तदपेक्षापीति कथमुच्यते ? लिङ्ग्यपेक्षयैव लिङ्गत्वं न नित्यापेक्षयेत्याशङ्क्याह—यद्यपि चेति । लिङ्गेनैव प्रति- लिङ्गत्वस्य सत्ता लिङ्गशब्दस्य सम्बन्धिशब्दत्वाय लिङ्गशब्देन विवक्षिता । न च नित्यत्वप्रतियोगिकी लिङ्गत्वस्य सत्ता प्रतीयते । यथा परिणयनं विना भार्यात्वाभावेऽपि न परिणयनं प्रति भार्यात्वस्य सत्ता, किं तु पतिमेव प्रतीत्याशयः । गम्यगमकयोनियम- लक्षणे सम्बन्धे सतीत्यर्थः । यद्वाक्षेप कस्यैवाक्षिप्यमाणेन नियतत्त्वादाक्षेप्याक्षेपकाभिप्रायौ गम्यगमकशब्दौ । यथा यद्यपि गुर्वादिशब्दः स्वसम्बन्धिना विना प्रवर्त्तंते तथापि शिष्यादिसम्बन्धापेक्षाकृतगुर्वादि- शब्दप्रवृत्तिनिमित्ता गुर्वादिशब्दस्य सम्बन्धिशब्दत्वप्रसिद्धिः, तथाऽस्य लिङ्गशब्दस्य न नियमलक्षणसम्बन्धापेक्षाकृतशब्दप्रवृत्तिनिमित्ता सम्बन्धिशब्दत्वप्रसिद्धिरित्यर्थः । ननु सम्बन्धिशब्दत्वाभावेऽपि यौगिकत्वाद्यथा लिङ्गिशब्दस्य शब्दप्रवृत्तिनिमित्तभूतयोगसिद्धयर्थं प्रतियोगिलिङ्गापेक्षा, तथा लिङ्गशब्दस्यापि यौगिकत्वाच्छब्दप्रवृत्तिनिमित्तभूतयोगा- पेक्षेति, तयोर्योगश्च सम्बन्धः । स च लिङ्गत्वौपयिको नियमरूप एवेति नित्यशब्दवाच्य- नियमापेक्षासिद्धेः सामर्थ्ये विघात इत्याशङ्कयाह—लिङ्गीति । अयमाशयः यद्यप्यवय- वयोगेन प्रवृत्ते रुभयोर्यौगिकत्वं तुल्यम् , तथापि लिङ्गिशब्दस्य तद्धितान्तत्वात्प्रातिपदि- काच्च तद्धितोत्पत्तेः प्रातिपदिकार्थलिङ्गापेक्षा, लिङ्गशब्दस्य तु कृदन्तत्वात्तस्य च धातो- रुत्पत्तेर्द्धात्वर्थलिङ्गेन क्रियायोगनिमित्तवाच्छब्दप्रवृत्तिनिमित्तभूतस्य योगस्य प्रतिसम्ब- न्धिधात्वर्थमात्रेण सिद्धेर्नान्यापेक्षेति ॥ ननु लिङ्गशब्दस्य सम्बन्धिशब्दत्वाभावाल्लिङ्गि- योगनिमित्तत्वाभावाच्च लिङ्गिनो लिङ्गनपेक्षणे लिङ्गदर्शनमित्यमियुक्तप्रयोगो नोपपद्यत इत्याशङ्कयाह—लिङ्गत इति । सम्बन्धिशब्दानां गुर्वादीनां समुदायशक्त्यैवाध्यापनादि- क्रियाजन्याद् व्याव्याचवच्छिन्नाध्यापयित्रादिगतातिशयवाचित्वादवयवार्थयोगनिमित्तप्रवृत्ति- त्वलक्षणयौगिकत्वानुपपत्तिलिङ्गेन क्रियायोगनिमित्तत्वेन यौगिकस्य लिङ्गशब्दस्य सम्ब- न्धिशब्दत्वासम्भवेऽपि, ज्ञानाख्याया लिङ्गनक्रियाया ज्ञेयलिङ्गिनिरूपणाधीननिरूपणत्वा- च्छब्दप्रवृत्तिनिमित्तभूतयोगप्रतिसम्बन्धिज्ञानापरपर्यायलिङ्गनाख्यधात्वर्थनिरूपणाय ज्ञेय- लिङ्ग्यपेक्षा सदास्तीति सामर्थ्याविघात इत्याशयः । सम्बन्धिशब्दवच्च वाच्यासाधारण्य- निबन्धनापेक्षा नितरां प्रतिसम्बन्धिधात्वर्थनिरूपणवेलायामेव नित्यं तदपेक्षा, नान्यदेति सूचयितुं काममित्युक्तम् । अपिशब्देन क्लेशः सूचितः ।

१३ ] प्रथमाध्याये तृतीयपादः ४७९ नन्वेवं सति नित्यशब्दाभिधेयस्य नियमलक्षणसम्बन्धस्यापि लिङ्गनक्रियासिद्ध्युप- योगित्वेन तत्कारकतया लिङ्गेनैव नित्यमपेक्षणात्तत्सापेक्षत्वेऽपि सामर्थ्यविघातः स्यादित्या- शङ्क्याह—नित्यत्वं पुनरिति । नियमाधीनत्वेऽपि लिङ्गनक्रियायास्तदधीननिरूपणत्वा- भावान्नित्यत्वनिरपेक्षेणैव लिङ्गशब्देन स्वार्थे लिङ्गलब्धे लिङ्गत्वस्य नियतत्वं विनाऽनुप- पत्तेरर्थेन स्वसिद्धयर्थं नित्यत्वमपेक्षितम्, न शब्देनेत्यर्थः । लब्धेन स्वार्थेन लिङ्गेना- पेक्षितमिति विग्रहः । नन्वेवं र्तहि शब्दस्य नैरपेक्ष्यात्सामर्थ्यस्याविघातः स्यादित्या- शङ्क्याह—तद्धर्मतयेति । विगृहीतया षष्ठ्या लिङ्गधर्मतया नित्यत्वं लिङ्गस्य समर्थ्यते, लिङ्गेनान्वीयते इत्यन्वयसिद्धयर्थं लिङ्गस्य नित्यत्वे—सम्बन्धापेक्षायामित्युक्तम् । तस्मा- द्भाष्यकृतोऽपि कर्तृविशेषणम्, अधिकारिविशेषणं वा नित्यशब्दोऽभिमतो, न लिङ्गविशे- षणमित्याह—तस्मादिति । उभयत्रापि सूत्रं योजयति—नियतस्येति । तस्मादित्यप- संहारभाष्यं व्याचष्टे—इतीति ॥ १३ ॥ भा० प्र०—कल्पसूत्रों के अपौरुषेय न होने का कारण निर्देश करते हुए द्वितीय सूत्र की अवतारणा की गई है। कल्पसूत्र अपौरुषेय नहीं है, क्योंकि वेद में विधिवाक्य रहने पर उनकी निन्दा और स्तुति के सूचक वाक्यशेष अर्थात् अर्थवाद वाक्य उपलब्ध होते हैं, किन्तु, कल्पसूत्रों में विधिवाक्य रहने पर भी, उनके कोई अर्थवाद वाक्य उपलब्ध नहीं होते हैं। कल्पसूत्रों में "आर्षेयान् यूनोऽनूचानाम् ऋत्विजो वृणीते सोमेन यक्ष्यमाणः" (शाङ्खायन श्रौ० सू० ५।१।१) 'वृता यजन्ति', "अथोत्तरं देवयजनमध्यवस्यन्ति" (शा० श्रौ० सू० १५।१४।१) इत्यादि विधिवाक्यों में विधि के बोधक लिङ्लकार का प्रयोग न होकर, क्रिया के बोधक लट्लकार का प्रयोग उपलब्ध हो रहा है। प्रकृत में लट्लकार का प्रयोग है और विधि की स्तुति करने वाला वाक्यशेष भी नहीं है। अतः, कल्पसूत्र अपौरुषेय नहीं है, अतः वेद के समान इनका प्रामाण्य नहीं है। यदि यह कहा जाय कि वेद में जिस प्रकार "यजति" आदि विधिबोधक लेट्लकार का प्रयोग है, वैसे ही प्रकृत में भी विधिबोधक पञ्चम लेट्लकार का प्रयोग है, किन्तु यह नहीं माना जा सकता है, क्योंकि, केवल संहिता और ब्राह्मण में ही लट् के समान आकार लेट्लकार का प्रयोग स्वीकार किया गया है, अन्यत्र नहीं। इसी लिए कहा है—"एषु पञ्चमो लकारश्छन्दोमात्रगोचरः"। कल्पसूत्र न तो मन्त्र है और न ब्राह्मण है। अतः, यहाँ लेट्लकार नहीं माना जा सकता है। 'षडङ्गमेके' इसके आधार पर कल्पसूत्र आदि को भी अपौरुषेय माना है, किन्तु, यह सभी के द्वारा समर्थित सिद्धान्त नहीं है, अतः अनादरणीय है। "अवाक्यशेषात् च" = वाक्यशेष अर्थात् अर्थवाद वाक्यों की उपलब्धि न होने से कल्पसूत्रादि अपौरुषेय नहीं है। वार्तिककार इन्हीं तर्कों के आधार पर कहा है कि जिन युक्तियों के आधार पर वेद की अपौरुषेयता सिद्ध होती है, उन्हीं युक्तियों के आधार पर स्मृतियां एवं कल्पसूत्र

४८० मीमांसादर्शनम् [ सू० आदि अपौरुषेय नहीं हो सकते हैं, वरन् कर्ता का स्मरण आदि के आधार पर इनको पौरुषेय मानना उचित है ॥ १३ ॥ यच्चोक्तं सत्यवाचा मेतानि वचनानीति । तन्न सर्वत्र च प्रयोगात्सन्निधानशास्त्राच्च ॥ १४ ॥ शा० भा-आचार्यवचनं हि भवति 'पूर्वपक्षे२ सर्वासु तिथिष्वमावास्या' इति । संनिहितं च शास्त्रं 'पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममा३- वस्यया यजेत' इति । तेन श्रुतिविरुद्धवचनान्न सत्यवाचः । तस्मादप्रमा- णम् ॥ १४ ॥ इति । षष्ठं कल्पसूत्राधिकरणम् ॥ भा० वि०-यत्पुनः संवादिवचनत्वं कल्पसूत्रकारवचनानामुक्तं तदनुवदति-- यच्चोक्तमिति । क्वचिद्विसंवादस्यापि दर्शनान्नायं नियम इत्याह-तन्नेति । एतदेव सूत्रेणोपपादयितुमादत्ते-सर्वत्र चेति । कल्पकारदिवचननिदर्शनार्थतया 'सर्वत्र च प्रयुक्तत्वात्' इतिभागं व्याचष्टे-आचार्यवचनमति । पूर्वपक्षे शुक्लपक्षे तदनेन शुक्लपक्षे कृष्णपक्षे च सर्वत्र तिथिष्वमावास्या पौर्ण- मास्याख्यस्य कर्मणः कल्पसूत्रकारैः प्रयुक्तत्वाद्विहितत्वादिति सूत्रं व्याख्यातम्, इदानीं तद्वचनस्य विसंवादप्रदर्शनार्थं "सन्निधानशास्त्राच्च" इति व्याचष्टे- सन्निहितं चेति । सन्निहितत्वं प्रत्यक्षत्वं तत्प्रत्ययश्चायं कर्मणीत्यनेन दर्शितम्, तेन सर्वासु तिथिषु अमावास्यादिकर्मविधायकस्य कल्पादिवचनस्यामावास्यादि- कालविशेषविधायिना प्रत्यक्षवचनेन विरोध इति भावः । विरोधफलमाह- तेनेति । विसंवाददर्शनफलमाह-तस्मादिति । न स्वत एव कल्पादिवचनं प्रमाणम्, किन्तु श्रुतिमूलतयेत्यर्थः ॥ १४ ॥ त० वा०-वेदादेवानृतत्वं च तद्वाचामवगम्यते । विसंवादो हि भूयिष्ठस्तन्न्यायेन च दृश्यते ॥ ६३३ सर्वत्र च प्रयुक्तत्वादित्यनेन निदर्श्यते । सन्निधानाच्च शास्त्रस्य विसंवादः स्फुटः स्फुटः ॥ ६३४ तत्र यद् वृत्तिकारेणोदाहरणं 'पार्वणस्थालीपाकविषयगृह्यकारवचनश्रवणाद् दर्शपूर्णमासचरककल्पसूत्रकारवचनाध्यारोपेण दत्तम्, तदत्यन्ताध्यारोपाभिभवाभि- प्रायप्रयुक्तमित्यनादृतम् । गृह्यकारवचनं ह्येतदक्षतहोमे तावदासायमाहुतेः प्रात- राहुतिर्नात्येति, आप्रातराहुतेः सायमाहुतिरिति अतश्च यथैवैतदग्निहोत्रविषय- १. ब प्रयुक्तत्वात् । २. ब सर्वासर्वासु । ३. ब ममायायतेन ।

सूत्रों में उपलब्ध इन वचनों के आधार पर पौर्णमासी से पूर्व तक आमावस्या मानी

१४ ] प्रथमाध्याये तृतीयपादः ४८१ त्वेन न कल्प्यते, तथैवैतदपि आपौर्णमास्या अमावास्या नात्येति। आमावा- स्यायाः पौर्णमासीत्येतदपि दर्शपूर्णमासविषयं न कल्पनीयमिति । तस्मादन्यदु- दाहार्यम् ॥ १४ ॥ (इति षष्ठं कल्पसूत्राधिकरणम् ॥ ६ ॥) भा० प्र०-प्रत्यक्ष पठित श्रुतियों के साथ कल्पसूत्रों के उपदिष्ट पदार्थों का विरोध होने से कल्पसूत्र को अपौरुषेय नहीं माना जा सकता है। जैसे-कल्पसूत्रकार के मत में सभी तिथियों में दर्शयाग किया जा सकता है। पूर्व सूत्र की व्याख्या में भाष्यकार ने कहा है कि आचार्य का वचन प्रमाण है। (आचार्यवचः प्रमाणम्) आचार्य के प्रति छात्रों का आदर भाव होना चाहिए क्योंकि विनय सम्पन्न को ही गुरु के लिए छात्र बनाने का नियम है। "पौर्णमास्यां पौर्णमास्या यजेत; अमावास्यायाममावस्यया" अर्थात् पौर्णमासी तिथि में पूर्णमास याग को एवं अमावस्या तिथि में अमावश्या=दर्शयाग करें-इस प्रत्यक्ष श्रुति का विरोध है। कल्प सूत्रों में उपलब्ध इन वचनों के आधार पर पौर्णमासी से पूर्व तक आमावस्या मानी गई है-पौर्णमासेन हविषाऽपरपक्षमभियजेत । स यत्र क्व च पुराऽमावस्यया यजते स्वस्थाने यज इति विद्यात् । आमावस्येन पूर्वंपक्षम् । स यत्र क्व च पुरा पौर्णमास्या यजेत स्वस्थाने यज इति विद्यात् । (निदा० सू० २।५) अमावास्यस्य कालात् पौर्णमासस्य कालो नातीयाद् आपोर्णमासादामावस्यस्य (बौधा० श्रौ० सू० २८।१२) आमावास्यायाः पौर्णमासं नात्येति, आपौर्णमास्या आमावास्यम् । (गो० गृ० २।९।१३) इसी प्रकार कल्पसूत्रकार ने कहा है कि सभी हवि के लिए उपस्थापित द्रव्यों में अग्नि के द्वारा संस्कार विशेष अर्थात् पर्यग्निकरण करना चाहिए। किन्तु श्रुति में पुरोडाश का ही पर्यग्निकरण आवश्यक माना गया है-यही उपदिष्ट है। अतः कल्पसूत्र अपौरुषेय न होने के कारण स्वतः प्रमाण नहीं है। श्रुतिमूलकता=वेदमूलकता ही कल्पसूत्र आदि के प्रामाण्य का साधन है, अतः प्रत्यक्ष उपलब्ध श्रुतियों के साथ वेद कल्पसूत्र का विरोध होने पर विरुद्ध कल्पसूत्रादि के विषय की समर्थक श्रुति (वेदवाक्य) जब तक उपलब्ध नहीं होगी तब तक उस स्थल में अनुष्ठापकत्व रूप अप्रामाण्य ही रहेगा । "सर्वत्र"=कल्पसूत्रों में सभी तिथियों में, 'च'=एवम् "प्रयोगात्" = दर्शयाग के अनुष्ठान का अभिधान होने से, "सन्निधानशास्त्रात् च"=सन्निहित शास्त्र अर्थात् प्रत्यक्ष श्रुति कह रही है कि अमावस्या तिथि में दर्शयाग करना चाहिए, अतः आचार्य का वचन प्रमाण नहीं है। ६१

