भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

२४ ] प्रथमाध्याये तृतीयपादः ५४९ ननु प्रकृतिमन्त्राणां मुख्यत्वादिरूपेण प्रयोगे सत्यपि विकृतावर्थान्तरयुक्तायामतिदेशेन प्राप्तानां तदीयद्रव्यदेवतादिप्रकाशनसामर्थ्येन प्राकृतकार्यार्थत्वायोगादातिदेशिकवचनवशात्का- र्यान्तरकल्पनैवोचिता, नोहेन प्राकृतकार्यसामर्थ्यकल्पनेत्याशङ्क्य विकारेषु कार्यातिदेशतो गता-इत्युक्तम् । प्राकृतकार्यनिरपेक्षेण पदार्थातिदेशे, शास्त्रातिदेशे वा कार्यान्तरकल्पना युज्येत । वैकृतभावनाकाङ्क्षावशात्तु करणोपकारलक्षणकार्यद्वारस्यैवातिदेशस्य दशमाद्ये वक्ष्यमाणत्वान्न कार्यान्तरकल्पनेत्याशयः । कार्यद्वारातिदेशेऽपि कार्यान्तरार्थं व्रीह्यादौ व्रीहीणां मेधेत्यादिमन्त्रप्रयोगस्यैवाभावा- त्प्राकृतकार्यार्थत्वेऽप्यर्थान्तरत्वाभावेना विकृतस्यैव प्रयोगोपपत्ते रूहाभावात्प्राकृतकार्यतापत्तेश्च- अर्थान्तरेष्वित्युक्तम् । कथं कार्यापत्त्यवगतिरित्यपेक्षायाम् - पञ्चधेत्युक्तम् । १ नैवारश्चरु- रिति विकारतद्धितेन नीवाराणां चरुप्रकृतित्वाभिधानात्प्रत्यक्षविधिना प्रदेयप्रकृतित्वलक्षण- व्रीहिकार्यापत्तिरवसीयते । २ संस्थिते षडहे मध्वाशयेद् घृतं वेति मधुघृताशनयोः षडहा- भावे विधानात्प्रत्यक्षविधिना षडहकार्यापत्तिः । ३ सत्रायावगूर्य विश्वजिता यजेतेति वा सत्राभावे, विश्वजितो विधानात्सत्रकार्यापत्तिः । ४ नैवारश्चरुर्नखावपूतानामिति वैतुष्य- लक्षणविकारफलकनलुंछनापरपर्यायावपनाङ्गत्वेन नखानां विधानाद्विकारेण वैतुष्यो- त्पादनलक्षणोलूखलमुसलकार्यापत्तिः । ५ परिधौ पशुं नियुञ्जन्तीति परिधेर्नियोजने विधा- नात्स्वशब्देन विनियोजनलक्षणरूपकार्यापत्तिः । न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयमितीरा- पदविध्येकवाक्यतया गिरापदस्य निषेधानुवादावगतेरकार्थत्वाभावे चेरापदेन गिरापदबाधा- योगान्निषेधानुवादानुपपत्ते र्निषेधानुवादेन गिरापदकार्यापत्तिरिति पञ्चप्रकारत्वम् । प्रत्यक्ष- विधिनाऽभावे विधानेन, विकारतः, स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारितेति संग्रहश्लोकः । ननु व्रीह्यादिकार्याथ तेष्वपि नीवारादिषु व्रीह्यादिप्रकाशनार्थानां मन्त्राणां व्रीह्यादि- स्वरूपस्याभावेनाप्राप्तेर्नोहः स्यादित्याशङ्क्य - अपूर्वार्थद्वारेणेत्युक्तम् । स्वरूपप्रयुक्तत्व- निराकरणेनाऽपूर्वप्रयुक्तत्वस्य नवमाद्ये