मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
२४ ] प्रथमाध्याये तृतीयपादः ५२९ न च स्थलवदारम्भो वर्णैः शब्दस्य कस्यचित् । येन तत्संस्कृतिः सिध्येत्स हि पूर्वं निराकृतः ॥ ८०३ स्फोटगोशब्दताङ्गत्वप्रभृतौ पदकल्पना । गकारादिपदव्याख्याद्वारेणैव निराकृता ॥ ८०४ सर्ववर्णसमूहोऽपि न संस्कार्यः कथंचन । न तस्यार्थप्रयुक्तत्वमस्ति ह्यनभिधानतः ॥ ८०५ अथ त्रिचतुरा वर्णाः संस्क्रियन्ते पदे पदे । संख्यामात्रस्य साधुत्वं तच्च स्यादितरेष्वपि ॥ ८०६ संस्क्रियेतानुपूर्वी चेच्छब्दधर्मो न सेष्यते । ग्रहणोच्चारणस्थत्वाद् गाव्यादिषु च संभवात् ॥ ८०७ ग्रहणोच्चारणे एव संस्कार्ये यदि मन्यसे । कर्मणः कर्मसाध्यत्वमुपरिष्टान्निषेत्स्यते ॥ ८०८ वक्ष्यति हि—कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यादिति ३-१-१० । ताल्वादिश्रोत्रसंस्कारो न च व्याकरणाद्भवेत् । वैद्योपदिष्टसंस्कारसंस्कार्यत्वावधारणात् ॥ ८०९ मनो वा पुरुषो वाऽथ संस्कारास्पदमीष्यते । शब्दानुशासनं शास्त्रमिति व्यर्थं तदा भवेत् ॥ ८१० शिष्यानुशासनत्वं हि शास्त्राणामुपपद्यते । शब्दस्याननुशास्यत्वाद्व्यर्थं तदनुशासनम् ॥ ८११ स्फोटशब्दे च संस्कारः सुतरां नोपपद्यते । स्फोटपक्षे संस्कारानुपपत्तिवर्णनम् असन्तौ तत्र हि स्यातां प्रकृतिप्रत्ययावपि ॥ ८१२ वाक्यस्फोटश्च यैरिष्टः सर्वावयववर्जितः । नामाख्यातादि¹ संस्कार्यं तेषां शशविषाणवत् ॥ ८१३ अपोद्धारेण संस्कारो यद्यत्राभ्युपगम्यते । शृङ्गं शशादपोद्धृत्य किं न संस्क्रियते मनाक् ॥ ८१४ अन्यावयवसारूप्यादपोद्धारो यदिष्यते । खरशृङ्गेण सारूप्याच्छशशृङ्गस्य किं न सः ॥ ८१५ १ क. नामाख्याता हि । ३४
५३० मीमांसादर्शनम् [ सू० गवयादिषु नाङ्गानां सादृश्यं यन्निदर्शितम् । सत्यावयवसामान्यात्तदिहापीष्यते तथा ॥ ८१६ वाक्याधिकरणे चैतद्विस्तरेण निराकृतम् । तेनापोद्धारसंस्कारकल्पनाऽपि न युज्यते ॥ ८१७ अन्वाचक्षीत शास्त्रं चेच्छब्दान्सदपोद्धृतान् । एतेनैवाप्रमाणत्वमस्य माहेन्द्रजालवत् ॥ ८१८ अशिष्यत्वादशास्त्रत्वमेवं तावत्पदं प्रति । वाक्यानुशासनं नैव कृतं व्याकरणेन च ॥ ८१९ अर्थेन च प्रयुक्तानां शब्दानां संस्क्रियोदिता । वाक्यमेवंविधं चेष्टं न पदान्यर्थवर्जनात्१ ॥ ८२० ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ॥ ८२१ इति बहुप्रपञ्चमुक्तवा केवलस्य चाप्रयोगादर्थप्रयुक्तत्वं निराकृत्य वाक्या- न्वाख्यानार्थमेव व्याकरणमपि व्याख्यानं युक्तमासीत् तदनाश्रयणात्तु सूत्रवार्तिक- भाष्यकारवदेव पूर्वापरविरुद्धमभिदधानैष्टीकाकारैरपि सुतरां व्याकरणस्याप्रत्य- यितपुरुषप्रणीतत्वं दर्शितम् । अतो विगानभूयिष्ठाद्विरुद्धान्मूलवर्जितात् । निष्फलाच्च व्यवस्थानं शब्दानां नानुशासनात् ॥ ८२२ ततश्च—स्वाध्यायाध्ययनं मुक्त्वा तत्प्रयोगश्च कर्मसु । शेषशब्दप्रयोगेषु न व्यवस्थोपयुज्यते ॥ ८२३ तेन सर्वैभाषितव्यम्, सर्वे साधव इति । अत्रानुमानप्रयोगाः— गावीगोण्यादयः शब्दाः सर्वे गोत्वस्य वाचकाः । वृद्धैस्तत्र प्रयुक्तत्वाद् गौरुसेत्येवमादिवत् ॥ ८२४ एवं साधुत्वमेतेषां सर्वेषामर्थसाधनात् । श्रौत्रत्वान्नापशब्दत्वं पूर्वदृष्टान्तदर्शनात् ॥ ८२५ अनादित्वं च सर्वेषामवध्यनवधारणात् । वक्तुर्वक्तुः पुरो वृत्तेः शक्यं वक्तुं गवादिवत् ॥ ८२६ १ क. न्यर्थंवज्जनात् ।
२४ ] प्रथमाध्याये तृतीयपादः ५३१ साधुभिर्भाषिमाणानां नादृष्टफलसम्भवः । दृष्टार्थत्वाद्यथा धूमादग्निं देशेऽवगच्छताम् ॥ ८२७ अशास्त्रविहितत्वाच्च बुद्धशब्दाभिधानवत् । शास्त्रं नावेदरूपत्वात्प्राकृतव्याक्रियादिवत् ॥ ८२८ वेदमूलतयाऽप्यस्य प्रमाणत्वं न कल्पते । अवेदविषयार्थत्वान्नाटकादिनिबन्धनवत् ॥ ८२९ शास्त्राङ्गमपि नैवैतदातदर्थ्यात्कथादिवत् । अतादर्थ्यं विनाऽप्यस्माद्भेदेनार्थावबोधनात् ॥ ८३० न च शब्दप्रयोगाङ्गं सिद्धे तस्मिन्प्रवर्तनात् । यदीदृशमनङ्गं तद् दृष्टं नेत्रानुमानवत् ॥ ८३१ यथा हि चक्षुरादिग्रहणानपेक्षरूपादिविज्ञानसिद्धौ तज्जनितार्थापत्तिप्रभवं चक्षुराद्यनुमानमुपजातमपि न पूर्वज्ञानस्याङ्गम, एवं लोकवेदसिद्धशब्दप्रयोगोत्तर- कालप्रणीततया व्याकरणमप्यनङ्गम् । तस्मात्पर्यायशब्दत्वाद् गाव्यादेस्तरुवृक्षवत् । आचारेण प्रयोज्यत्वं न शास्त्रस्थैर्निवारितम् ॥ ७३२ ॥ २४ ॥ अथाष्टमव्याकरणाधिकरणम् ॥८॥ न्या० सु०—अत्र भाष्यकृता गोगाव्यादिशब्दानुदाहृत्य किमेते सर्वं एव सास्नादिमतोऽ- र्थस्य वाचकाः सन्तो वाक्यार्थे प्रमाणम्, उत एक एवेति । सास्नादिमतो वा पदार्थस्य कार्यायां वाक्यार्थप्रमायां कारणं किमेते सर्वं एव, उत एक एवेति सन्देहमुपन्यस्य प्रयोग- भेदेनाविरोधात्सर्वेषां व्रीहियवादिवद्विकल्पेन प्रामाण्योपपत्तेः, सिद्धान्ताभावेन सन्देहानुप- पत्तिमाशङ्क्य किमत्रैति भाष्येण शक्त्या विना शब्दस्यार्थप्रत्यायकत्वं सम्भवति, उत नेति सन्देहकारणमुक्त्वा सर्वं इत्यादिना भाष्येण पूर्वपक्षः कृतः । यववराहाधिकरणन्यायवर्णनम् तत्र यववराहाधिकरणे शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधस्योक्तत्वात् पूर्वपक्षानुप- पत्तिमाशङ्कयाह— एकस्मादिति । व्यवस्थितशास्त्रस्थप्रयोगबलेनाव्यवस्थितलौकिकप्रयोग- बाधमङ्गीकृत्य यवादिशब्दानां दीर्घशूकाद्यर्थनिर्धारणं यत्प्रतिपादितम्, तत् विकल्पदोष- भयादनेकादृष्टशक्तिकल्पनाप्रसङ्गाद् गौणमुख्यविभागाश्रयणाच्चेति योज्यम् । एतत्कारणत्रयो- पपादनायैकस्मादित्युक्तम् । यवैर्यजेतेत्येकस्माद्यवपदाद्दीर्घशूकैर्वा यष्टव्यम्, प्रियङ्गुभिर्वेत्य- नेकार्थप्रतीतेर्विकल्पोऽनेकक्तिकल्पना ह्येकस्य शब्दस्यापद्येत, एकस्मिंश्चार्थे शब्दस्य शक्तौ कॢप्तायां गौणत्वेनेतरत्र प्रयोगोपपत्तेननिकक्तिकल्पनं युक्तम् । इह तु गोशब्दश्रवणात्ततोऽ-
५३२ मीमांसादर्शनम् [ सू० र्थप्रतीतिर्गवीशब्दश्रवणे तस्मादिति व्यवस्थोपपत्तेर्न तावच्छ्रोतुर्विकल्पापत्तिः । वक्तुरप्यय- मेव शब्दः प्रयोज्य इति नियमाभावात्प्रसज्यमानोऽपीच्छया विकल्पेन दोषमावहति । यत्र च कारणात्कार्यदर्शनं तत्र शक्तेरस्तित्वं सम्प्रतीयत इति न्यायेन शक्तेः कारणाश्रितत्वेन शब्दसमवेतत्वात्तद्भेदे युक्त एव भेदो । गाव्यादीनां चार्थान्तरे मुख्यगौणाभावात्सास्नादि- मति गौणत्वायोगात् शब्दसादृश्यमात्रेण शब्दस्य शब्दान्तरार्थप्रत्यायकत्वे चालाशब्दस्यापि मालाशब्दार्थप्रत्यायकत्वापत्तेर्मुख्यत्वमवश्यं प्रतीयत इति वैषम्यम् । प्रियङ्गुदीर्घशूकयोश्चैक- पदोक्तयोर्विकल्पे तस्यैव यवपदस्य युगपदेकार्थापेक्षया प्रामाण्यम् अर्थान्तरापेक्षया चाप्रामा- ण्यमित्यत्यन्तविरोधं वक्तुम् - एकस्मादित्ययुक्तम् । केषांचिद्दीर्घशूकेषु प्रयोगः, अन्येषां प्रियङ्गुष्वित्यनेकार्थप्रतिभानकारणमुक्तम् । यववराहाधिकरणन्यायमुक्त्वा, तद्वैषम्यमत्रैव दर्शयन् पूर्वपक्षयति-यत्र पुनरित्या- दिना । 