४८२ मीमांसादर्शनम् [ सू० मीमांसक जी ने भाष्यकार के स्वतः प्रमाण और परतः प्रमाण के विचार परक इस अधिकरण को अपौरुषेय एवं पौरुषेय के रूप के कुमारिल के विचार की आलोचना की है । किन्तु, अपौरुषेयत्व ही स्वतः—प्रमाण्य का सूचक है । अतः शब्द का परिवर्तन अर्थ परिवर्तन का साधन नहीं हो सकता है ॥ १४ ॥ [७] अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥१५॥ पू० शा० भा०—अनुमानात् स्मृतेराचाराणां च प्रामाण्यमिष्यते। येनैव हेतुना ते प्रमाणम्, तेनैव१ व्यवस्थिताः प्रामाण्यमर्हन्ति । तस्माद्२ होलकादिः प्राच्यैरेव कर्त्तव्याः, आह्लीनैबुकाद३यो दाक्षिणात्यैरेव । उद्वृषभयज्ञादय उदीच्यैरेव । यथा शिखाकल्पो व्यवतिष्ठते । केचित् त्रिशिखाः, केचित् पञ्चशिखा इति । पूर्वपक्षः ॥ १५ ॥ भा० वि०—एवं श्रुतिमूलत्वेन स्मृत्याचारयोः प्रामाण्यं व्यवस्थाप्य, संप्रति स्मृत्याचारविशेषाणां व्यवस्थाया दर्शनात् किं तन्मूलभूतापि श्रुतिर्व्यवस्थित- विषया, किं वा मूलश्रुतेरव्यवस्थितविषयाया एव संभवात् तन्मूलानामपि स्मृत्यादीनामव्यवस्थितत्वमेवेति विचार्यत इति विषयसंशयसङ्गतयः । प्रयोजनं तु विचारस्य—होलाकादीनां शक्तमात्रपुरुषानुष्ठेयत्वसिद्धिः । सूत्रं व्याकुर्वन् पूर्वपक्षमाह—अनुमानादित्यादिना । अनुमीयतेऽनेनेत्यनुमानं=लिङ्गं अनुमापकत्वेन हि स्मृतेर्गौतमादिप्रणीतायाः, आचाराणां च होलकादीनां प्रामाण्यं मूलश्रुतिं प्रति त्वयोच्यत इत्यर्थः । ततः किमित्यत आह—येनैवेति । येनैवान्यथानुपपत्तिलक्षणेन हेतुना ते स्मृत्यादयो मूलश्रुतिं प्रति प्रमाणम्, तेनैव हेतुना व्यवस्थितामेव मूल- भूतां श्रुतिं प्रति ते प्रामाण्यमर्हन्ति, कुतः स्वयं व्यवस्थिता ? यत इति संबन्धः । यथा लिङ्गिनमन्तरेण लिङ्गस्यानुपपत्त्या लिङ्ग्यनुमीयते, तथा व्यवस्थितलिङ्ग- दर्शनान्यथानुपपत्त्या तादृश एव लिङ्गी युक्तोऽनुमातुमित्याशयः, तदनेनानुमापकस्य व्यवस्थितधर्मनिष्ठत्वात् तेनानुमीयमानमपि प्रमाणं तत्संयुक्तं धर्मिविशेषविषय- मेव स्यादिति सूत्रं योजितम् । मूलश्रुतेः व्यवस्थितविषयत्वे फलितमाह— तस्मादिति । होलाकादिशब्दाः देशाचारविशेषविषयाः । स्मृत्याचाराणां नियत- कर्तृविषयश्रुतिकल्पत्वे दृष्टान्तमाह—यथेति । कल्पः=कल्पनपूरणमिति यावत् । व्यवस्थितमेव दर्शयति—केचिदिति । यथा व्यवस्थितत्रिशिखत्वादिदर्शनात् व्यवस्थितविषयैव मूलश्रुतिः कल्प्यते, तद्वदत्रापीत्यर्थः ॥ १५ ॥ १. व. हेतुव्यवस्थिता एव । २. ब. तद्धोलाकादयः । क. तस्माद् होलाकादयः । ३. ब. नैबुका दाक्षिणात्यै ।

१५ ] प्रथमाध्याये तृतीयपादः ४८३ सप्तमं होलाकाधिकरणम् त० वा०—देशधर्मानुदाहृत्य संप्रत्येतद्विचार्यते । किं व्यवस्थितमूलास्ते किं वैषां सर्वधर्मता ॥ ६३५ विध्यर्थप्रतिषेधार्थाः क्रियावर्जनचिह्निताः । इह सर्व उदाहार्या विचार्याश्च विभागशः ॥ ६३६ प्राच्या याननुतिष्ठन्ति वर्जयन्ति च साधवः । तेषामेवोपदिष्टास्ते सर्वेषां वेति चिन्त्यते ॥ ६३७ एवं ये दाक्षिणात्यानां प्रतीच्यानां च केचन । उदीच्यानां तथाऽऽचारा विचार्याः सर्व एव ते ॥ ६३८ गृह्यसूत्रादीनामध्ययनेऽपि अयं प्रवर्तनीयः आद्यं सूत्रद्वयं यावदिदमप्यत्र चिन्त्यताम् । गृह्यगौतमसूत्रादिव्यवस्था-सर्वगामिते ॥ ६३९ पुराणमानवेतिहासव्यतिरिक्तगौतम-वसिष्ठ-शङ्ख-लिखित-हारीतापस्तम्बबौ- धायनादिप्रणीतधर्मशास्त्राणाम्, गृह्यग्रन्थानां च प्रातिशाख्यलक्षणव्रतप्रतिचरणं पाठव्यवस्थोपलभ्यते । तद्यथा-गौतमीयगोलीये छन्दोगैरेव च परिगृहीते । वासिष्ठं बह्वृचैरेव, शङ्खलिखितोक्तं च वाजसनेयिभिः । आपस्तम्बबौधायनीये तैत्ति- रीयैरेव प्रतिपन्ने इत्येवम् । तत्र तत्र गृह्यव्यवस्थाभ्युपगमादि दर्शयित्वा विचारयितव्यम् किं तानि तेषामेव प्रमाणानि, उत सर्वाणि सर्वेषामिति । किं तावत्प्रतिपत्तव्यं व्यवस्थैवेति पाठतः । न ह्यन्यत्र स्थिताल्लिङ्गाल्लिङ्ग्यन्यत्रानुमीयते ॥ ६४० अनुमीयतेऽनेनेत्यनुमानं लिङ्गमेवोच्यते । तच्च व्यवस्थितं दृष्ट्वा लिङ्गी तत्रैव गम्यताम् । विधिर्वा प्रतिषेधो वा न हि सोऽन्यत्र लिङ्ग्यते ॥ ६४१ तत्र ग्रन्थात्मकात्, आचारात्मकाद्वा लिङ्गाल्लिङ्गिनौ विधिप्रतिषेधावनुमीय- मानौ तद्विषयावेवानुमातुं शक्येते, नान्यगतौ । कुतः ? अन्यवेश्मस्थिताद्धूमान्न वेश्मान्तरमग्निमत् । प्रमीयते न चादृष्टधूमैरिति हि निश्चितम् ॥ ६४२ यथोपनयनं येषामाधानं च विधीयते । तेषामेवाग्निहोत्रादिविधिरप्यवगम्यते ॥ ६४३