वक्ष्यमाणत्वान्नीवारादिषु व्रीह्यादिस्वरूपाभावेऽपि व्रीह्यादिलक्षितापूर्वार्थत्वसद्भावात्तद्द्वारेणास्ति प्राप्तिरित्याशयः । नन्वर्थान्तरेष्वप्यूहेन मन्त्राणां प्रयोगोपपत्तौ याज्यानुवाक्ययोरनुपदेशे गायत्र्यादिना लक्षणेनानुवाक्याकल्पनवचनम्, त्रिष्टुभादिना च लक्षणेन याज्याकल्पनवचनं तादृशलक्षण- योश्चासम्भवेन असञ्ज्ञकयोनिमामश्रृणुधीहवं स्तीर्णं बर्हिरानुषासवेत्तदित्यनयोरिरागमवचन- मनर्थकं स्यादित्याशङ्क्य - अनिषिद्धोहा इत्युक्तम् । पूयति वा एतद्यज्ञोऽक्षरम्, यदेतदूह इति तस्मादृचं नोहेदित्यादावूहनिषेधान्न देवतान्तरवत्यां विकृतौ प्राकृतयोर्याज्यानुवाक्ययोः प्राप्तिः सम्भवतीत्याशयः । न माता वर्द्धते, न पितेति तु यज्ञपत्नियायप्राप्तनिषेधानुवाद- त्वान्नोदाहरणम् एवम्भूतस्य वोहोपपत्तिकलापस्य मीमांसागम्यत्वादस्माकमेवोहः सिद्ध्यति, न वैयाकरणानामिति-न इत्यनेनोक्तम् । न त्ववघातादिसंस्कारविषयस्य दृढादृढप्रहारादि-

५५० मीमांसादर्शनम् [ सू० रूपस्योहस्य, सामविषयस्य वोत्तराकृता वृद्धतालव्याश्रितापि भावरूपस्य व्याकरणानपेक्ष- त्वेऽपि, मन्त्रोहस्य वैयाकरणाधीनत्वेन महाभाष्यकृतोक्तस्य शब्दरूपत्वाद्वैयाकरणापेक्षा भविष्यतीत्याशङ्क्य, व्रीह्यादिसम्बन्धित्वेनावगतानां धर्माणं नीवारादिसम्बन्धित्वापादक- रूपवितर्कात्मकस्योहरूपस्य मन्त्रविषयेऽप्यूहे साम्याद्वितर्कणायाश्च मीमांसाधीनत्वान्न वैयाकरणापेक्षेति—मन्त्रशब्देनोक्तम् । ननूह्यानूह्यविभागस्य मीमांसाधीनत्वेऽप्यूह्यपदस्वरूपज्ञानं वैयाकरणापेक्षं भविष्य- तीत्याशङ्क्याह एतावतीति । ननु कथं साध्वसाधुशब्दविवेकानभिज्ञस्य योग्यपदलाभ इत्याशङ्क्याह -- वेद एव हीति । यत्किञ्चिच्छन्दोहेनापि वा मन्त्रवाक्यनैराकाङ्क्ष्यसिद्धेनं योग्यपदादरो युक्त इत्याह— अथ वेति । एतच्च देवतापदव्यतिरिक्तविषयमुक्तम्, तेषां विधिगतपदव्यतिरेकेण साधून मप्य- प्रयोज्यत्वादिति दर्शयंश्लोकं व्याचष्टे--देवतेति । आग्नेयादियोगाङ्गभूतेष्वावाहनादिषु निगमनस्थानेषु किं येन केनचित्पर्यायेण देवताभिधेया; अथ वा विधिगतेनैव शब्देनेति सन्दिह्य येन केनचिदर्थसिद्धेरनियमे प्राप्ते देवतायाः प्रतिग्रहादिव्यापाराभावात्स्वरूपेण कर्म्मसमवायानुपपत्तेः शब्देनाग्निमुद्दिश्य हविस्त्यजेदिति विध्यर्थावगमात्केन शब्देनेत्य- पेक्षायां बुद्धिस्थाग्निशब्दातिक्रमे कारणाभावादग्निशब्देनैवाग्निमुद्दिशेदिति विधिगतेनैव शब्देन देवतात्वविधानान्मन्त्रकार्ये तस्यैवोच्चारणं कार्यमिति 'विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदने (१०.