'साधुत्वेनावधार्यन्त' इत्यन्तेन तत्र सत्यप्येकविषयानेकशब्दत्वेऽर्थसाधनत्वात्साधुत्वे- नावधार्यन्त इति वक्ष्यमाणसाध्यालोचनेन शक्तिभेदोपपत्तेरविरोधादिति च पञ्चमीद्वयं योज्यम् । शब्दाश्रितत्वाच्छक्तेः, तद्भेदे शक्तिभेदौचित्यं समवायिशब्देनोक्तम् । अर्थविशेषा- वच्छिन्नशब्दाश्रितैकशक्तिकल्पनामात्रेणोभयनियमोपपत्तेरनवच्छिन्नशक्तिकल्पने वा शक्ति- द्वयकल्पनेऽप्यर्थस्य सर्वशब्दवाच्यत्वापत्तेः, शब्दस्य च सर्वार्थवाचकत्वापत्तेरर्थाश्रितशक्त्य- भावात् अर्थैक्येऽप्येकस्यानेकशक्तिकल्पनादोषो नास्तीत्याशयः । यवादिविधेश्च शास्त्रस्थ- प्रयोगेण दीर्घशूकादिविषयत्वावधारणान् तद्विरुद्धलौकिकप्रयोगावगतप्रियङ्गवादिविषयत्ववाचो- दाहृतगवादिशब्दप्रयोगमात्रेण गाव्यादिशब्दानामप्रयोगत्वावगमात्सर्वपर्यायप्रयोगा नियमा- च्चाविरोधान्न शास्त्रस्थप्रयोगेण लौकिकप्रयोगबाध इति शास्त्रस्थेत्यस्यार्थः । अस्यैव पूर्वपक्षहेतुद्वयस्य यववराहाधिकरणन्यायवैषम्यप्रतिपादनार्थत्वप्रदर्शनार्थं सत्यपि विरोधे शास्त्रस्य साध्वसाधुत्वप्रतिपादनव्यापाराभावाच्छास्त्रस्थप्रयोगस्य निर्मूल- त्वेन लौकिकप्रयोगाबाधकत्वादपि सर्वे साधुत्वेनावधार्यन्त इति उत्तरोपपत्तिर्वक्ष्यमाणसाध्य- व्यवधायकरूपेण पदपूर्वकंत्वाच्चेति स्वोपपादकोपन्यासपूर्वमुपन्यस्ता अनेन व्याकरणस्मृत्य- प्रामाण्येन पूर्वपक्षकरणाद्विचारस्य पादाध्यायसङ्गतिर्दर्शिता । अनन्तराधिकरणसङ्गतिस्त्वी- दृशसम्भवप्रतिपादनार्थमेव वेत्यत्र होलाकाधिकरणोक्तव्यक्त्याकृत्यादिवाच्युपदासम्भवोप- जीवनेनात्र पूर्वपक्षोत्थानात् वक्ष्यते व्याकरणशास्त्रव्यापारस्य पदपूर्वकत्वोपपादनार्थं वाक्यात्मकत्वं विशेषणम् । अनेन च व्याकरणशास्त्रस्य लोकप्रसिद्धपदप्रयोगादुत्पत्तेः । साध्वसाधुव्यवस्थायाः शास्त्रविषयत्वायोगादित्येवम्प्रयोगोत्पत्त्यशास्त्रत्वादिति सूत्रावयवो व्याख्यातः । लोकप्रसिद्धसाधुशब्दवशात् व्याकरणशास्त्रं प्रवर्त्तते तस्माच्च लौकिकशब्दानां साध्वसाधुत्वनिर्णयं इतीतरेतराश्रयोपपादनार्थम् - तथा हीत्युक्तम् । शब्दरूपपक्षासावर्थं श्चेत्येवं वस्तुवचनत्वेनार्थशब्दो व्याख्येयपदार्थज्ञानाय वा शब्दशास्त्रस्य पदरूपशब्दापेक्षाप्रदर्श- नार्थोऽर्थशब्दः । नन्वेवमप्यर्थप्रतिपादकत्वेन गोगाव्यादिशब्दानां लोके प्रसिद्धत्वात्साधुत्वम्, भेर्यादिशब्दानां त्वर्थप्रतिपादकत्वाप्रसिद्धेर साधुतेति व्यवस्थोपपत्तेः, शब्देषु न व्यवस्था
२४ ] प्रथमाध्याये तृतीयपादः ५३३ स्यादित्ययुक्तमित्याशङ्क्य-अत इत्युक्तम् । लोकप्रयुक्तेष्वेव गोगाव्यादिषु साध्वसाधुत्व- व्यवस्थानिरासार्थमेतदित्याशयः । नन्वेवं सत्याचारेण स्मृतिबाधः स्यात् स च पूर्वोक्तस्मृतिबलाबलीयस्त्वविरुद्ध इत्याशङ्क्य-वाक्यार्थेषु होत्युक्तम् । तत्र आचारानपेक्षायाः स्मृतेस्ततो बलीयस्त्वम् । इह तु स्मृतेराचारापेक्षत्वेन विपरीतबलाबलक्रमत्वाल्लोकादेव साध्वसाधुता निर्णतव्येत्याचारेण स्मृतिबाधो युक्त एवेत्याशयः । ननु लोकस्य सङ्कीर्णव्यवहारित्वात्साध्वसाधुत्वनिर्णायकत्वं न युक्तमित्याशङ्क्य-वाचकेत्युक्तम् । अर्थप्रत्यायको यो गोगाव्यादिशब्दः, स साधुः । अप्रत्यायको भेर्यादिशब्दश्चासाधुरिति व्यवस्था लोकसिद्धैवेत्यर्थः । ध्वनिमात्राणीत्यनेनैत- देव विवृतम् । मात्रिका वर्णसमाम्नायः । ननु वेदादिविद्यास्थानप्रयुक्तेष्वेव गवादिशब्देषु साधुत्वप्रसिद्धेर्गाव्यादिशब्देषु च तत्राप्रयुक्तेष्वसाधुत्वप्रसिद्धेर्लोके चैवंविधव्यवस्थोनु- पलब्धेः वतंतो निर्णयः संभवतीत्याशङ्का, साध्वसाधुशब्दयोरर्थप्रत्ययसाधनत्वासाधनत्वनि- मित्तत्वेन रूढित्वाभावाल्लोके च भेर्यादिशब्दानामप्रत्यायकत्वनिश्चयात् । गोगाव्यादिशब्दानां प्रत्यायकत्वनिश्चयात्सिद्धैव व्यवस्थेति-तेनेत्यादिनोक्तम् । अपशब्दत्वमप्यर्थं प्रत्ययानव- गमनिमित्तत्वाद्भेर्यादिशब्देष्वेव व्यवस्थितमित्यनर्थकत्वादित्यनेनोक्तम् । नन्वेकेनैवार्थ- प्रत्ययसिद्धेः कथमेकस्मिन्नर्थे अनेकेषां साधुतेत्याशङ्का गवादिदृष्टान्तेन निरस्ता । एवं वाचकशक्तिभेदोपपत्तिरविरोधादिति च पञ्चमीद्वयान्वयायैतावद्ग्रन्थतात्पर्यमेकवाक्यतया व्याख्यातम् । यद्वा तत्र वाचके शक्तिभेदोपपत्तिप्रतिरोधत्वं पर्यालोच्य यो निर्णयो भवति । सर्वेषां साधुत्वमित्येवंरूपः स्वीकार्यः । न तु शास्त्रस्थप्रयोगबलेन लौकिकप्रयोगबाधं पर्यालोच्येति ल्पब्लोपे पञ्चमीद्वयमङ्गीकृत्य पूर्वपक्षिकावगतनिर्णय शब्दानुषङ्गेण वैषम्य- प्रतिपादनार्थत्वेनाविरोधादित्यन्तं ग्रन्थं व्याख्याय, ननु वाचकशक्तिभेदोपपत्तौ शास्त्रस्थ- प्रयोगाविरोघे च सत्यपि व्याकरणशास्त्रेण गवादिशब्दानामेव साधुत्वान्वाख्यानेनेतरेषाम- साधुत्वप्रतिपादनाच्च तद्विरुद्धाचारबलेन सर्वेषां साधुत्वं युक्तमित्याशङ्क्यानराकरणार्थं- तयोत्तरग्रन्थो व्याख्येयः । अत्र भाष्यकृता 'सर्वं इति ब्रूम' इत्यनेन शब्देषु न व्यावस्था स्यादिति सूत्रावयवं सर्वशब्दानादित्वपूर्वकपक्षप्रतिज्ञानार्थत्वेन व्याख्याय, कुत इत्यादिनाथं प्रत्ययान्यथानुपत्त्या गाव्यादिशब्दानामपि सास्नादिमतार्थेन सह वाच्यवाचकसम्बन्धं प्रश्नपूर्वकमुपपाद्य, अशक्तिजत्वेनापभ्रंशत्वशङ्कामबाध्य स्मृत्या निराकृत्य, कर्तृस्मृत्या च सामायिकत्वाशङ्कां सम्बन्धग्रन्थे निराकृतामुक्त्वा, .तस्मात्सर्वे साधवः इत्युपसंहृत्य सर्वेषा- मर्थवत्त्वात्सर्वैर्भाषितव्यमिति पूर्वपक्षप्रयोजनमुक्त्वा, तेन सर्वेषां दृष्टार्थसाधनत्वाविशेषेऽप्य- दृष्टार्थो गवादिशब्दनियमो भविष्यतीत्याशङ्कानिरासार्थत्वेन प्रयोगोत्पत्तेरुच्चारणनियमस्या- शास्त्रीयत्वादित्येवं प्रयोगोत्पत्त्याशास्त्रत्वादितिसूत्रावयवो व्याख्यातः । तत्र भाष्यातात्पर्य- विवेकर्थं दृष्टार्थत्वे साधनत्वाद गाव्यादिशब्दानामसाधुत्वासम्भवमुपपादितमुपसंहरति-
५३४ मीमांसादर्शनम् [ सू० ततश्चेति । न च दृष्टार्थसाधनत्वनिबन्धनत्वात् साधुशब्दस्य, गाव्यादिशब्दानां तदभावात्सा- ध्वसाधुव्यवस्था भविष्यतीत्याशङ्कते—अदृष्टेति । साध्वसाधुव्यवस्थेत्यर्थः । यद्वा श्रेयोरूपादृष्टसाधनत्वनिबन्धना साधुता प्रत्यवायरूपादृष्टसाधनत्वनिबन्धनाऽसा- साधुतेत्यर्थः । साधूनामेवादृष्टसाधनत्वम् अदृष्टसाधनत्वमेव वा साधुत्वमित्युभयथापि व्यवस्था वेदाधीना । न च सा वेदवाक्यैर्निदिष्टा । अदृष्टसाधनत्वं वान्यप्रमाणविषय एव न भवतीति निराकरोति—वेदवाक्यैरिति । न च दृष्टसाधनत्वस्य प्रमाणान्तराविषयत्वेऽपि तद्धेतुभूतयोः साध्वसाधुत्वयोः प्रमाणान्तरावगतयोर्वेदेनादृष्टसाधनत्वबोधो भविष्यतीत्याशङ्क्याह— प्रत्यक्षेण तावदिति । उपमानस्य सादृश्यमात्रविषयत्वेनानाशङ्कनीयत्वादर्थप्रत्ययान्यथानु- पपत्तेश्चार्थापत्त्या सर्वेषां वाचकत्वप्रतीतेर्व्यवस्थापकत्वस्य दूरनिरस्तत्वादनिराकरणम् । ननु प्रमाणान्तरासम्भवेऽपि वेदवाक्यं साधुत्वासाधुत्वाग्राहकं भविष्यतीत्याशङ्क्याह— वेदेति । साध्वसाधुत्वयोः शब्दान्तरजातिरूपत्वे वस्तुस्वरूपान्वाख्यानपरमेते साधवस्त्वन्य इत्येवं रूपं वाक्यं कल्प्यम् । धर्मान्तरत्वे साधुत्वगुणान्वाख्यानपरम् । असाधुत्वदोषान्वाख्या- नपरं तस्य च पुरुषार्थानुबन्धित्वाभावेनानर्थक्यापत्तेरध्ययनविधीनां तात्पर्यानवधारणा- त्प्रामाण्यं न युक्तमित्याशयः । आत्मस्वरूपप्रतिपादकानां तूपासनादिविध्यपेक्षितार्थामिधा नात्सरस्वतीविनशनादिना वाक्यानां सारस्वतसत्रादिकर्म्मविधेयोपयिकत्वानामानर्थक्या- पत्तिरिति वैषम्यसूचनार्थम्—विधीत्युक्तम् । अस्तु तर्हि विधिनिषेधरूपमेव वाक्यं साध्व- साधुत्वप्रतिपादकमित्याशङ्क्याह—न वेति । ननु माभूत्स्वरूपेण विधिनिषेधविषयत्वं ‘साधुभिरभिदध्यादसाधुर्मिन’ इत्यभिधानकरणत्वेन तु भविष्यतीत्याशङ्कते—अभिधेति । गोशब्देनाभिदध्यादश्वशब्देनाभिदध्यात्, गावीशब्देनाभिदध्यात्, न गोणीशब्देनाभिदध्यादि- त्यादिस्वरूपा प्रत्येकं वा विधिनिषेधा कल्प्यन्ते, ‘साधुरभिरभिदध्यादसाधुर्मिर्नेति द्वावेव वा । तत्रानन्त्यापत्तेराद्यं पक्षं तावद् दूषयति—नेति । कथं कल्पनानुपपत्तिरित्यपेक्षायां व्याकरणस्मृतिमूलत्वेन कल्प्यत्वादनन्तानां चाध्येतुमशक्यत्वादनुपपत्तिरित्याह—यो हीति । यो हि व्याकरणप्रणेता तद्गुणतया य एव पदानां प्रतिपत्तौ प्रतिपदं पाठ इति महाभाष्य- कारोक्तन्यायेन साधूनां प्रतिपदं पाठान्नाद्यव्यवस्यतीत्यर्थः । स एकैकस्य शब्दस्य गावीगोण्या- द्यनेकापशब्ददर्शनात्तेषां विशेषमाह—अपशब्दाश्चेति । कलञ्जादिवदिति वैधम्र्यदृष्टान्तं विवृणोति—व्रीह्यादीनि हीति । कलञ्जादिग्रहणेन तुल्यन्यायतया व्रीह्यादीनां विधेयत्व- सम्भवसूचनार्थं व्रीह्यादिग्रहणम् । अनन्तरोक्तव्यतिरेकमुखेन द्वितीयपक्षं निराकरोति— न त्विति । सर्वानुगतैकधर्म्ममात्रोपलक्षणार्थो जातिशब्दः । तत्र एकोपलक्षणत्वाभावेनैकविधिनिषेधविषयत्वासम्भवमुपादयति—न तावदिति । अयमाशयः—न तावच्छब्दत्वातिरिक्ता सर्वसाधुशब्दानुयायिन्यसाधुभ्यो व्यावृत्ता विलक्षण- काकारप्रत्ययवेद्यासाधुत्वजातिसाधुत्वजातिर्वा साधुशब्दानुगता साधुभ्यो व्यावृत्तोपलभ्यते, न वा अन्योऽपि कश्चिद्धर्म्मः साध्वसाधुशब्दाभिधेयः सम्भवति तथा हि न तावच्छब्दव्यति-