४८४ मीमांसादर्शनम् [ सू० यथा च जातिं-तद्द्भेदकुलधर्मा व्यवस्थिताः । तथैव देशधर्मादिव्यवस्थाऽपि भविष्यति ॥ ६४४ यदि स्यात्सर्वगामित्वं विधानप्रतिषेधयोः । आचारोऽपि तथैव स्याद् व्यवस्थाहेत्वसम्भवात् ॥ ६४५ सर्वविषयशास्त्रप्रणीतो ह्याचारः सर्वदेशगतशक्तिमत्पुरुषैरग्निहोत्रवदेवा- नुष्ठीयेत । यस्तु तं विनियोगेन कुरुते तद् व्यवस्थितम् । तेन नूनं श्रुतिः काऽपि तेषामेवं विधायिका ॥ ६४६ अन्यथानुपपत्त्या च श्रुतिरत्र प्रतीयते । तन्मात्रानुपपत्त्या च सा तत्रैवाऽवधार्यते ॥ ६४७ यस्मादयं देशाचारः, अयं वा गृह्यादिग्रन्थोऽन्यथा नोपपद्यते, यदि श्रुति- मूलकत्वं नास्तीत्यनयोपपत्त्या मूलकल्पना । तस्माद् व्यवस्थितविषयैव साऽध्यव- सातव्या । तथा चोक्तम्-( यदि च हेतुरवतिष्ठेत निर्देशादिति १-२-३० ) । यद्यन्नकरणं हेतुः शूर्पहोमे विधीयते । तन्मात्रगतमेवासौ दृष्टान्तमपि कल्पयेत् ॥ ६४८ यदन्नकरणं शूर्पं तेन तेनैव हूयते । ततश्चातिप्रसङ्गः स्यान्न दर्विपिठरादिषु ॥ ६४९ एवं व्यवस्थितान् दृष्ट्वा देशाचारान् समन्ततः । तन्मात्रविषया युक्ता तन्मूलश्रुतिकल्पना ॥ ६५० अनुमानव्यवस्थानाद्देशादिनियमादतः । तत्संयुक्तं प्रमाणं स्याद्यद्वाक्यमनुमीयते ॥ १५ ॥ ६५१ भा० प्र० -- धर्मसूत्र और गृह्यसूत्र एवं देशाचार के विषय में प्रामाण्य के निर्णय की दृष्टि से इस अधिकरण की अवतरणा की गयी है—इसको देशाचारों में श्रुतिकल्पना- धिकरण या होलाकाधिकरण कहा जा जाता है । सामवेदी गौतम धर्मसूत्र एवं गोभिल- गृह्यसूत्र, बह्वृच=ऋग्वेदी वशिष्ठस्मृति, वाजसनेयी=शुक्ल यजुर्वेदी आपस्तम्ब और बौधायनप्रणीत स्मृति के अनुसार अपना आचार-व्यवहार करते हैं । इसी प्रकार पूर्व देशों में रहने वाले होलाका=होली करते हैं, दाक्षिणात्य के आचार के अनुसार आह्ली- नैवुक=करञ्ज, अर्क आदिवृक्षरूप स्थावर देवता की पूजा करते हैं । करञ्जादिपूजनात्मक- माह्लीनैवुकमिति । (मीमांसाकौस्तुभ १।३।१५) “स्वस्वकुलागतं करञ्जादिस्थावरदेवता पूजनमाह्लीनैवुकशब्देनोच्यते" 'मीमांसान्यायमालाविस्तरे' । आचार्य उदयन ने कहा

१५ ] प्रथमाध्याये तृतीयपादः ४८५ है कि गोबर के द्वारा निर्मित प्रतिमा का दुर्वा आदि से पूजाकर उसके साथ बन्धुत्व की कल्पना ही आह्लीनैवुक है—यह कतिपय व्यक्तियों का मत है । अन्य आचार्यों की दृष्टि में मङ्गलवार को दही के मन्थन को आह्लीनैवुक कहा जाता है । कतिपय आचार्यों ने प्रतिदिन एक मुट्ठी चावल को एक महीने तक पात्र में डालकर उससे घी में एक पूआ बनाकर देवता के पूजन को आह्नीनैवुक माना है (गोमयमयीं देवतां दूर्वादिभिरभ्यर्च्य ज्ञातित्व- कल्पनमाह्लीनैवुकमित्येके मङ्गलवारे दधिमन्थनमित्यन्ये । प्रतिदिनं तण्डुलमुष्टिं मासमेकं भाण्डे निक्षिप्य घृतेन तेनापूपकं देवतापूजनमित्यपरे) [न्यायतात्पर्यपरिशुद्धि पृ० २९२] इस अवसर पर 'उद्वृषभयज्ञ' आदि उदोच्य=उत्तरदेश में रहने वालों के लिए अनुष्ठान के योग्य है। उत्तरापथ में रहने वाले व्यक्ति ज्येष्ठमास की पूर्णिमा को अनेक वृषमोंका पूजन कर उनकी दौड़ कराते हैं—इसी को उद्वृषभ कहा जाता है। राजस्थान, बिहार आदि स्थानों में दिवाली के बाद गोवर्धन की पूजा के दिन यह प्रचलित है। सम्प्रति इसकी छाया मात्र गोपों एवं ब्राह्मणों के द्वारा सुरक्षित है। कृषक गण बैलों को खिला पिलाकर इस दिन पूजा करते हैं। अनेक रङ्गों से इनकी सींग रंगी जाती है तथा पूजा की जाती है । (ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुद्वृषभयज्ञ इति ।) [न्यायमालाविस्तर १।