४.२३) इति सूत्रोक्तदशमिकन्यायेन विधिगतप्रयोगानुसारेणैव विकृतौ देवतापदान्यूह्यमानानि प्रयोक्ष्यन्त इत्यर्थः । ननु सौर्यं चरुमिति विधौ प्रातिपदिकमात्रश्रवणादग्नये जुष्टमिति चतुर्थ्यन्ताग्निपद- स्थाने सूर्य्यपदं कीदृशं प्रयोज्यमिति व्याकरणं विना न ज्ञायत इत्याशङ्क्य तद्वाक्य- शेषेत्युक्तम् । तस्य विधिवाक्यस्य शेषे वाक्यान्तरे वा 'महोदेवाय सूर्याय शंसतेत्यादौ यदधिगतमर्थाभिधानमित्यन्तेनेत्यर्थः । नन्वेवं सति शब्दव्यवस्थायामपि प्रयोगोत्पत्तिशास्त्रत्वदर्शनात्कथं तेनाप्यव्यवस्थासिद्धि- रित्याशङ्क्य—तेषु हीत्युक्तम् । किं विषयं तह्यं व्यवस्थितोह्यपदप्रयोज्यत्वाभिधानमित्य- पेक्षिते—यानित्युक्तम् । पौण्डरीके 'वर्हिषि दर्भेस्तृणोत हरितैः सुपर्णैरित्यतिदेशप्राप्ते मन्त्रे दर्भपदस्थाने पुण्डरीकैरिति द्रव्यपदमादिशब्दात्सुपर्णस्थाने पुण्डरीकावयववाचिपदम् । एवं व्रीहिणां मेधः सुमनस्यमान इत्यादी यथासम्भवं नीराणामित्यादीनि यथासम्भवं द्रव्यादिपदान्युदाहार्याणि । ननु नीवारादिपदव्यतिरिक्तानां तत्पर्यायाणां साध्वसाधूनां मानाप्राप्तत्वेनाप्रतीतरूपाणां प्रयोगविधिविषयत्वाभावात्प्रयोगानुपपत्तेर्नाव्यवस्था युक्तेत्या- शङ्क्य — सन्निहितेत्युक्तम् । सन्निहितेन नीवारादिविधितः प्रतीतेन नीवारादिनार्थेन पर्युपस्थापितानि समस्तानि पर्यायभूतानि साध्वसाधूनि रूपाणि येषामिति विग्रहः । पूर्वमेव तर्हि नीवाराद्यर्थस्य स्मृतत्वान्नीवारादिपदोहोऽनर्थकः स्यादित्याशङ्क्य—असंन्निहितेत्युक्तम् ।

२४ ] प्रथमाध्याये तृतीयपादः ५५१ असन्निहितार्थस्य व्रीह्यादिपदस्य निवृत्त्या हेतुभूतया न्यूनत्वात्साकाङ्क्षं यद्व्रीहीणां मेधेत्यादिमन्त्रवाक्यम्, तस्य निराकाङ्क्षीकरणायेति विग्रहः । द्रव्यादेर्हि श्रुतिसमवायित्वा- भावेन विधिगतशब्दप्रयोगनियमाभावात्कर्मविधानाथंस्यैव शास्त्रस्य शब्दप्रयोगोत्पत्ति- शास्त्रत्वानुपपत्तेर्मन्त्राम्नानरुपेण वा शास्त्रेण प्रयोगोत्पत्तेः शास्त्रवत्त्वं वाच्यम् । व्याकरणा- ख्येन वा तत्र मन्त्राम्नानं तावद्विकृतौ नास्तीत्याह—प्रकृतौ हीति । व्याकरणस्य च सम्भाव्यमानमूलशास्त्रत्वात्कृतकत्वादिदोषग्रस्तत्वात्पौरुषेयत्वेन चानादियज्ञगतशब्दविषयत्वायोगात् प्रयोगोत्पत्तिशास्त्रत्वं