२४ ] प्रथमाध्याये तृतीयपादः ५३५ रिक्तस्येन्द्रियलिङ्गादेः शब्दस्यापि वा वक्तृज्ञानविवक्षाविषयप्रत्यायकत्वं साधुत्वं कस्य- चिदिष्टम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्वव्याप्तेः । न च शब्दस्य शक्त्यार्थप्रतिपादकत्वं साधुत्वं गङ्गायां घोषोऽग्निर्मांणवक इत्यादौ गङ्गाग्निशब्दयोस्तीरमाण- वकादिषु शक्त्यभावेऽपि तत्र साधुत्वप्रसिद्धार्थान्तरविषयशक्त्या अर्थान्तरविषयसाधुत्वाभ्युपगमे गोणीशब्दस्याप्यावपनविषयशक्तिसद्भावात् सास्नादिमति साधुत्वापत्तिः । देवदत्तादिशब्दानां च संस्कृतेनार्थप्रतिपादनम् । न च शब्दस्यार्थप्रत्यायकत्वं साधुत्वम्, गाव्यादिशब्देष्व- व्याप्तेः । न च शब्दस्य शक्त्या अर्थप्रतिपादकानां शक्त्यभावादसाधुत्वापत्तिः । स्नुषादि- शब्दानां पुत्रभार्यादिवाचिता पुत्राद्यनभिधाय तद्विशिष्टभार्याद्यभिधानशक्तेः पुत्रादौ शक्ति- सद्भावादसाधुत्वापत्तिः । अर्थविषयानादिप्रयोगत्वे तु साधुत्वलक्षणे गाव्यादिशब्दानामपि सास्नादिमदर्थविषयप्रयोगावध्यस्मरणानादित्वावगमात्साधुत्वमशक्यं निराकर्त्तुम्, स्वाभा- विकार्थपरत्वमपि प्रतीतिप्रयोगाविशेषाद् गवादिशब्दवद्गाव्यादिशब्देष्वपि तुल्यम् । लक्षणानु- गमोऽपि च सिद्धेऽनयानर्थक्यमाशङ्क्य चम्पतीत्यादिशब्देषु वृद्धप्रयुक्तत्वेनासाधुतयाऽभि- मतेषु भावान्न साधुत्वलक्षणमिति न कथंचित् साधुत्वं निरूपयितुं शक्यम् अनेनैव मार्गेणासाधुत्वमपि निराकार्यमिति । एतदेव विवृणोति—अविभक्ता हीति । अतश्चैको- पलक्षणाभावात्सामान्यरूपेण साध्वसाधूनां विधिनिषेधविषयत्वानुपपत्तेः । व्यक्तिरूपेण विधिनिषेधविषयत्वानुपपत्तेः । पूर्वोक्तमेव विधिनिषेधानन्त्यप्राप्तमित्युपसंहरति — तेनेति । ननूपलक्षणान्तरासम्भवेऽपि स्वाभाविकार्थपरत्वलक्षणसाधुत्वतद्विपर्ययलक्षणासाधुत्वोपल- क्षणयोगेन विधिनिषेधविषयत्वं भविष्यतीत्याशङ्क्याह — न चेति । अर्थप्रत्यायनोद्देशेन सर्वेषां प्रयोगदर्शनेनार्थप्रत्यायनार्थत्वावसायादर्थप्रत्यायनार्थत्वलक्षणस्य वाचकत्वस्या- व्यावर्तकत्वाद्विपर्ययलक्षणस्य वा वाचकत्वस्यासत्त्वान्नोपलक्षणत्वं सम्भवतीत्याशयः । ननु गाव्यादिशब्दाव्यावर्त्तकत्वेऽपि प्रसिद्धावाचकत्वाद्भैर्यादिशब्दव्यावर्त्तकत्वाद्ववाच- कत्वस्य विधेयशब्दोपलक्षणत्वोपपत्तेरवाचकत्वस्य निषेध्यभैर्यादिशब्दोपलक्षणतोपपत्तेस्तन्नि- बन्धनौ विधिनिषेधौ भविष्यत इत्याशङ्क्याह—वाचकैरिति । प्राप्ताप्राप्ततया विधिनिषेध- विषयत्वाभावे दृष्टान्तमाह—न हीति । द्रवद्रव्यमात्रोपलक्षणार्थमुदकग्रहणम् । ननु विधिनिषेधरूपश्रुतिमूलानपेक्षव्याकरणपरम्परामात्रेण साध्वसाधुविवेकसिद्धे विधि- निषेधनिराकरणमनर्थकं मूलश्रुत्यपेक्षायामपि वा साध्वनुशासनात्मकत्वेन व्याकरणस्य साधुविधिमात्रापेक्षत्वादसाधुनिषेधनिराकरणमनर्थकमित्याशङ्क्याह—अवश्यं चेति । निर्मूलत्वे अन्धपरम्परा न्यायापत्तेर्न साध्वसाधुविवेकसिद्धिरित्याशयः । साधुविधानेन, असाधुवर्जनसिद्धेर साधुनिषेधेन वा साधुप्रयोगसिद्धेरुभयानर्थक्यमाशङ्क्य--संयोगेत्युक्तम् । विधेयेष्टसंयोगो विधेः फलम्, निषेध्यानिष्टसंयोगो निषेधस्येत्यर्थः । ननु उपलक्षणमूलत्वे निषेधमूलसाध्वनुशासनं न युक्तमित्याशङ्क्याह—त्रिष्वपि चेति । साधूनामसाधुभ्योऽल्प- त्वाद्व्यवस्थितत्वाच्च सौकर्यम् । एतदेव विवृणोति—यदीति । यथा पञ्चनखानाम्मध्ये पञ्चैव शशादयो भक्ष्या इति नियमे कृते, ततोऽन्येषां श्वादीनामभक्ष्यत्वं गम्यते । तथा
५३६ मीमांसादर्शनम् [ सू०
गवादय एव साधव इति नियमे कृते अन्येषामसाधुत्वावगतिरित्यर्थः । एतदेवोपसंहरति— स एष इति । प्रासङ्गिकं व्याकरणस्य त्रिविधश्रुतिमूलत्वेऽपि साध्वनुशासनमात्रात्मकत्वस- म्भवमुपसंहृत्य प्रकृतं मूलश्रुत्यनुमानासम्भवमुपसंहरति—नन्विति । मूलासम्भवमेव द्रढयितुं व्यवस्थापकोपपदासम्भवं पूर्वाधिकरणोक्तमत्रापि योजयन्नाह—इदङ्गीति । एवमेकोपलक्षणासम्भवेन विधिनिषेधासम्भवमुक्त्वा, विधिविषयासम्भवादपि विध्य- सम्भवमाह—अथ प्राप्तश्चेति । अनेन च शब्दप्रयोगस्य लोकव्यवहारार्थत्वेनैवोत्पत्तेः सिद्धेरशास्त्रविषयत्वादित्येतत्सूत्रावयवो व्याख्यातः । नन्वत्र महावार्त्तिककारेण सिद्धे शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्म्मन्नियमो यथा लौकिकवैदिकेष्विति व्यवहारलक्षणेनैवार्थेन साध्वसाधुशब्दप्रयोगे आक्षिप्ते धर्म्मार्थं शास्त्रेण साधुनियमः क्रियते । यथा लोके क्षुत्प्रतीघातार्थे प्राप्ते भक्षणे भक्ष्याभक्ष्यनियमो वेदे वा पयोव्रतं ब्राह्मणस्येत्यादिवदिति नियम इति वदता समाधान- मुक्तमित्याशङ्कते--अथेति । धर्म्मजिज्ञासाप्रकृतत्वेन धर्म्मस्य नियम इति । षष्ठीविग्रहेऽपि सम्बन्धमात्रोत्पन्नायाः षष्ठ्यास्तादर्थ्यलक्षणविशेषनिष्ठत्वसन्दर्शनार्थं धर्मयेति चतुर्थ्यानिर्देशः । साधूनां नियमविषयत्वासम्भवेनैतन्निराकरोति—तदिति । नित्यप्राप्तस्य नियम- विषयत्वासम्भवे हेतुमाह—यस्य हीति । ननु गाव्यादिभ्योऽप्यर्थप्रत्ययसिद्धेस्तत्प्रसक्तौ गवादिशब्दस्य पाक्षिकत्वापत्तेर्गव्यादिनिवृत्त्यर्थो नियमो भविष्यतीत्याशङ्क्याह— यस्यापीति । गाव्यादिशब्दानां साध्वसाधुत्वपक्षद्वयेऽपि व्यावत्र्यत्वायोगादित्यशयः । एतदेवोपपादयितुं विकल्पयति कीदृशश्चेति । उभयत्र दोषमाह—यदीति । न च साधूनामप्यर्थप्रत्ययहेतुत्वादस्तिप्रसक्तिरित्याशङ्कयाह—यदि हीति । शब्दव्यापारसाध्यमर्थ- प्रतिपादनं भाषणम् । नार्थप्रतिपादनमात्रं शब्दस्य च मुख्यार्थे साक्षाद्व्यापारो गौणलाक्षणिकयोस्त्वभिधेयसाहचर्याविनाभावद्वारा । गाव्यादीनां तु कथञ्चिद्व्यापाराल्लाभान्न शब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे हेतुतास्तीत्याशयः । ननु साधूच्चारणायैव प्रवृत्तस्य प्रमादेन अशक्त्या वा प्रसज्यमानस्यासाधोर्निवृत्त्यर्थो नियमो भविष्यतीत्याशङ्कते—अथेति । प्रमादाशक्तिजानां दोषाणां परिहर्त्तुमशक्यत्वात्तन्नि- वारणमनर्थकमिति परिहरति—तदसदेति । नन्वव्यग्राणां शक्तानामपि च गाव्यादिशब्द- प्रयोगदर्शनादप्रयुक्ताभिधानमयुक्तमित्याशङ्कते—दृष्ट इति । मत्पक्षे गाव्यादिशब्दानामप्यर्थ- प्रतिपादने व्यापारसद्भावायुक्ता प्रसक्तिः । त्वत्पक्षे तु तेषां कथंचिद्व्यापाराभावान्न तावच्छब्दव्यापारसाध्यार्थप्रतिपादनात्मके भाषणे प्रसक्तिः । यथा कथंचिदर्थप्रतिपादने तु प्रसक्तस्य गाव्यादेर्निवृत्त्यर्थं नियमाभ्युपगमे अक्षिनिकोचादेरपि प्रसक्तेः, तन्निवृत्त्यर्थो नियमः कल्प्यः, ततश्च शब्दव्यतिरिक्तसर्वप्रमाणोच्छेदः स्यादित्यभिप्रायेण परिहरति— उच्यत इति । निवृत्त्यर्थत्वे च नियमत्वं व्याहन्येतेत्याह—न चेति । साध्वसाध्वोश्च द्वयोर्नित्यप्राप्त्यभावात्परिसंख्या युक्तेत्याह—नियमेति । 'किं चादृष्टार्थस्य यागादीष्टसिद्धयर्थं
