मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 583, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५२९ न च स्थलवदारम्भो वर्णैः शब्दस्य कस्यचित् । येन तत्संस्कृतिः सिध्येत्स हि पूर्वं निराकृतः ॥ ८०३ स्फोटगोशब्दताङ्गत्वप्रभृतौ पदकल्पना । गकारादिपदव्याख्याद्वारेणैव निराकृता ॥ ८०४ सर्ववर्णसमूहोऽपि न संस्कार्यः कथंचन । न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥ ८०५ अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे । संख्यामात्रस्य साधुत्वं तच्च स्यादितरेष्वपि ॥ ८०६ संस्क्रियेतानुपूर्वी चेच्छब्दधर्मो न सेष्यते । ग्रहणोच्चारणस्थत्वाद् गाव्यादिषु च संभवात् ॥ ८०७ ग्रहणोच्चारणे एव संस्कार्ये यदि मन्यसे । कर्मणः कर्मसाध्यत्वमुपरिष्टान्निषेत्स्यते ॥ ८०८ वक्ष्यति हि—कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति ३-१-१० । ताल्वादिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत् । वैद्योपदिष्टसंस्कारसंस्कार्यत्वावधारणात् ॥ ८०९ मनो वा पुरुषो वाऽथ संस्कारास्पदमीष्यते । शब्दानुशासनं शास्त्रमिति व्यर्थं तदा भवेत् ॥ ८१० शिष्यानुशासनत्वं हि शास्त्राणामुपपद्यते । शब्दस्याननुशास्यत्वाद्व्यर्थं तदनुशासनम् ॥ ८११ स्फोटशब्दे च संस्कारः सुतरां नोपपद्यते । स्फोटपक्षे संस्कारानुपपत्तिवर्णनम् असन्तौ तत्र हि स्यातां प्रकृतिप्रत्ययावपि ॥ ८१२ वाक्यस्फोटश्च यैरिष्टः सर्वावयववर्जितः । नामाख्यातादि¹ संस्कार्यं तेषां शशविषाणवत् ॥ ८१३ अपोद्धारेण संस्कारो यद्यत्राभ्युपगम्यते । शृङ्गं शशादपोद्धृत्य किं न संस्क्रियते मनाक् ॥ ८१४ अन्यावयवसारूप्यादपोद्धारो यदिष्यते । खरशृङ्गेण सारूप्याच्छशशृङ्गस्य किं न सः ॥ ८१५ १ क. नामाख्याता हि । ३४