मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 547, कुल 804 में से
संदर्भ में पढ़ें१८ ] प्रथमाध्याये तृतीयपादः ४९३ मेषां लिङ्गम्। यद्यथादर्शनमनुवर्तते । येऽपि श्यामा बृहन्तो लोहिताक्षास्तेऽपि न सर्व आह्नीनैबुकादीन् कुर्वते । अनेवंलिङ्गा अपि चानुतिष्ठन्ति । तस्मान्न व्यवस्था । शुक्लो होतेति प्रत्यक्षा श्रुतिः ॥ १८ ॥ भा० वि०—स्वपक्षस्थापनस्य परपक्षबीजनिरासस्य च कृतत्वादुत्तरसूत्रा- नर्थक्यमाशङ्क्याह—इदमिति । पदानि-शङ्कापदानि । तेभ्य उत्तरमूर्ध्वमुपरिष्टा- दित्यर्थः, केभ्यश्चिदित्यनास्थाममृष्यन्नाह—कानीति । शङ्कावाक्यं विशदयति— अथेति । यद्यप्याकृत्यादीनां कर्तृविशेषणानामसंभवः, तथापि शुक्लत्वलोहिता- क्षत्वश्यामत्वादीनां कर्तृलिङ्गभूतानां विशेषणानां व्यवस्थितानां संभवात् तद्वा- च्युपपदयुक्तया श्रुत्या विशेषविनियोगः स्यादिति भावः । सूत्रं योजयन्नुत्तरमाह— नास्ति तन्नित्यमिति । यल्लिङ्गं येषां होलाकादिधर्मदर्शनम्, तेष्वनुवर्तेत ततोऽ- न्येभ्यो निवर्तेत च तन्नित्यं नियतं किमपि न संभवतीत्यर्थः, अनेन च नित्यस्य नियतस्य व्यवस्थितस्य कर्तुर्यल्लिङ्गं तन्नियतं तस्याभावादिति सूत्रं योजितम् । ननु वर्णसंस्थानादिलिङ्गसंभवो दर्शितः तत्राह—येऽपीति । अन्वयव्यभि- चारमुक्त्वा व्यतिरेकव्यभिचारमाह—अनेवं लिङ्ग इति । तेन वर्णाश्रम- व्यवस्थितत्वात्तद्वाच्योपपद्युक्तविधानश्रुतिप्यव्यवस्थेति निगमयति -- तस्मा- दिति ॥ १८ ॥ त० वा०--व्यक्ताकृत्यभिधेयेऽर्थे प्रत्याख्याये विशेषणे । लोहिताक्षादिचिह्नानामधुनाऽन्या निराक्रिया ॥ ६६४ जातिव्यक्तिवाच्युपपदाभावेपि, कर्तृगतसंस्थानवर्णादिगुणविशेषोपलक्षणेन कृष्णकेशाधानवदधिकारनियमः सेत्स्यतीत्याशङ्क्य निराक्रियते— लिङ्गाभावाच्च नित्यस्य नास्ति कर्तुर्विशेषणम् । नियतेन हि लिङ्गेन नित्यः कर्तोपलक्ष्यते ॥ ६६५ यच्चिह्नं दाक्षिणात्यानां लोहिताक्षादि कल्प्यते । अन्येषामपि तद् दृष्टं तदनाचरतामपि ॥ ६६६ दृष्टमाचरणं चैतत्तच्चिह्नरहितेष्वपि । तस्माद्व्यवस्थितैश्चिह्नैर्नाधिकारो विशेष्यते ॥ ६६७ यस्तु लिङ्गविशेषणं नित्यशब्दं मन्यते, तस्योपसर्जनीभूतलिङ्गसापेक्षत्वाद- समर्थसमासप्रसङ्गः । ननु लिङ्गशब्दस्य नित्यसापेक्षत्वात्स्वार्थाक्षिप्तसंबन्ध्यन्त- रत्वेन सामर्थ्यविधाताभावाद्भवितव्यमेवेह समासेन, देवदत्तस्य गुरुकुलमिति यथा ।