२४ ] प्रथमाध्याये तृतीयपादः ५३७ पुरोडाशादिद्रव्यनियमः, तत्प्रकृतित्वादिनियमः । तदपेक्षितावघाताद्युपायनियमश्च युक्तः । शब्दप्रयोगस्य तु परप्रतिपत्त्यर्थत्वेन दृष्टार्थत्वाच्च तत्साधनसाधुनियमो युक्त इत्याह-न चेति । नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति शब्दप्रयोगस्य स्वर्गसाधनत्वावगमात्तदन्यथानुपपत्तिरस्त्येवापूर्वकल्पनायां प्रमाणमित्या- शङ्कयाह-परार्थत्वाच्चेति । ननु यथा दृष्टार्थस्यापि भोजनादेः 'आयुष्यं प्राङ्मुखो भुङ्क्त इत्यदृष्टार्थः' प्राङ्मुखत्व नियमः तथा दृष्टार्थस्यापि शब्दप्रयोगस्यादृष्टार्थः साधुनियमो भविष्यतीत्याशङ्कयाह- न चेदमिति । शब्दादीनां विषयाणां गोचरे समुदाये तन्मध्य इत्यर्थः । शब्दस्य तावन्नियम- जन्यादृष्टाश्रयत्वस्य सम्भवमुपपादयति-शब्दस्येति । कर्तृत्वेन परार्थस्यापि स्वर्गकामादेः कर्म्मफलभोक्तृत्वेन प्राधान्यस्यापि भावेनापूर्वाश्रयत्वदर्शनात्तद्वैषम्यप्रदर्शनार्थम्- अत्यन्तग्रहणम् । यत्पुनः परार्थस्याप्याहवनीयोद्देशसम्मार्गादिजन्यापूर्वाश्रयत्वप्रदर्शनात्- दृष्टार्थग्रहणम् । नन्वर्थस्य भाषणं प्रति प्राधान्यादपूर्वाश्रयत्वं भविष्यतीत्याशङ्कयाह-सत्यपि चेति । क्रत्वङ्गभूतानामप्यर्थानामर्थाक्षिप्तस्याभिधानस्यापि वैधत्वेन केवलदृष्टार्थत्वान्नापूर्वेणो- पयोगः इत्याशयः । ननु श्रोतुरुनुष्ठेयादृष्टार्थक्रियाफलभोक्तृत्वयोग्यताधानायाऽपूर्वपेक्षणात्तदाश्रयत्वं भविष्य- तीत्याशङ्कयाह-श्रोतुः पुनरिति । शब्दार्थविषययोस्तु श्रोतृबुद्ध्योः क्षणिकत्वान्नापूर्वा- श्रयत्वशङ्केत्याह-बुद्ध्योश्चेति । वक्तुरपि बुद्धिवद्गुणभूतत्वान्नापूर्वाश्रयतेत्याह-वक्त्रेति । ननु कामधुक्शब्देन शब्दप्रयोगस्य फलसाधनत्वावगमात्प्रयोक्तुः फलभाक्त्वात्प्राधान्यं भविष्यतीत्याशङ्कयाह-नेति । स्वर्गकामादिशब्दात्काम्योपयिकत्वावगतेस्तदनुरोधेन क्रिया- फलभाक्त्वावगतिः । इह तु साधुशब्दप्रयोगस्य फलसाधनत्वमात्रं प्रतीयते । तच्चार्थवाद- मात्रत्वेनोपपत्तेर्न प्रयोक्तुः फलभाक्त्वमाक्षिपतीत्याशयः । यदि वात्र वक्तुः कामधुगिति षष्ठी स्यात्, ततः सप्तदशवैश्यस्येत्यादिवत् षष्ठ्युक्तसम्बन्धसामान्यस्यापेक्षावशात्स्व- स्वामिलक्षणविशेषरूपत्वप्रतीतेः प्राधान्यं स्यात् त्वसावस्तीत्याह-न चेति । ननु यथा कमिपादाद्यभावेऽपि प्राङ्मुखोऽन्नानि भुञ्जीतेत्याख्याताक्षिप्तस्य भोक्तुर्गुणभूतस्य दिङ्नियमपूर्वाश्रयत्वम्, तथात्रापि साधुशब्दप्रयोगाक्षिप्तस्य प्रयोक्तुः साधुनियमपूर्वा- श्रयत्वं भविष्यतीत्याशङ्कयाह-यत्त्विति । कमिपादाद्यभावेऽपि भोजनं प्रति भोक्तुर्लोकादेव प्राधान्यावगतेरपूर्वाश्रयत्वं युक्तमिति भावः । अपूर्वाश्रयत्वमुच्चारणस्यानाशङ्क्यमेवेत्याह-स्वरूपेण पुनरिति । अतो विषयाभावाद व्यवस्थाभावाददृष्टार्थत्वाभावाच्च नियमानुपपत्तेस्साधुनियमार्थस्य व्याकरणस्य वेदमूलत्वा- योगाच्छास्त्रेण धर्म्मनियम इति यन्महावार्त्तिककारेणोक्तम् तद्युक्तमित्युपसंहरति-एवं चेति । अनेन च साधुशब्दप्रयोगाणामुत्पत्तिरस्मादिति व्युत्पत्त्या व्याकरणं प्रयोगोत्पत्ति- शब्देनाभिप्रेत्य तस्याः शास्त्रमूलत्वाच्छन्दव्यवस्थानियमो न प्रयोजनमिति सूत्रं योजितम् । ननु स्वयमेवैतस्य वेदवच्छास्त्रत्वं भविष्यतीत्याशङ्कयाह-न चेति । अत्रापि प्रयोगोत्पत्ते-
सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः ।
व्याकरणस्य शास्त्रत्वाभावादिति योज्यम्, साधितं चास्य स्वातन्त्र्यं कल्पसूत्राधिकरणे इत्याह—तदुक्तमिति । एतदेव विवृणोति—न हीति । यद्वा पौरुषेयत्वात् व्याकरणस्य वक्त्रभिप्रायमात्रपर्यवसानेनार्थपरत्वाभावात्साधुप्रयोग- नियमं प्रत्यशास्त्रत्वादिति षष्ठेन प्रकारेण योज्यमित्याह—सर्वत्र हीति । स्मृतिशास्त्रान्तर- सम्वादाभावादिति सप्तमीं योजनामाह—न चेति । एतदेव विवृणोति—प्रायेणेति । अस्तु तावत्स्मृत्यन्तरेणासम्वादः । परस्परमपि व्याख्येयव्याख्यानग्रन्थानां न सम्वादोऽस्तीत्याह—परस्परेण चेति । सूत्रवार्तिकभाष्येषु ये पाणिनिकात्यायनपतञ्जलय आचार्यास्ते विगीतवचना इत्यर्थः । कीदृशं विगानमित्यपेक्षायां निःप्रयोजनं व्याकरणं सूत्रकृतोऽभिप्रेतम् । साधुशब्दप्रयोगद्वारेण धर्मप्रयोजनत्वं वार्तिककृता साधुशब्दज्ञानद्वारेण भाष्यकारस्येति विगानं दर्शयितुमाह—न तावदिति । तेन तस्य प्रयोजनाभावाभिप्रायो लक्ष्यत इति भावः । ननु विस्मृत्याप्य- नुक्त्युपपत्तेः, कथं प्रयोजनाभावाभिप्रायो लक्ष्यत इत्याशङ्क्याह—कथं चेति । एतावत्त्वेन बह्वायासात्वमभिप्रेतम् । एतदेव विवृणोति—येष्विति । मोक्षाणामिति निर्धारणे षष्ठी । न चानादरेणानुक्त्युप- पत्तिरित्याह—न चेति । सुज्ञानत्वेनापि नोपपत्तिरित्याह—सुज्ञानत्वं पुनरिति । यद्यपि वार्तिककृता शास्त्रेण धर्म्मनियम इति धर्म्मप्रयोजनत्वं व्याकरणस्योक्तम् । तद्ब्याकरणे धर्म्मस्याप्रतिपाद्यमानत्वादयुक्तमित्याह—धर्म्मश्चेति । ननु न साक्षाद् धर्म्मप्रयोजनत्वं व्याकरणस्याभिप्रेतम्, किं तु तदनुगतशब्दप्रयोगद्वारेण, ज्ञानद्वारेण वेत्याशङ्क्याह-धर्म्मत्व- मिति । एतदेव विवृणोति—शास्त्रार्थो हीति । किं पुनः शब्दस्य ज्ञाने धर्मः, आहो- स्वित्प्रयोग इति सन्दिग्धो वार्त्तिककृता ज्ञाने धर्मं इति चेत्तथाधर्म्म इत्यनेन साध्वसाधु- विवेककारिणो व्याकरणवत्साधुत्वज्ञानेऽर्थान्तरोपलक्षणरहितानामसाधुत्वाज्ञानापत्तेः, तस्य च न म्लेच्छभाषां शिक्षेतेत्यादिनिषेधपर्यालोचनेनाधर्म्मसाधनत्वाधर्म्मसाधनत्वावसायाद- धर्म्मः प्रसज्येतेत्युक्त्वा प्रयोगे र्तहि धर्म्मो भविष्यतीत्याशङ्क्य तस्मिन्पक्षे व्याकरणानभि- ज्ञानामपि साधुशब्दप्रयोगात् धर्म्मोत्पत्तेर्व्याकरणानानर्थक्यमिति, प्रयोगे सर्वलोकस्येत्य- नेनोक्त्वा दोषद्वयमयाच्छास्त्रपूर्वकं प्रयोगेऽभ्युदयः, तस्य च वेदशब्देनेत्यनेन व्याकरण- जनितज्ञानपूर्वकसाधुशब्दप्रयोगो धर्म्मसाधनम्, यथा वेदशब्दपूर्वोऽग्निष्टोमादिजनित- ज्ञानपूर्वकमनुष्ठितो धर्म्मसाधनम् । यथा वा वेदरूपः शब्दो नियमपूर्वमधीतो धर्म्मसाधन- मित्युकतं भाष्यकृता । तत्सर्वं व्याख्याया, अथ वा 'पुनरस्तु ज्ञाने धर्मं' इत्युक्तम् । न चैवमव्यवस्थितशास्त्रार्थावधारणं युक्तमित्यर्थः । ननु सम्यग् ज्ञातः सुप्रयुक्त इत्युभयोर्ज्ञानप्रयोगयोरेकवाक्योपादानात्समुच्चितयोर्धर्म्मत्वं भविष्यतीत्याशङ्क्याह-सम्बद्धयोश्चेति । एकवाक्योपपत्तयोरप्याख्याते नामाथंयोः समुच्चयः, प्रतिपदमपूर्वाणि एकपदे एवापूर्वमित्याधिकरणं यदेकस्मादपूर्वं तदेतरत्तदर्थमित्येतदित्यर्थः प्रतिपदाधिकरणे निराकरिष्यत इत्याशयः । सामान्यन्यायमुक्त्वा प्रकृते योजयति—
२४ ] प्रथमाध्याये तृतीयपादः ५३९ तद्विहेति । एकस्मिन्वाक्ये साधनद्वयविध्ययोगात्सति ज्ञाने साधुशब्दप्रयोगोऽप्यनुषङ्गान्निष्पद्यत इत्येवं ज्ञानस्तुत्यर्थत्वेन सुप्रयुक्तस्तु शब्दो ज्ञानस्य धर्मसाधनत्वपक्षे व्याख्येयः । प्रयोग- पक्षे तु ज्ञातमात्रोऽपि साधुशब्दः स्वर्गं साधयति, किमुत प्रयुक्त इति प्रयोगस्तुत्यर्थत्वेन सम्यग्ज्ञानशब्दो व्याख्येयः । ततश्च ज्ञानधर्मत्वे, प्रयोगस्य धर्मत्वायोगात् लोकसिद्धस्यैव ज्ञानानुनिष्पादितत्वेन सत्यामपि व्याकरणादुपकारनिवृत्तौ व्याकरणं प्रति प्रयोजकत्वाभावान्न भवदभिप्रेतद्वारेण व्याकरणस्य धर्मप्रयोजनत्वं युक्तम् । प्रयोगस्य तु धर्मत्वे यदेकस्मादपूर्वं तदेतरत्तदर्थमितिन्यायेन ज्ञानस्य प्रयोगाङ्गत्वेन पारार्थ्यज्ञानात्फलश्रुतेः सुप्रयुक्त इति- वत्सम्यग्ज्ञान इत्यनेनाप्यन्वये कल्प्यमानेऽर्थवादत्वावसायेन ज्ञानस्य धर्मत्वायोगात्तद्- द्वारेणापि व्याकरणस्य धर्मप्रयोजनत्वं न युक्तमित्यर्थः । आदिमध्याद्व्याकरणानुगतशब्द- प्रयोगस्यानादिशास्त्रविषयत्वाभावादित्यष्टमी योजनामाह किं चेति । व्याकरणपूर्वकज्ञान- प्रयोगयोरित्यर्थः । एतदेव विवृणोति - यन्नामेति । मन्त्रार्थवादगतस्यानित्यसंयोगस्य परिहारो यो न्यायो अनित्यसंयोगविरोधरूपः तेनेत्यर्थः । न च व्याकरणस्यापि नित्यत्वं शङ्कनीयमित्याह - न चेति । ननु व्याकरणस्य कूटस्थनित्यत्वाभावेऽपि, प्रवाहनित्य- त्वाद्वैदिकविधिविषयत्वं भविष्यतीत्याशङ्क्याह - अथापीति । उक्तमौत्पत्तिकसूत्रेऽध्येतॄणाम- स्मरणादिभिश्चशब्दपूर्वत्वमिति वेदाधिकरणसिद्धान्तसूत्रोक्तेन