मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 525, कुल 804 में से
संदर्भ में पढ़ें१२ ] प्रथमाध्याये तृतीयपादः ४७१ सम्बोधनेऽपि । संस्कृतशब्दस्थाने च ककारद्वयसंयोगः, अनुस्वारलोपः, ऋवर्णा- कारापत्तिमात्रमेव प्राकृतापभ्रंशेषु दृष्टम्, न डकारापत्तिरपि । सोऽयं संस्कृता धर्मा इत्यस्य सर्वकालं स्वयमेव प्रतिषिद्धोऽपि विनाशः कृत इत्यसाधुशब्दनिबन्धन- त्वादित्यन्तेन हेतुना वेदत्वाकृतकशास्त्रान्तरशङ्कानिवृत्तिः । यासांश्चाकृतको विनष्टः शब्दराशिः, तस्य व्याकरणमेवैकमुपलक्षणम्, तदुपलक्षितरूपाणि च । असन्नियमादित्यस्य त्रेधा व्याख्यानम् वेदे यथोपलभ्यन्ते नैवं शाक्यादिभाषिते । प्रयोगनियमाभवादतोऽप्यस्य न शास्त्रता ॥ ६०२ असन्नियमादिति१ च व्याकरणोक्तनियमाभावादित्यर्थः । क्षणिकत्वनिराकृतनित्यसिद्धानित्यत्वात्यन्ताविद्यमानग्रन्थनियमाभ्युपगमाभि- प्रायेण वाऽसन्नियमादित्युक्तम्२ । असतां वा क्षणभङ्गशून्यवादानानात्मकत्वादीनाम्, असद्धेतुभिर्वा प्रतिपादननि- यमात्तदेककर्तृकधर्मवचनानामप्यप्रामाण्यम् । कर्तृस्मरणदार्ढ्याच्च नैषामकृतता मता । तेनाकृतकगम्येऽर्थे स्वातन्त्र्यान्न प्रमाणता ॥ ६०३ एवं समस्तवेदाङ्गधर्मशास्त्रेष्वपीदृशात् । कर्तृस्मृतिदृढिम्नः स्यान्न स्वातन्त्र्येण शास्त्रता ॥ ६०४ एतेन कल्पसूत्राणां स्वातन्त्र्येण प्रामाण्यनिरासः अनेन कल्पसूत्राणां प्रत्याख्याता स्वतन्त्रता । कर्तृस्मृत्या दृढं ज्ञाता तेषामप्यसतां क्रिया ॥ ६०५ येन न्यायेन वेदानां साधिताऽनादिता पुरा । दृढकर्तृस्मृतेस्तस्य कल्पसूत्रेषु बाधनम् ॥ ६०६ यथैव हि कल्पसूत्रग्रन्थानितराङ्गस्मृतिनिबन्धनानि चाध्येतृध्यापयितारः स्मरन्ति, तथाऽऽश्वलायनबौधायनापस्तम्बकात्यायनप्रभृतीन्३ ग्रन्थकारत्वेन । ततश्च प्रागवस्थायामसतामेव बन्धनात् । कुतः प्रयोगशास्त्रत्वं वेदवद्वेदतैव वा ॥ ६०७ न चैषां समाख्यामात्रबलादेव कर्तृत्वमुच्यते । येन आख्यां प्रवचनादि (१-१-२९) त्युत्तरमुच्यते । पुरुषपरम्परयैव हि स्मृतेषु कर्तृषु समाख्याऽभ्युच्चयहेतुत्वेन ज्ञायते । यथा च कठादिचरणैरनादिभिः प्रोच्यमानानामनादिवेदशाखानामनादिसमाख्या- १ क. असंनियमा । २ क. संनियमा । ३ अ. कात्याय ।