३।१९] इसी प्रकार शिखाकर्म में भी कोई एक शिख कोई दो शिख आदि । इन शिष्टाचारों या कुलाचारों से श्रुति का अनुमान किया जाता है। मूलभूत श्रुतियों ने ही इस प्रकार विशेष-विशेष स्थानों में विशेष-विशेष सम्प्रदायों के द्वारा अनुष्ठेय को कर्तव्य मानकर उपदेश किया है । आचार के द्वारा जब श्रुति का अनुमान किया जाता है, आचार ही जब श्रुति के अनुमान के लिए साधन है=हेतु है। ऐसी स्थिति में अनुमेय श्रुति हेतुविशिष्ट होगी, क्योंकि, जहाँ हेतु रहता है, वहाँ साध्य रहता ही है—यही नियम है। जैसे जहाँ धूम रहेगा उस स्थान विशेष में साध्य वह्नि रहेगी, वहाँ वह्नि का अनुमान होगा। इस प्रकार ये आचार विशेष-विशेष स्थान में वहाँ के व्यक्तियों के लिए ही कर्तव्य है—वह अन्य स्थान के व्यक्तियों के लिए कर्तव्य नहीं है। इसी लिए सामवेदी आदि के लिए ही गौतमादि स्मृति के आचार मान्य होंगे अन्य व्यक्तियों के किए मान्य नहीं होंगे। इसी प्रकार होलाकादि आचार पूर्व देशीय से अतिरिक्त के लिए कर्तव्य नहीं है। क्योंकि, मूलभूत श्रुति में इस प्रकार की विधि ही उचित है। जैसे—राजसूय यज्ञ क्षत्रियों के लिए ही कर्तव्य है, एवं वैश्य स्तोम वैश्य के लिए ही अनुष्ठेय है—यह पूर्व पक्ष है। “अनुमानव्यवस्थानात्”=जिसके द्वारा अनुमित होता है अर्थात् स्मृति और श्रुति के साधन या कारण स्वरूप शिष्ट जनों के द्वारा स्वीकृत देशाचार की व्यव्स्था या नियम होने से “प्रमाणम्”=आचार का मूलभूत अनुमित श्रुतिरूप प्रमाण” तत्संयुक्त=देश

४८६ मीमांसादर्शनम् [ सू० आदि सम्बद्ध, स्यात् = होगा । क्योंकि, देश विशेष से आबद्ध शिष्टाचार के द्वारा ही उसके मूलभूत श्रुतिरूप प्रमाण का अनुमान होता है, इस लिए वह प्रमाण स्वरूप श्रुति भी देश सम्बद्ध ही होगी अर्थात् विशेष-विशेष आचार उस विशेष देश के लिए ही कर्तव्य होगा, अन्यत्र के लिए नहीं ॥ १५ ॥ अपि वा सर्वधर्मः स्यात् तन्न्यायत्वाद्विधानस्य ॥१६॥ सि० शा० भा०—अपि वेति पक्षव्यावृत्तिः । एवंजातीयकः सर्वधर्मः स्यात् । कुतः ? तन्न्यायत्वाद् विधानस्य । विधीयतेऽनेनेति विधानं शब्दः । सोऽनु मीयते स्मृत्या । न च तस्याकृतिवचनता न्याय्या, न च व्यक्तिवचनता । न च सर्वेषामनुष्ठातृणां यदेकं सामान्यम्, तस्य वाचकः कश्चिच्छब्दोऽस्ति, योऽनु- मीयते । तस्मात् सर्वधर्मता विधेर्न्याय्या । कुतः ? पदार्था कर्तव्या इति प्रमाणमस्ति, व्यवस्थायां तु न किञ्चित्प्रमाणमस्ति ॥ १६ ॥ अथ¹ यदुक्तं यथा शिखाकल्पो व्यवतिष्ठत² इति । भा० वि०—एवं छन्दोगवह्वृचादिपरिगृहीतगौतमवसिष्ठादिस्मृतिविहितानां तान् प्रत्येव धर्मत्वं प्राच्याद्यनुष्ठीयमानहोलाकाद्याचाराणां तान्प्रत्येवेति व्यवस्थितत्वे धर्माणां प्राप्ते सिद्धान्तमाह—अपि वेति । व्यवस्थितत्वपक्ष- व्यावृत्त्यर्थमाह—अपि वेति । होलाकादिः सर्वधर्मः स्यादिति सिद्धान्तप्रतिज्ञां विवृणोति—एवं जातीयक इति । ननु व्यवस्थितलिङ्गदर्शनेन तथाविधलिङ्गानुमानात् तदधीनं धर्मत्वमपि व्यवस्थितमेव न्याय्यमिति शङ्कते—कुत इति । व्यवस्थितलिङ्गदर्शनेन ह्यनु- मीयमाना श्रुतिर्व्यवस्थितकर्तृविशेषणवाच्युपपद्युक्तैवानुमातव्या, न च तत्संभव- तीति वक्तुं सूत्रावयवमवतारयति—तन्न्यायत्वादिति । तस्य सर्वधर्मत्वस्य न्यायो यस्मिन् विधान इति व्यधिकरणबहुव्रीहिः, तन्न्यायत्वं विधानस्य दर्शयितुं विधानशब्दार्थं तावदाह—विधीयत इति । विधीयतेऽनुष्ठीयतेऽंशत्रय- विशिष्टा भावनानेनेति वाच्यं विधानशब्दार्थ इत्यर्थः । ततः किमित्याशङ्क्य तन्न्यायत्वं दर्शयति—सोऽनुमीयत इति । स्मृत्याचारेण वेत्यर्थः, तथापि कथं सर्वधर्मत्वसाधकन्यायोपेतत्वं विधानस्येत्याशङ्क्य असति कर्तृविशेषोपादने विधिनेव सर्वधर्मत्वसिद्धेः विशेषणस्य चाकृत्यादिरूपस्यासंभवादित्याह—न तस्येति । विधानान्तर्गततया प्रकृतस्योपपदस्य तस्येति परामर्शः, व्यक्तिवचनत्वे त्वेकपुरुषव्यक्त्यधिकारमेव होलाकादीति व्यक्त्यन्तरस्याननुष्ठानप्रसङ्ग इति भावः । १. ब. अथ यथा शिखा । २. क. व्यवतिष्ठते ।

१६ ] प्रथमाध्याये तृतीयपादः ४८७ नन्वस्तु ब्राह्मणत्वाद्याकृतिवाचित्वमुपपद्येति तत्राह-न चेति । सर्वेषा- मनुष्ठातृणामिति । अनुष्ठातृणामेव तेषां च सर्वेषामित्यर्थः ब्राह्मणत्वादीनां चातथाभावादिति भावः । अधिकारवाच्युपपदाभावे फलितमाह-तस्मादिति । विधेरिति । निरुपपदविध्यनुमानादित्यर्थः, यद्येवं सर्वधर्मत्वं कथं तर्हि व्यवस्थाया अनुष्ठानमिति चोदयति-कुत इति । परिहरति-पदार्था इति । सर्वधर्मतायां प्रमाणसद्भावाद् व्यवस्थितौ तदभावाच्चालस्यं भ्रान्तिर्वानुष्ठानव्यवस्थाकारण- मित्यर्थः । ननु कथं व्यवस्थितौ प्रमाणभावः ? शिखाकल्पादिवदाचारादिव्यवस्थायापि व्यवस्थितमूलश्रुत्यनुमानादित्युकमनुवदति-अथेति ।। १६ ।। सिद्धान्तः त० वा०--अपि वा सर्वधर्मः स्यादित्यत्रोत्तरमुच्यते । तन्न्यायत्वाद्विधानस्य शक्तगात्राधिकारिणः ॥ ६५२ इह स्मृतीराचारांश्चोपलभ्य मूलश्रुतिष्वनुमीयमानासु कारणानुविधायिकार्य- न्यायेनावश्यमुप लभ्यमानकार्यानुरूपकारणानुमानैर्भवितव्यमिति, भावनानाम- विशेषव्यवच्छिन्नयागदानहोमोपवासादिधात्वर्थविशेषस्वर्गादिफलकारकेतिकर्तव्य - ताविषयस्तावदनुमातव्याः । एवं वर्जनीयेष्वपि देहेन्द्रियमनोद्वारव्यवहारेषु प्रतिषेध्य- क्रियाकारकं नरकाद्यनिष्टफलप्रतिषेधक शब्दानुमानमवश्यंभावि । तावता च योग्यत्वमात्रविषयत्वान्न दिग्देशपरिच्छिन्न कर्तृविशेषाधिकारनियतप्रतिपत्तिलाभः । कुतः--त्रिधैव ज्ञायते कर्ता विशेषेण प्रतिक्रियम् । योग्यत्वाप्रतिषिद्धत्वविशेषोपपदान्वयैः ॥ ६५३ तदिह विहितानुष्ठानयोग्यता तावत्समस्तार्यावर्तनिवासिवर्णाश्रमाणा मन्धव- धिरजडमूकादिवर्जमविशिष्टा । वर्जनीययोग्यत्वमपि यथोपलभ्यमानं द्वित्रिचतुर्वर्णा- श्रममात्रसम्बद्धं वा तदभ्यधिकदर्शनानुमितसमस्तम्लेच्छादिविषयं वा विज्ञायते । न त्वत्रोपपदं किञ्चिद्यथाचारानुसारि यत् । अनुमीयेत देशस्थदृष्टकर्तृविशेषणम् ॥ ६५४ येऽपि च प्रतिषिध्येरन्देशान्तरनिवासिनः । तद्वाच्यपि पदं किञ्चिदनुमातुं न शक्यते ॥ ६५५ योग्यत्वेनाविशेषप्रवृत्तोऽप्यधिकारः केनचित्कर्तृविशेषणपदेन राजा राजसूयेन, वैश्यो वैश्यस्तोमेनेत्यादिवद्विशेष्येत । न चात्र दृश्यमानाचरितृवाचि किंचिदेक- मनेकं सम्भावयितुं शक्यम् ।

कुतः—सर्वं नामपदं तावद्व्यक्त्याकृतिनिबन्धनम् । यद्यदेवानुमीयेत नैकार्थमपि तद्भवेत् ॥ ६५६ न तावत्प्राच्यत्वदाक्षिणात्यत्वादिजातिः प्रतीच्योदीच्यादिव्यक्तिव्यावृत्ता सर्वप्राच्यादिव्यक्तिष्वनुगता काचिदुपपद्यते । यद्वचनमुपपदं होलाकाद्यधिकारं विशिष्यात् । यास्तु मनुष्यत्व-ब्राह्मणत्वादिजातयः तेषु विद्यन्ते, ताः सर्वदेशवासि- व्यक्तिष्वविशिष्टा इति, नाऽऽचारानुरूपविशेषणसमर्थत्वेन ज्ञायन्ते । व्यक्तिवाचि तु यन्नाम तदेकत्रैव वर्तते । देवदत्तादिवत्तेन न सिध्येत् कर्तृनैकता ॥ ६५७ न ह्यनन्तभेदानां प्राच्यादिपुरुषव्यक्तीनां व्यस्तसमस्तानां सम्बन्धानुभवा- सम्भवादेकमभिधानमवकल्पते । एतेन गुणक्रियाजातिविशिष्टपुरुषव्यक्तिवचनत्वं प्रत्युक्तम् । न हि काश्चिदपि गुणक्रियाजातिव्यक्तयः प्रतिदेशव्यवस्थितपुरुषव्यक्त्युपलक्षणयोग्याः संभाव्यन्ते । सर्वत्र तत्रापि व्यावृत्त्यविशेषात्१ । व्यक्त्याकृतिविनिर्मुक्तः पदार्थो न च विद्यते । यमाश्रित्य प्रवृत्तं स्यादधिकारिविशेषणम् ॥ ६५८ कस्यचिन्मतस्योपन्यासः एतदेव प्रतिपादयन् भाष्यकार आह । शक्तमात्रपुरुषाधिकारप्रवृत्तविधान- विशेषणं येनोपपदेनानुमीयमानेन क्रियते ‘न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनते’ति । न ह्येते होलाकाद्याः कांचिदाकृतिमनुविधीयन्ते, न व्यक्तिम् । न हि यावत्सु पुरुषेष्वेतेऽवस्थिताः तावतामेकेनापि व्यपदेशेनोपसंग्रहः संभवति । केषांचित्तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति ग्रन्थस्तेषामभिप्रायः । यथैव ‘जातिं तु बादरायणोऽविशेषात् ६-१-८’ इति सूत्रकारः स्वर्गकामपदं यौगिकमप्युद्दिश्यमानपुंस्त्वविशेषणासंभवात्फलार्थिमात्रमनुष्यजातिविषयोपपत्तेश्च सामर्थ्याक्षिप्तजातिमात्राधिकारं वक्ष्यति । तथेहापि फलार्थित्वकर्तृशक्त्यावबोधनात् । देशधर्मेषु सर्वेषु नरजातेरधिक्रिया ॥ ६५९ कश्चित्पुनराख्यातशब्दार्थमुपवर्णयन्निमं ग्रन्थपाठं दूषयित्वा, अपूर्वमेव समर्थ- यमानः सूत्रगतयावच्छ्रुतविधानशब्दजनितभ्रान्तिर्विधिभावनयोश्च भेदमपश्यन्तु- १ क. व्यावृत्तेरिति पाठः ॥

१६ ] प्रथमाध्याये तृतीयपादः ४८९ भयस्वरूपनिरूपणपर्य्यनुयोगत्रासाद्भावार्थाधिकरणसिद्धान्तं विनाशयन्नेवमाह भाव इति वाऽनाख्येयः स्वधर्मेणान्यदतः शब्दज्ञानात्कारकवदिति । तेन यः कश्चिदा- ख्यातप्रत्ययार्थतत्त्वं जिज्ञासमानः पृच्छति ? कः पुनरयं भावः भावना चेति ? तं प्रत्यनन्यशब्दाख्येयत्वात् केवलप्रत्ययप्रयोगदर्शनाभावाच्च सर्वधात्वर्थ- सामान्यवचनकरोतिपरलिङाद्युच्चारणमात्रेणैवोत्तरं दास्यते कुर्याच्छब्द इत्यर्थः । सर्वश्चाऽऽख्यायमानोऽर्थ आकृतिरूपेण वाऽऽख्यायेत व्यक्तिरूपेण वा । व्यक्त्या- कृतिगोचरातिक्रान्तिश्च किलाऽऽख्यातशब्देनोपायरहितत्वादनाख्येयोऽस्यार्थ इति । तदेव किलानेनापि ग्रन्थेनोक्तं भाष्यकारेण न तस्याऽऽकृतिवचनता न्याय्या, न व्यक्तिवचनतेति । विधानशब्दो हि सूत्रे पूर्वं प्रकृतः तमेव तच्छब्देन निर्दिश्य व्यक्त्याकृतिवचनत्वादपनयति । कुर्यादित्युरुयमानो हि करोमीति प्रपद्यते । न विधेर्भावनाया वा सामान्यव्यक्तिरूपताम् ॥ ६६० तन्निराकरणम् तदिदमसंबद्धमेवानुपपत्तिकं च श्रुतिसामान्यमात्रेणान्यार्थमेव सचतुःशृ- ङ्गादिमन्त्रवद्भाष्यकाराभिप्रेतार्थत्यागेन स्वप्रज्ञाविलसितं प्रकाशयताऽन्यस्मिन्ने- वार्थे योजितम् । देशाचारसर्वधर्मोपपत्तिविचारणार्थोऽयं ग्रन्थः । स यदि पूर्वकृतया व्याख्ययोपपदनिराकरणविषयत्वेन वर्ण्यते, तत एतत्सूत्रव्याख्यानेन न संबध्यते यथोक्तन्यायमार्गेण । यदि तु तत्परित्यागेनाऽऽख्यातप्रत्ययार्थानामना- ख्येयत्वापत्तिमेव व्यक्त्याकृतिरहितार्थत्वेन वर्ण्येत् ततोऽत्यन्तासंबन्धानुपयुज्य- माननिरुपपत्तिकार्थत्वेन हेय एव स्यात् । तथा हि-यस्मादाख्यातशब्दस्य न व्यक्त्याकृतिवाचिता । तस्मात्तद्विहितं कर्म सर्वार्थमिति विस्मयः ॥ ६६१ यदि नाम लिङादिप्रत्ययो भावनाया विधेर्वा व्यक्तिमाकृतिं वा वदेत् ततो होलाकादयः प्रतिनियतदेशधर्माणो भवेयुः । यतस्तु व्यक्त्याकृतिविनिर्मुक्तोऽव्यपदे- श्योऽर्थः तस्मात्तद्विहितधात्वर्थविषयः सर्वपुरुषधर्म इत्येवं नीयमानमसंबद्धोदाहरणे ज्येष्ठमेव स्यात् । अनाख्येयत्वमुक्त्वा च पर्यायैः स्वविकल्पितैः । अन्वाख्यानं कृतं तच्च पूर्वोक्तेन विरुध्यते ॥ ६६२ विध्युपदेशकत्र्तव्यताभावनाशब्दानां ह्यत्यन्ताभूतमेव बहुभाषित्वाख्यापना- परपर्य्यायत्वमध्यारोप्यऽऽचक्षाणेन स्वयमनाख्येयत्वमतीव स्थापितम् ।