न्यायेन सर्वपुरुषेभ्यो वेदस्य प्राथम्यान्न पौरुषेयग्रन्थविषयत्वं युक्तमित्यर्थः । ननु व्याकरणत्वजातेः कूटस्थनित्यत्वाद्वेद- विषयत्वं भविष्यतीत्यत आह - न चेति । ननु व्याकरणस्य सूत्रमिति षष्ठ्यर्थस्य भेदं विनानुपपत्तेः सूत्रमात्राच्छब्दाप्रतिपत्तेः, व्याकरणाच्छब्दान्प्रतिपद्यामह इति प्रयोगानुपपत्तेः । न सूत्रस्य व्याकरणत्वं युक्तं 'नापि शब्दस्य' व्याक्रियन्ते शब्दा अनेनेति व्याकरणमिति ल्युडर्थानुपपत्तेर्योगस्य च शब्दवत्त्वा- भावाद् व्याकरणे भवो योगो वैयाकरण इति भवतद्धितानुपपत्तेः । शब्दस्य च पाणिन्या- दिभिरप्रोक्तत्वेन पाणिनिना प्रोक्तं पाणिनीयमिति प्रोक्ततद्धितानुपपत्तेरिति वार्तिककारेण व्याकरणशब्दस्य सूत्रपरत्वशब्दपरत्वरूपे पक्षद्वये इत्यर्थः । पक्षद्वयेऽपि दूषिते भाष्यकारेण शब्दपक्षे तावद् दोषपरिहारार्थं प्रस्कन्दनं प्रपतनमित्यपादानादिष्वपि दर्शनेन, करणाधि- करणयोरेव ल्युट्प्रत्ययनियमाभावाद्, व्याक्रियत इति व्याकरणमिति कर्मव्युत्पत्त्या ल्युडर्थोपपत्तिमुक्त्वा भवप्रोक्तादितद्धितोपपत्त्यर्थं लक्ष्यलक्षणे व्याकरणमिति लक्ष्यलक्षणयोः शब्दसूत्रयोः समुदायिनोर्व्याकरणत्वाभिधानात्सूत्रात्मकस्य व्याकरणस्य कृत्रिमत्वेऽपि शब्दात्मकस्य नित्यत्वाद्वेदविषयत्वं युक्तमित्याशङ्कते-अथेति । लक्षणनिरपेक्षाणां शब्दा- नामानानन्त्याद्विधिविषयत्वानुपपत्तिं तु गवादिगाव्यादीनां जातिरूपेण, व्यक्तिरूपेण वा विधिप्रतिषेधौ उपपद्येते इत्यादिनोक्तेन परिहरति - तदिति । ननु यथा यदितिहासपुराणानि कल्पानीति ब्रह्मयज्ञविधिविषयत्वान्यथानुपपत्त्या कल्पसूत्राणां कर्तृस्मृतिदार्ढ्यात्कूटस्थनित्यत्वाभावेऽपि प्रवाहनित्यत्वमुक्तम्, तथात्रापि 'तस्मादेषा व्याकृता वागुद्यत' इति व्याकरणानुगताया अर्थवाचो वदितव्यत्वश्रुतेर्व्या-
५४० मीमांसादर्शनम् [ सू०
करणस्य नित्यत्वं भविष्यतीत्याशङ्कते-ननु वेदेति । तद्ग्रन्थस्याध्येतव्यत्वायोगाद् ग्रन्थ- नित्यत्वं कल्पितम् । इह तु श्रुतिसामान्यमात्रेणापि व्याकृतशब्दव्याख्यानोपपत्तेर्न ग्रन्थ- नित्यत्वकल्पने प्रमाणमस्तीति परिहरति-नैतदिति । ननु वैदिक्या वाचः स्वराद्यविप्लु- तरूपेणानिरूपिताकारत्वरूपस्य व्याकृतत्वस्य प्राप्तत्वाद्विध्यानर्थक्यमित्याशङ्क्य, कर्मकाले स्वाध्यायकाले वोच्यमाने-इयमनूदितेत्युक्तम् । श्लोकं व्याचष्टे - अव्याकृताया हीति । अस्य च व्याख्यानम् एकः शब्दः इत्येषापि श्रुतिर्वैदिकस्यैव शब्दस्य स्वराद्यविप्लुतिरूपेण ज्ञानप्रयोगयोर्द्धर्मत्वप्रतिपादनार्थतया व्याख्यातुं शक्येति सूचयितुमाह-तस्याश्चेति । नन्वेकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वित इत्यत्र शास्त्रशब्दस्य ग्रन्थविषयत्वा- द्व्याकरणग्रन्थस्य वेदविषयत्वप्रतीतेर्नित्यत्वकल्पना भविष्यतीत्याशङ्क्याह-यदपि चेति । प्रशंसांर्थत्वमेवोपपादयति-अहरहरिति । शास्त्रशब्दस्तर्हि कथमत आह -- शास्त्रेति । लोकव्युत्पत्त्या शिक्षणात्मकशासनवाचिना शास्त्रशब्देन ग्रहणाध्ययनकालीनः स्वस्यात्मी- यस्य गुरोरध्यायः शिक्षणार्थः पाठो विवक्षितो ग्रन्थ इत्याशयः । ननु सुप्रयुक्तशब्दस्तर्हि पुनरुक्तः स्यादित्याशङ्क्याह-सम्यगिति । उपनयनम्-आचार्यकर्तृको माणवकसंस्कारः । उपसदन-शुश्रूषे माणवककर्तृके । त्रयं वै तद्ग्रहणाध्ययनकालीनमपि विशिष्टतिकर्तव्यताक- ग्रहणम्, संस्कृतस्य तस्यैव वेदस्य ब्रह्मयज्ञोपयोगित्वादुपन्यस्तम् । ननु तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्द (श० ब्रा० ३-२-१-२४) । इत्येषा श्रुतिर्गव्याद्यपशब्दनिषेधार्थत्वाच्छब्दापशब्दविवेकस्य च व्याकरणधीनत्वाद्व्याकरणापेक्षा भविष्यतीत्याशङ्कयाह-यदपि चेति । कृत्यार्थे तवैकेन्- केन्यत्वन इति कृत्यार्थे छन्दसि तवैप्रत्ययस्मरणात् कृत्यानां च प्रैषातिसर्गाप्राप्तकालेषु कृत्याश्चेति प्रैषार्थत्वस्मरणादप्राप्तप्रेषणस्य च विधित्वात्तद्योगेन निषेधार्थतोक्ता । कथं वैदिकविषयत्वावगतिरपशब्दनिषेधस्येत्यपेक्षायां वैदिकशब्दापेतत्वरूपव्युत्पत्तिसम्भवम्, सुज्ञानत्वं च कारणद्वयमाह-वैदिकाच्चेति । सर्वेभ्यः शब्देभ्योऽपेत इति च व्युत्पत्तिः शब्दस्य अशब्दत्वयोगान्न सम्भवतीत्याह-न चेति । ननु नायमभाववचनोऽपेत्युपसर्गः, किं तु वर्जनवचनः, अतो गव्यादीनां सत्यपि शब्दत्वे, शास्त्रकारैर्वर्जितत्वादपशब्दत्वं भविष्यतीत्याशङ्क्याह-अथापीति । वर्जनेऽर्थे बर्बरादिभाषाशिक्षणस्य स्मृत्या निषिद्ध- त्वाच्छ्रुतौ चापशब्दत्वस्य म्लेच्छितशब्दसामानाधिकरण्येन निर्देशाद् बर्बरादिभाषागतस्य शब्दस्यापशब्दत्वज्ञानादित्यर्थः । म्लेच्छितत्वशब्देन म्लेच्छ अव्यक्तायां वाचीत्यव्यक्तोच्चा- रणार्थस्य म्लेच्छोऽव्यक्तोच्चारित इत्यर्थो दर्शितः । किं चान्येषामपि बर्बरादिसम्बन्धिना- माचाराणां निषिद्धत्वाच्छब्दप्रयोगरूपस्याप्याचारस्य तत्सम्बन्धिन एव निषेधोऽवसीयत इत्याह-युक्तं चेति । गव्यादीनां तु प्रसिद्धम्लेच्छबर्बरादिसम्बन्धित्वेन, अव्यक्तोच्चारणत्वेन वा म्लेच्छितधातवर्थानुगमाभावादायप्रयुक्तशब्दायतत्वाभावाद्वा नापशब्दतेत्याह-न त्विति । यथावृत्तादार्याचारादपेतत्वात्तदप्रवृत्तमित्युच्यते नैवं गव्यादिष्वार्यप्रयुक्तशब्दापेतत्वमस्ति । तेषामप्यार्यैः प्रयुक्तत्वादिति वैधर्म्यदृष्टान्तार्थम् ।
२४ ] प्रथमाध्याये तृतीयपादः ५४१ नन्वाहिताग्निरपशब्दं प्रयुञ्जीत श्रुतेम्लेंच्छशब्दसामानाधिकरण्याभावाद् व्याकरणा- नुगतशब्दापेतत्वनिमित्तलब्धापशब्दव्यपदेश्यत्वगाव्यादािप्रयोगनिमित्तप्रायश्चित्तविधानार्थत्वाद् व्याकरणापेक्षा भविष्यतीत्याशङ्कयाह-यदपि चेति । निषिद्धाचरणनिमित्तत्वात्प्रायश्चि- त्तस्य, गाव्यादीनां च शिष्टाचार्विजतत्वेनानिषिद्धत्वावसायाद्यथासम्भवमन्यविषयतैवेयं श्रुतिर्भवेदित्याशयः । व्याकरणानुगतव्यतिरिक्तशब्दविषयत्वासम्भवमुपपादयति-तथा हीति । गाव्यादि- शब्दप्रयोगलक्षणस्य कार्यस्य सर्वशिष्टपरिगृहीतत्वेनापरिहरणीयत्वमीदृशशब्देनोक्तम्। श्लोकं विवृणोति-प्रायेण हीति । ननु सर्वस्यापि व्याकरणानुगतशब्दप्रयोगनियमो न दृश्यत इत्याह-न चेति । एतदेव प्रपञ्चयितुमाह-कल्पेति । कल्पकारस्यापशब्दमुदाहरति-समानमिति । छान्दोग्यसूत्र- कारस्योदाहरति-सूत्रेति । वह्वृचसूत्रकारस्यापशब्दद्वयमुदाहरति-तथेति । कल्पादि- ग्रहणस्योपलक्षणार्थत्वात् शिक्षाकारस्यापशब्दमुदाहरति-तथेति । स्मृतिकारस्योदा- हरति-अनुनाषीति । स्मृतिग्रन्थकारेणापि । साक्षिणः सन्ति मेत्युक्त्वा वदेत्युक्त्वा वदेत्तु यः । इत्यत्र मेशब्दस्येतीकारे परभूते संहितायामेचोऽयवायाव इत्यादेशे कृते लोपः शाकल्यस्येति च यकारलोपे कृते म इतीतिव्याकरणानुगतां संहितामनपेक्ष्यान्यथा कृतेत्यर्थः । मीमांसाकारस्यापशब्दद्वयमुदाहरति--तथेति । सम्वत्सरसत्रेषु गावामयनिक- विध्यन्तातिदेशप्रतिपादनायाऽष्टमे गवामयनोत्तरकालविहितेष्वादित्यानामयनप्रभृतिषु गवा- मयनस्य विध्यन्तः प्रवर्त्तत इति वक्तव्ये ‘तस्य विकारोऽवयवे च प्राण्यौषधिवृक्षेभ्य इत्याधिकृत्य गोपयसोर्यदिति विकारोवयवयोर्र्विहितो यत्प्रत्ययोऽर्थवादावगतगोकर्तृकत्वमात्रनिमित्तप्रयुक्तः । न चैवाग्नीषोमीयप्रकरणाधीतः स्यादिति' मासामुपोक्ते तानिति बहुवचनान्तस्यापि मन्त्रस्य प्रतिपदिकार्थसमवायाद् बहुवचनस्य प्रातिपदिकार्थलक्षितावयवबहुत्वाभिधानार्थ- त्वेनोपपत्तेरनुत्कर्ष इति सिद्धान्तिते, 'द्यावापृथिव्योरहं देवयज्ययोमोर्लोकयोर्ऋद्ध्यासम’- त्यादीनां दर्शपूर्णमासप्रकरणाधीतानां द्यावापृथिव्याद्यनुमन्त्रणानामपि केनचिद् गुणयोगेन दर्शपूर्णमासदेवताप्रकाशकत्वोपपत्तेरनुत्कर्ष इत्याशङ्कयार्थं सूत्रे सरूपाणामेकशेषः' इत्याद्येक- शेषलक्षणहीनं चावोरित्युक्तमित्यर्थः । गृह्यकारेणापि जिघ्राणामिति ल्युडन्तजिघ्रादेशः पाघ्रादिसूत्रेण शित्येव प्रत्यये परभूते घ्रातेर्जिघ्रादेशमन्वाख्यातमनपेक्ष्यैव कृत इत्याह-तथेति । व्याकरणसर्वस्वे निरुक्तेऽपि व्याकरणानुगताः शब्दाः सन्तीत्याह-कात्स्न्यर्थं इति । आद्धर्धधातुके परभूते ब्रुवो वच्या- देशस्याभिधानात्तदकरणं हीनलक्षणमित्यर्थः । एतदेव विवृणोति - सम्वत्सरमिति । पुराणेतिहासहस्तिशिक्षादिकारिणस्तु नात्यन्तं व्याकरणमाद्रियन्त इत्याह-अन्त इति । हस्तिशिक्षादिग्रन्थकारिणो ये उमाभ्यादिरूपा अपशब्दास्तेषामन्तो नास्तीत्यर्थः । एतदेव
५४२ मीमांसादर्शनम् [ सू० विवृणोति—युगपदिति। वेदप्रयुक्तानां च शब्दानापशब्दत्वाशङ्कानुपपत्तेर्निश्चितसाधुत्वा- नामनन्वाख्यानादव्यापकं लक्षणं स्यादित्याह—वेदेष्वपीति। सामान्यं छन्दसि, भाषायां च साधारणम्, चातुर्वर्ण्यादिवत्स्वार्थे तद्धितः। ननु 'व्यत्ययो बहुलमि'ति बहुलग्रहणेन विकरणवत्सुबादीनामपि व्यत्ययसूचनाद् 'बहुलं छन्दसीति' च लोपाद्यनियमविधानादस्ति सर्वशब्दानां छान्दसं लक्षणमित्याशङ्कयाह—न हीति। 'सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृ यङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन॥' इति वचनान्नियतविषय एव व्यत्ययविधिः दक्षिणायामिति हि प्राप्ते धुरि दक्षिणाया इति सुपो व्यत्ययः। तक्षन्तीति प्राप्ते ये अश्वयूपाय तक्षतीति तिङः, स्रुवन्तीति प्राप्ते सामगाः स्रुवत इत्युपग्रहस्य, इन्द्रः सोमस्य कामुक इति प्राप्ते कामुकेति लिङ्गस्य, ममृवां आवाह इत्यत्रावाहादिति प्रथमपुरुषप्राप्तौ आवाहा इति पुरुषस्य। अग्निमद्यहोतारममवृणी- तेत्यत्राद्यतनकालवाचिनि लकारे प्राप्ते अनद्यतनकालवाचिलङ्प्रयोगात्कालव्यत्ययः, काण्डञ्चेत्यत्र कामुके इति प्राप्ते णकारप्रयोगाद्धलव्यत्ययः। अम्यक्सात इत्यत्रामेत्याकारे प्राप्ते अभ्यगिति संहितादर्शनेनाकारप्रयोगादच्त्व्यत्ययः। अश्वावतीर्गोमतीरित्यत्रान्तोदात्तत्वे प्राप्तेऽश्वावतीर इत्याद्युदात्तत्वात्स्वरव्यत्ययः, कर्तृशब्दस्य कारकोपलक्षणत्वादद्भिर्ददातीत्यत्र सम्प्रदानस्य दातृत्वेन प्रत्युपकारार्थं दानकरणत्वाभिधानाद्दद्भ्य इति प्राप्ते दद्द्भिरिति- व्यत्ययः, यङ्शब्दस्य प्रत्याहारत्वेन योगाद्यङन्तविकरणप्रत्ययग्राहित्वाद् वृत्रं हनतीत्यत्र हन्तीतिप्राप्ते हनतीति यङ्व्यत्ययः। बहुलं छन्दसीति च अदिप्रभृतिभ्यः शप इत्याद्यधि- कारविशेषेण शबादिविषयमेवावसीयते, न सर्वविषयमित्यर्थः। तत्रोदाहरणद्वयमाह— तद्यथेति। आपस्येत्यत्र तावल्लिङ्गवचनव्यत्ययो न व्यत्ययसूत्रस्य विषयः। तस्य बहुल- ग्रहणेन नियतलिङ्गवचनविधेयत्वाभावात्। नाप्युपधादीर्घादेशो व्यञ्जनान्तस्य च स्वरागमो बहुलं छन्दसीत्यत्राधिकृतो। येन लक्षणानुगमः स्यादित्याह—न हीति। अवित्यस्य नित्यं स्त्रीलिङ्गस्य बहुवचनविषयमस्य व्यञ्जनान्तस्य प्रातिपदिकस्य षष्ठ्यन्तस्यापामित्यविकृ- तस्यान्वाख्यानादापस्येत्यस्त्रीलिङ्गमेकविषयमकारान्तं दीर्घोपधं रूपं न केनापि लक्षणेना- नुगतमित्यर्थः। द्वारशब्देऽपि दकारलोपो पाकारस्य च वकारादेशो न केनचिल्लक्षणेना- नुगत इत्याह—नापीति। बहुलग्रहणस्य दृष्टानुविधानार्थत्वाद द्वारशब्दस्य भाषायामपि व्यत्ययस्यादर्शनान्न दृष्टानुविधानाथंत्वाद द्वारशब्दस्य भाषायामपि व्यत्ययस्यादर्शनान्न दृष्टानुविधानमस्तीति दर्शयितुम् — लाटेत्युक्तम्। अतो वैदिकशब्दानामसाधुत्वाशङ्कानुप- पत्तेर्लक्षणमेवाव्यापकत्वादुपेक्षणीयमित्युपसंहरति—तेनेति । व्याकरणान्तरयुक्तानामपि तदनुगतशब्दप्रयोगदर्शनान्न व्याकरणप्रामाण्याध्यवसानमित्याह—येऽपीति। प्रमादादिनिमि- त्तशङ्कानिवृत्त्यर्थं प्रायेणेत्यस्यार्थे—सुतरामित्युक्तम्। सन्तु व्याकरणामियुक्ताः व्याकरणकाराणामेव तदनुगतशब्ददर्शनात्प्रामाण्याध्यवसानं दुर्लभमित्याह-सूत्रेति। न च तेषां विस्मृत्या प्रयोगोपपत्तिरिति दृष्टान्तद्वारेणाह—अश्वेति।
२४ ] प्रथमाध्याये तृतीयपादः ५४३ एकैकस्य द्वे द्वे (अपशब्दोदाहरणे दर्शयति-सूत्रइति। जनिशब्दः, षष्ठीसमासश्च द्वावपशब्दौ जनिशब्दस्य तावद१) पशब्दत्वमुपपादयति-जनीति। लक्षणेनाननुगतत्वाज्जनिशब्देन धातुरेव निर्दिश्यत इत्यर्थः। धातुकर्तृ प्रकृतेश्चापादानसञ्ज्ञानभ्युपगमान्न धातुरत्र विवक्षित . इत्याह-न चेति। यस्य तु जन्माख्यस्य व्यापारस्य जनिशब्दार्थत्वेन विवक्षितस्य कर्तुं- र्घटादेः प्रकृतेर्मृत्पिण्डादेरपादानसञ्ज्ञेष्यते, तस्य जायमानसम्बन्धिनो जन्माख्यस्यार्थस्य जनिशब्दो न वाचक इत्याह-जायमानस्येति। व्यधिकरणे षष्ठ्यौ। नन्वेवमपि धातौ साधुत्वान्नापशब्दतेत्याशङ्क्याह-तेनेति। क्वचित्साधोरप्यर्थान्तरं प्रत्यसाधुत्वादपशब्दत्वं भवतीत्याशयः। षष्ठीसमासस्यापशब्दत्वमुपपादयति-तथेति। (अकस्य निन्दकहिंसकइत्यादौ तच्छीलाद्यर्थवुञ्प्रत्ययादेशत्वेनानेकार्थत्वात्तद्योगे कर्त्रर्थ- षष्ठ्याः प्राप्तेस्तद्योगे एव समासनिषेधार्थम्। आद्यं तृजकाभ्यां कर्त्तरीति सूत्रम्। न तु तृज्योगे कर्त्रर्थषष्ठीसमासनिषेधार्थमिदं सूत्रम्। तृचः कर्त्तर्येव विधानात्तद्योगे कर्तुरनभिहि- तत्वाभावेन कर्त्रर्थषष्ठ्याः प्राप्त्यभावात् प्राप्तिपूर्वकत्वाच्च निषेधस्य। अतः तृजग्रहणम् उत्तरसूत्रेऽनुवृत्त्यर्थमेव कृतम्। नात्र तस्य प्रयोजनम्। अकस्य तूभयत्रोपयोगः। तामुत्तरसूत्रे तृजकयोरनुवृत्तिं वक्तुमाद्यसूत्रं वार्तिकपठितमित्यर्थः२)। कर्त्तर्येव तृग्विधेस्तत्प्रयोगे कर्तृ- षष्ठ्यभावादकस्य निन्दहिंसक्लिशखादादिधातुविहिततच्छीलादिवाचिवुञ्प्रत्ययादेशत्वेनाने- कार्थत्वात्तद्योगे कर्तृवाचिन्याः षष्ठ्याः समासनिषेधार्थमाद्यसूत्रमुत्तरसूत्रे तृजकाभ्यामित्य- स्यानुवृत्तिप्रतिपादनार्थंपठितम्। कर्तृवाचिभ्यां तृजकाभ्यां योगे कर्त्तरि चेति सूत्रे षष्ठीसमासनिषेधादपशब्दतेत्यर्थः। तृच्प्रत्यययोगनिमित्तनिषिद्धं षष्ठीसमासमुदाहृत्य, अक- प्रत्यययोगनिमित्तनिषिद्धमुदाहरति-एवमिति। वार्त्तिककृतोऽप्यकप्रत्यययोगनिमित्तनिषिद्धषष्ठीसमासापशब्दोदाहरणम् तावदाह- तथेति। हलन्ताच्चेति सूत्रेणेकसमीपाद्धलः परो झलादिः सन् किद्भवतीत्युक्ते दम्भेः सनि कृते दम्भ इट् चेति कित्ति सत्यपि नकारेण व्यवधानात् दम्भिधातुसम्बन्धिनो हलो झकारस्य इक्सामीप्याभावात् तत्परस्य झलादेरपि सन्ः कित्त्वासिद्धौ३ गुणापत्तेर्धिप्सतीति- रूपं न सिद्धयेदित्याशङ्क्य हल्ग्रहणस्य जातिवाचकत्वादम्भेर्धातोः परस्य झलादेः सनः- कित्त्वं सिद्धमित्युक्तम्। (अत्र जातिवाचकपदेकऽप्रत्ययान्तस्य षष्ठीसमासोऽपशब्दः४)। तस्यैवापशब्दान्तरमुदाहरति-तथेति। अइउणिति प्रत्याहारसूत्रगतेन णकारानुबन्ध- केनाकारेण धात्वादिगतस्याकारस्य णकारानुबन्धरहितत्वाद्वहणं न प्राप्नोतीति शङ्कित्वा, भेदाभावाद्धात्वादिष्वस्यापि ग्रहणं सिद्धमिति, परमतेन परिहारमुक्त्वा तन्निराकरणार्थम्- १. अयं पा० २ पु० ना० । २. अयं पा० २ पु० ना० । ३. अनिदितां हलउपधायाः क्ङितीत्युक्ते नलोपो न सिद्ध्यतीत्यर्थः। नलोपासिद्धे। ४. अयं पा० २ पु० ना० ।
५४४ मीमांसादर्शनम् [ सू० वार्त्तिककृतेदमुक्तम् । दण्ड अग्रमिति व्यस्तोच्चारणे दण्डपदान्त्यस्याग्रपदाद्यस्य वाकारस्या- न्तरालकालानुपलम्भलक्षणत्कालव्यवायाद्व्यवधानाद्—अन्यत्वमित्युक्तम् । नन्वेकत्वेऽपि व्यञ्जकाभावान्मध्येऽनुपलब्धिर्युज्यत इत्याशङ्क्य—शब्दव्यवायादित्युक्तम् । दण्ड इत्यत्र दकारडकारपरयोरकारयोर्मध्ये व्यञ्जकाभावे णकारडकारयोरप्यनुपलम्भः स्यात् न च व्यञ्जकानां प्रतिनियतविषयत्वम् दीपादी दृष्टम्, येन णकारडकारयोर्व्यञ्जकसद्भावादुप- लब्धिः, अकारस्य तु व्यञ्जकाभावादनुपलब्धिरिति व्यवस्था युज्येतेत्याशयः । अत्र चान्यभावमित्यन्यशब्दः । तथा हि निष्कर्षलक्षणगुणाभिधायी भावशब्दो यदि निष्कर्पणी- यान्यशब्दवाच्यगुण्यपसर्जनत्वेन निष्कर्षलक्षणं गुणं ब्रूते, ततो गुणमुक्त्वा गुणिनि वर्तमान- त्वेन गुणवचनसंज्ञापत्तेः । पूरणसुहितार्थसदव्ययतव्यसमानाधिकरणेनेति षष्ठीसमासनिषे- धादपशब्दत्वम्, स्वप्रधानगुणाभिधायित्वमभ्युपगमेन तु षष्ठीसमासकल्पने गुणवचनसंज्ञावाधाद् गुणवचनसूत्राननुगतब्यञ्प्रयोगायोगादपशब्देतेत्यर्थः । कर्म्मधारयस्तु (कर्मण्युपपदे धातोरण्प्रत्ययोक्तेर्नित्यसमासाच्च कुम्भकार इतिवत् हिमवद्भावः इत्यादिप्रयोगमाशङ्क्य, अनभिधानात्तादृशप्रयोगाभावादित्युत्तरे अविरविकेति दृष्टान्तः । भावशब्दस्यान्यत्वगुणविशिष्टगुणिपरत्वेनान्यशब्दसमानार्थत्वात्पर्यायाणां सह- प्रयोगाभावाद्द्वैयर्थ्यमित्यर्थः१) भावशब्दस्यानर्थक्यापत्तेरयुक्त इत्याशयः । भाष्यकृतापि कर्म्मण्यणिति सूत्रे हिमवन्तं शृणोत्यादित्यं पश्यतीति दृशिशृणोति- भ्यामण्प्रत्ययः कस्मान्न भवतीत्याशङ्क्यानभिधानादिति परिहारमुक्तम् । यथाविकशब्दस्य स्वाधिकप्रत्ययान्तस्याविशब्दसमानार्थत्वेऽपि तस्य विकार इति विकारतद्धिते लक्षणानु- गतेऽप्याविकं मांसमितिप्रयोगदर्शनादविकशब्दादेवोत्पद्यते नाविशब्दात्तथात्रापि प्रयोगाभावे- नाभिधानसामर्थ्याभावान्न इण्प्रत्ययोत्पत्तिरित्युपपादनायाविरविकन्यायेनेति दृष्टान्तेऽभि- हितेऽपशब्दः प्रयुक्त इत्याह—भाष्येऽपीति । अविश्चाविकश्चाऽव्यविकौ तयोर्न्याय इति द्वन्द्वगर्भस्तत्पुरुषः । तस्यैवापशब्दान्तरमुदाहरति—तथेति । ऋलृगित्यत्र सूत्रे वार्त्तिककारेण लृकारस्य स्वातन्त्र्येण क्वचिदप्यप्रयोगात् कॢपिस्थस्य च यणादिकार्यं प्रत्यसिद्धत्वादुपदेशानर्थक्य- मित्याशङ्क्य, यदृच्छाशब्दादिषु (कुमारी ऋतकर्मिति वाच्ये लृतकमित्यनुकरणशब्दो यदृच्छाशब्दः । तत्र लृकारे परे ईकारस्यानुकार्यं यणादेशः कुमारी लृतकमित्येवं लृकारस्य प्रयोजनमित्यर्थः२) यणादिकार्यसिद्धिलृंकारोपदेशप्रयोजनमुक्त्वा यदृच्छाभावात्तद्विषयाच्च कार्यसिद्धिप्रयोजनत्वासम्भवेऽभिहिते, भाष्यकारेणान्यथाकृत्वा प्रयोजनमुक्तं अन्यथा कृत्वा परिहारः । सन्ति यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तं न सन्तीति परिहारदूषणमाशङ्कितम्, तत्र अन्यथैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति सूत्रेणान्यथादिषु चतुर्षूपपदेषु करोतेर्णमुलिवि- धानादन्यथाकारमिति प्रयोक्तव्ये, अन्यथाकृत्वेति क्त्वाप्रत्ययप्रयोगादपशब्द इत्यर्थः । १. अयं पाठः सर्वत्र नास्ति । २. अयं पाठः सर्वत्र नास्ति ।
सूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह—तथा चेति। अन्यथा न क्वचिदपि साधुशब्दादरः
२४ ] प्रथमाध्याये तृतीयपादः ५४५ अन्येन प्रयोजनमुक्तमन्येन प्रकारेण परिहार इत्यस्यार्थस्यान्यथाशब्दमात्रेण सिद्धेर्नियमेन प्रयोज्यत्वाभावान्नायं करोति, अन्यथाकृत्वा 'शिरो भुङ्क्ते इति वदसिद्धप्रयोग इत्याशयः। एतच्च प्रयोजनं परिहारशब्देन निराकार्यतयोपन्यस्तमिति सूचितत्वादाशङ्कामात्रं नाभि- मतमिति, द्योतनार्थं महाभाष्यगतं प्रयोजनमुक्तमितिपाठं तात्पर्यतो व्याख्यातुं चोदितपदं तत्स्थानेऽप्रयुक्तम्। ननु त्वगादिशब्दवत्सिद्धवत्प्रयोगरूपनिपातानां साधुत्वं सेत्स्यतीत्याशङ्क्याह— न चेति। ननु प्रयोगमूलत्वाद् व्याकरणस्मृतेः, तद्बाधकत्वं न युक्तमित्याशङ्क्य, प्रयोग- मूलताऽप्याप्यसिद्धेति मत्वा पूर्वोक्तं स्मृतिबलीयस्त्वमाह—स्मृतीति। अतो नैषां निपात- नात्साधुत्वसिद्धिरित्युपसंहरति—प्रत्यक्षेति। नन्वेवं सत्येकप्रयोगमात्रेणेतरासाधुत्वानिश्चयात्प्रकृतिप्रत्ययान्वाख्यानं विना प्रयोगमात्रेण साध्वसाधुत्वविवेकासिद्धेर्निपातानर्थक्यं स्यादित्याशङ्क्याह—प्रत्यक्षेति। निपातानर्थ- क्यपरिहारायाऽन्वाख्यानमनुमीयत इत्याशयः। ननु लक्षणवाक्यगतानां शब्दानां स्वात्मनि क्रियाविरोधेन तद्वाक्यगतैलक्ष्यितुमशक्यत्वाल्लौकिकवैदिकशब्दलक्षणार्थत्वेन च व्याकरण- स्यात्मार्थत्वाभावात्प्रदेशान्तरस्थानामप्यलक्षणयत्वेनानुगमानादराच्च व्याकरणकाराणां. व्याकरणानुगतशब्दप्रयोगो दोष इत्याशङ्क्याह—न चेति। व्याकरणगतानामपि शब्दानां लोकवेदाधिकरणन्यायेन लौकिकेभ्यो भेदाभावाल्लक्षणीयत्वोपपत्तिं वक्तुम्— लक्ष्यभूत इत्युक्तम्। अत एव व्याख्यातृभिर्वृद्धिरादैजित्यादिषु वृद्धिरादैजदेङ् गुण इति जश्त्वदर्शनेन पदसञ्ज्ञत्वावगमाच्चोः कुरिति कुत्वेन भवितव्यमित्याशङ्क्य अयस्मयादीनि च्छन्दसीति सूत्रेष्वपि छन्दोवद्भावेन भसञ्ज्ञत्वात्सन्नुष्टुभा ( सन्नृक्वतेत्यत्र ऋग्युक्तेनेत्यर्थके पदे ऋच्शब्दस्य वतिपरे पदसञ्ज्ञत्वाच्चोः कुरिति कुत्वे ऋक्वतेति सिध्यति। अत्र पद-. सञ्ज्ञत्वात् झलाञ्जशोऽन्ते इति जश्त्वेन नग्नस्य जकारः कस्य ढकारो वा न भवति। अयस्मयादीनि च्छन्दसीत्युक्त्या भसञ्ज्ञया पदसञ्ज्ञाबाधात्। न च पदत्वाभावात्कुत्वमपि न स्यादिति वाच्यम्। प्रयोगानुसारित्वाद्धचाकरणस्य, तेन यथा तत्र मत्वा जश्त्वाभावः। पदत्वाच्च कुत्वमिति सञ्ज्ञाद्वयसमावेशः, तथा प्रकृतेऽपीति भावः । अत्र वृद्धिरादै- जित्यादिसहोच्चारणं सिद्धं कृत्वोक्तम् (अन्यदेव तु 'उपदेशेऽजनुनासिक' इतीत्याद्युदाहार्यम्')। सन्नृक्वता गणेनेतिवत्सञ्ज्ञाद्वयाविरोधात्कुत्वाभावोपपत्तिरित्यादिपरिहाराभिधानवत् 'समर्थः पदविधिर्, त्यत्र च विधिशब्द कर्मसाधनो भावसाधनः करणादिसाधनो वेति पृष्ट्वा विपूर्वाद्धातोः कर्म्मसाधने इकारो विधीयत इति कर्म्मसाधनतया व्याख्यानाल्लक्षण- सूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह—तथा चेति। अन्यथा न क्वचिदपि साधुशब्दादरः स्यादित्याह—यदि चेति। न त्वाचारे नियम इत्यत्र वार्त्तिके भाष्यकृता याज्ञे कर्म्मणि १. अयं पा० २ पु० ना० । ३५
५४६ मीमांसादर्शनम् [ सू० स नियमः, अन्यत्रानियम इत्युक्तत्वाच्च व्याकरणे कल्पसूत्रादिषु चापशब्दप्रयोगो दुष्यतीत्याशङ्कते-अथेति । फलवत्त्वेन क्रत्वर्थत्वायोगात्क्रतुविषयत्वानुपपत्तिरिति परिहरति- तदस्रदिति । आहिताग्निग्रहणानर्थक्यापत्तेश्च न यज्ञविषयतेत्याह - सारस्वतीति । ननु तस्माद् ब्राह्मणेन 'न म्लेच्छितवै' इत्यपशब्दनिषेधस्य प्रकरणाज्ज्योतिष्टोमाङ्गत्व्वा- वगतेरन्यत्रानियमोऽवसीयत इत्याशङ्क्याह-योऽपि चेति । आदित एव च व्याकरणे निरुपपत्तिकपूर्वापरविरुद्धामिधानादनाप्तप्रणीतत्वात्त्रसोयत इत्याह-यदपि चेति । भाष्यकृता हि शास्त्रादावथ शब्दानुशासनमिति शास्त्रस्य विषयमुक्त्वा, केषां शब्दानामिति पृष्ट्वा, लौकिकानां वैदिकानां चेत्युत्तरं दत्तम् । तत्तावद् बहूनां शब्दानां लोकवेदसाधारण्याद्युक्तमित्यर्थः ।' उभयत्रापि च साधारणशब्दोदाहरणमत्यन्तमयुक्त- मित्याह-न चेति । ननु वेदादिवाक्योदाहरणत्वेनैषां लौकिकेभ्यो भेदोऽस्तीत्या- शङ्कयाह - न चेति । कानि तर्हि वैदिकत्वेनोदाहार्याणीत्यपेक्षायामाह - अत इति । ननु गव्यादिपदानार्माप नियतस्वरत्वादिनो छान्दसत्वाद्युक्तोदाहरणतेत्याशङ्कयाह- छान्दसेति । एवमपि सिद्धे शब्दार्थसम्बन्ध इति शास्त्रारम्भवात्तिकव्याख्यानावसरे कथं पुनज्ञायते ? सिद्धः शब्दोऽर्थः सम्बन्धश्चेत्याशङ्क्यानराकरणार्थत्वेन लोकत इति वार्तिकावयवस्य यद्व्याख्यानं करिष्यते, तद्वयाहन्येत स्वरनियमादेर्लोकतः सिद्धचमावादित्याशयः । गव्यादिशब्दानन्वाख्यानात्, लौकिकान्वाख्याने प्रतिज्ञा न युक्तेत्याह-यदि चेति । गवादि शब्दानां तु केवलवैदिकत्वस्यापि वक्तुं शक्यत्वात्तदन्वाख्यानमात्रेण लौकिकान्वाख्या- नासिद्धिरित्याह-गवादयः पुनरिति । एतदेव च सर्वेषां च स नामानि कर्माणि च पृथक्पृथगित्यादिना मनुवचनेनोगदयति-तथा चेति । ननु लौकिकार्थविवक्षायां वैदिक- शब्दप्रयोगो न युक्त इत्याशङ्क्याह-दृश्यन्ते चेति । वैदिकानां च पाठसिद्धत्वादनानर्थकं लक्षणमित्याह -- न चेति । दोधीवेवीटामित्येतत्सूत्रदूषणार्थं न दीधीवेव्योश्छन्दोविषय- त्वाद् दृष्टानुविधित्वाच्च छन्दस्यदीधेददीध्युरिति च गुणदर्शनादप्रतिषेध इति वार्तिके दीधीवेव्यौ छन्दोविषयौ, दृष्टानुविधिः छन्दसि भवति । तत्र च होत्रा वृत्तः कृपयन्नदीधेत् अदीध्युर्दशरात्रे वृत्तास इति गुणस्य दर्शनादनर्थकः प्रतिषेध इत्येवं व्याचक्षाणेन भाष्यकृता स्वयमेव वैदिकशब्दलक्षणानर्थक्याभिधानाच्छान्दसोदाहरणं व्याहतमित्याह- दृष्टेति । मन्दशब्दो मृदूक्त्यर्थः । आनर्थक्यमेव दृष्टान्तेनोपपादयति - यथैवेति । न च भाष्यकृतैव कानि पुनरस्य शब्दानुशासनस्य प्रयोजनानीति पृष्ट्वा, 'रक्षोहाग- मलध्वसन्देहाः प्रयोजनमिति' मुख्यानि च पञ्चप्रयोजनान्यभिधाय, इमानि भूयः, शब्दानु- शासनस्य प्रयोजनानीत्यानुषङ्गिकाणां त्रयोदशानामुक्तत्वात् कथमानर्थक्यमित्याशङ्कयाह - रक्षाद्यपीति । वेदरक्षणस्यान्यतः सिद्धिमपपादयति-शिष्येति । महच्छब्देन व्यापकतोक्ता । तच्च क्रमरक्षानादरणीयेत्याह-तद्विनाशेऽपि चेति । ननु लोपागम-वर्णविकारद्वारा पदरक्षा
व्याकरणाधीनेत्याशङ्क्यानिरकरणार्थत्वेनाल्पसिद्धेः स्वतोऽपि चेति व्याख्यातुं वृद्धवाक्य- मुदाहरति - उक्तं चेति । नन्वाम्नायप्रसिद्धानामपि प्रस्ता वोद्गीथप्रतीहारोपद्रवनिधनानां सामपर्वाणां लक्षणार्थस्योच्छिष्याख्यग्रन्थस्येव व्याकरणस्याप्यर्थवत्त्वं भविष्यतीत्याशङ्कते- समाम्नायेति । वैषम्यमाह-तद्युक्तोत । प्रतिकृत्स्नस्य साम्नः सिद्धियंस्मात्तत्कृत्स्नसिद्धिः तस्य भावः कृत्स्नसिद्धित्वम् । ननु कृत्स्नसिद्धित्वेऽप्याम्नायसिद्धत्वाल्लक्षणानर्थक्यमित्या- शङ्क्य, कर्त्तव्येन ऋगन्तरसञ्चारणी येन प्रस्तावादिनाथेनाथवदित्यक्तम् । कृत्स्नसिद्धित्वा- दिति व्याचष्टे— औच्छिष्ये हीति । कर्त्तव्यार्थेन वेति व्याचष्टे - ब्राह्मणेति । यद् योन्यां गायति, तदुत्तरयोर्गायतीत्यादिब्राह्मणगतविधिवशेन योन्यामप्याम्नातस्य साम्न उत्तर ऋगन्तरे सञ्चारणायामित्यर्थः । व्याकरणे त्वेतद्द्वयमपि नास्तीत्याह-पदेति । विशिष्ट- पदरचनात्मकानां वाक्यानां संघातो रूपं येषां वेदानामिति व्याकरणसाध्यसंज्ञाभिधानं न सम्भवति । कर्त्तव्यानि पदानि वाक्यानि वा येषु वेदेष्विति कर्त्तव्यार्थंतवाभावाभिधानम् । ननु प्रकृतिप्रत्ययान्वाख्यानरूपस्य पदानुगमस्यान्यतः सिद्धेः कर्त्तव्यत्वाच्च कर्त्तव्यार्थत्वाभाव इत्याशङ्क्याह- लक्ष्येष्विति । वेदरक्षार्थत्वं च व्याकरणस्य वैदिकवर्णमात्रादिनिर्णयो वैयाकरणाधीनः प्रसज्येतेत्याह - किं चेति । एतदेव दृष्टान्तेनोपपादयति - वृक्षेति । ननु करकवत् वैयाकरणानां सन्निधानाभावादनादरो भविष्यतीत्यांशङ्क्याह-लोक इति । यस्य यदर्थत्वमित्यत्रोदाहरणमापादयन्नाह-आयुर्वेदमिति । आज्ञा वेत्यत्रोदाहरणमाह-व्याधि- तव्वोत । ननु वेदाध्यायिना व्याकरणम्, वैय्याकरणैर्वाद्रियन्त इत्याह-न हीवात । कस्तर्हि वेदरक्षाहेतुरित्यपेक्षायामाह- सहाध्यायिभिरेवेति । एतदेव विवृणोति-तस्मादिति । उपाध्यायग्रहणं सहाध्याय्युपलक्षणार्थं दानभोजनादिषु वेदपरीक्षाधिकारः करणशब्दे- नाभिप्रेतः, तत्संयुक्ताः कारणिकाः तेषां दयालूनां दोषान्वेषणतात्पर्याभावात् - दृष्टे- रित्युक्तम् । अध्येतॄणामेव वेदरक्षाहेतुतेतितात्पर्यार्थः । वेदरक्षाप्रयोजनत्वाभावमुपसंहति- तस्मादिति । एवं वेदरक्षार्थत्वे निराकृते, यदि कश्चिल्लौकिकवाक्यरक्षार्थत्वं ब्रूयात्तं प्रत्याह- लोके द्विति । ननु सुव्यवहारवाक्यरक्षार्थत्वाभावेऽपि काव्यादिरक्षार्थं व्याकरणं भविष्य- तीत्याशङ्कयाह - काव्यादिष्वपीति । एतदेव विवृणोति - यदि त्विति । यथा काव्यस्य, नाटकस्य वा लक्षणं प्राकृतभाषायाश्च व्याकरणम्, शुद्धाखण्डा च मात्रादिः पूर्णेति चतु- विधा द्विपदीकरणाख्येन तालेन परिगीयत इत्यादि च द्विपदीनां लक्षणम् अष्टादशमात्रा विरतिरपि यस्य रासकनामास चतुरंघ्रिव्यक्तशीत्यादि च व्यसकानां लक्षणम् । आदिशब्दाच्च ध्रुवकादीनां लक्षणम्, संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यानामप्रबन्धार्यत्वेनोपयुक्तम्, तथेदमपि संस्कृतमात्रं काव्यप्रबन्धार्थत्वेनोपयोक्ष्यत इत्याशङ्कार्थः । संस्कृतभाषानियम- प्रयोजनाभावाभिप्रायेण परिहारः सूत्रारूढः कृतः । काव्यशोभापि न-नियमप्रयोजनं वैपरी- त्यापत्तेरित्याह- काव्येति । किं च लोकप्रसिद्धांर्वा शब्दैः काव्यप्रबन्धार्थं लक्षणं स्यात्, अप्रसिद्धांर्वा । नोभयथाऽपि युक्तम् । अप्रसिद्धौ सम्बन्धस्याशास्त्रहेतुत्वादित्यनेन न्य येन
सत्यपि लक्षणानुगमे पचन्तीत्यादिवल्लौकिकशब्दप्रयोगेऽर्थप्रत्ययाभावापत्तेः । प्रसिद्धौ वानर्थक्यापत्तेरित्याह—न चेति । ऊहार्थत्वं निराकरोति—ऊहार्थमपीति । यथोह्यानूह्यविभागो मीमांसासिद्धत्वान्न व्याकरणापेक्षः तथोहस्वरूपमपि लोकवेदप्रयोगसिद्धत्वादित्यर्थः । दृष्टान्तं विवृणोति—तथा चेति । इयं गौस्तया क्रीणामि, तस्यै शृतमित्यादौ सोमक्रयार्थैकहायनीप्रकाशनार्थे मन्त्रे क्षीरादिवाचिनां शृतादिशब्दानां विक्रेत्रानमनार्थत्वाद् दृष्टार्थत्वेऽपि क्रयसाधनार्थत्वाच्च स्वार्थत्वेऽपि कालान्तरे चैकहायन्या अपि क्षीरादिसम्भवात्समवेतार्थत्वेऽप्येकहायन्यवस्थाया- मुच्यमानस्य क्षीरादिसम्भवस्य मुख्यत्वाभावादौपचारिकस्य क्षीरादिसम्भवस्य साण्डोत्पाद- यिष्यमाणधेनुद्वारेण साण्डेषूपपत्तेरूहाभावान्मूख्येत्युक्तम् । पत्नीं सन्नह्येति यजमानपत्नीसन्नहनवत्प्रेषार्थे मन्त्रे पत्नीमित्येकवचनस्य विद्यमानार्थत्वेन मुख्यत्वेऽपि सन्नहनीयपत्नीसंख्याप्रकाशनाच्च स्वार्थत्वेऽप्येकत्वस्य चानेकपत्नीकप्रयोगेऽपि पत्नीत्वसामान्यसमवायात्समवेतार्थत्वेऽपि प्रकृतावपूर्वसाधनीभूतपत्नीव्यक्तिपरत्वात्सामान्य- संख्याप्रकाशनस्यादृष्टार्थत्वेनोहाभावाद्—दृष्टार्थतेत्युक्तम् । इडोपह्वानमन्त्रे यज्ञपति वर्द्धानिति यज्ञपतिशब्दस्य यजमाने मुख्यत्वेऽपि तत्प्रोत्साह- नार्थत्वेऽपि, इडास्तुत्यर्थवृद्धिविशेषणत्वाभावेनोहाभावात्स्वार्थ इत्युक्तम् । इन्द्रागच्छ, हरिव आगच्छेति सुब्रह्मण्यामन्त्रे हरिवशब्दस्य हरिवत्त्वलक्षणे गुणे मुख्यतेति, तस्य चेन्द्राय हरिवते धाना निर्वपेदिति सवनीयहविरादिषु देवतात्वान्तर्गतेऽदृष्टार्थत्वेऽपि यक्ष्यमाणेन्द्रप्रकाशनाच्च स्वार्थत्वेऽपि, वस्तुवृत्त्येन्द्रे हरिवत्त्वासमवायात् समवेतार्थत्वा- भावेनोहाभावात्—समवेतार्थंतेत्युक्तम् । सत्यपि मुख्यत्वादिश्वर्थप्रकाशनवच्छब्दस्वरूप- स्याप्यादरे सत्यर्थान्तरयुक्तायां विकृतावैन्रीवद्गौणत्वोपपत्तेरूहासम्भवात्प्रकृतौ यथोत्पत्ति- वचनमर्थानां तथोत्तरस्यान्ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वादिति (९-३-१)त्येतदधिकरणसिद्ध- शब्दस्वरूपानादरसूचनायादिशब्दः । नवम एव हि तृतीयपादाद्यधिकरणे अग्नये जुष्टन्निर्वपामि, व्रीहीणामेधः सुमनस्यमान इति व्रीह्यग्निशब्दौ द्रव्यदेवतान्तरयुक्तायां विकृतावूह्यावनूह्यौ वेति निर्णयार्थं किमर्थप्रकाशन- वच्छब्दस्वरूपमपि विवक्षितम्, न वेति सन्दिह्य शब्दस्वरूपानादरे समाम्नानार्थक्यापत्ता- वोत्पत्तिकसमाम्नायावगतशब्दस्वरूपमनतिक्रम्यार्थानां वचनमभिधानं प्रकृतान्वयीति कृत्वो- त्तरस्यामपि ततो विकृतिविस्तारे तथाभूतमविकृतमेव शब्दस्वरूपं प्रयोक्तव्यम् प्रकृतिदृष्ट- स्यैव शब्दस्वरूपस्य प्रकृतिवच्छब्देन विनियुक्तत्वादिति प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततो तत्प्रकृतित्वादिति सूत्रावयवेन पूर्वपक्षयित्वा, कर्म्मसमवेतार्थप्रकाशनोद्दे- शेन विहितानां मन्त्राणां प्रधानवशवर्त्तित्वेन प्रकृताविति कृत्वा चास्यार्थप्रकाशननिरपेक्ष- स्वरूपादरायोगाद्विकृते च सूर्य्यनीवाराद्यर्थेऽग्निव्रीह्यादिशब्दानां प्रकाशनाख्यकार्याभावात्त- त्समर्थशब्दोपादानेन विकृतौ मन्त्रोच्चारणं युक्तमिति अर्थे चाकार्यत्वादिति (९-६-१)त्युत्तरा- वयवेन सिद्धान्तयिष्यते ।