युक्तमित्याह—व्याकरण- स्यापीति । कृतकत्वस्यानप्रणीतत्वाशङ्कापादकत्वेन दोषत्वं व्याकरणानुगतशब्दप्रयोगनि- यामकत्वाभावेन--अविधायकत्वस्योक्तम् । इत्युपसंख्यानानादिशब्दोपात्तानां च वक्तव्यानाम्, आचार्यसूत्राणां च दीधीवेवीटामित्यादीनां प्रत्याख्यानम्, सूत्रवार्तिकभाष्याणां परस्परविरोधे विशेषाग्रहेण इदमेव प्रमाणमित्यनिश्चयादनवस्थितं प्रमाणत्वं विकरणस्य केचित्प्रकृत्यन्तर्भावमिच्छन्ति, अन्ये प्रत्ययान्तर्भावमिति, यथारुचि कल्पितं प्रकृतेः प्रत्ययस्य वा परिमाणं धातुप्रातिपदिकादिलक्षणदूषणान्यादिशब्देनोपात्तानि ! सत्यप्याप्तप्रणीतत्वे नित्यानित्यसंयोगविरोधेनानादियज्ञगतशब्दविषयत्वं निराकृतम् । ऊहस्यान्यतः सिद्धेर्व्याकरणप्रयोजनत्वासम्भवमुपसंहरति—तेनेति । प्रकृतिविकृति- विभागज्ञानम्, कर्मज्ञानम्, प्रकृतौ द्रव्यदेवतामन्त्राणां विकृतौ द्रव्यदेवतान्तरस्य, प्राकृतानां च मन्त्राणां ज्ञानं कर्माङ्गज्ञानं ऽकृतापूर्वप्रयुक्तत्वम्, कार्यातिदेशेन च विकृति- गमनं वैकृतानां चाङ्गानां प्राकृतकार्यापत्तिज्ञानम्, वाक्यार्थज्ञानं तेषु कौशलैः कर्तव्यतया लोकवेदप्रयोगाश्च स्वरूपेणोत्तसिद्धेर्व्याकरणानर्थक्यमित्यर्थः । व्याकरणतः सिद्धेरप्यूहस्य, तत्प्रयोजनत्वं न युक्तमित्युपपादयितुं व्याकरणपर्यालो- चनया कर्त्तव्यत्वेनावगतस्योहस्य मीमांसानुसारेणापवादः कल्पसूत्रव्याख्यातृभिः कृत इत्याह - अपि चेति । देव्याः शमितार आरभध्वम् इत्यादिः पशुविशसनप्रैषमन्त्रः अध्रिगुशब्दवत्त्वेनाध्रिगुरुच्यते तत्र पुराणन्यायादीन्यङ्गानि । अन्वेनं मातेत्यादीनि ज्ञातिनामानि । श्येनमस्येत्याद्या उपमाः । सूर्यं चक्षुरित्यादीनीन्द्रियाणि । यज्ञपतिशब्द- वत्पारार्थ्येनैषामन्येरूहविषयैवैषम्यान्नाध्रिगावूह्यते इत्यर्थः । यथागमः खल्वपीत्युपक्रम्य ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति स्मरणमावश्यकधर्मज्ञानार्थम्, षडङ्गवेदाध्ययनविधानार्थं व्याकरणाध्ययनप्रयोजनत्वेनो- पन्यस्तम् । तत्प्रयोजनं प्रयोजनिमाववैपरीत्येन दूषयति - आगम इति । यथा वेदाध्ययनं प्रति प्रयोजनभूतानां कर्म्मणां नाध्ययनं प्रयोजनं तथा षडङ्गवेदाध्ययनविधायकमागमं प्रति प्रयोजनभूतस्य व्याकरणाध्ययनस्य नागमप्रयोजनमित्युपालम्भार्थः । न त्वागम- प्रयोजनत्वप्रतिपादकं भाष्यमनुष्ठापकत्वाभिप्रायं व्याख्यातृभिव्र्याख्यातं तत्कथं फलपरत्वं प्रयोजनशब्दस्यारोप्य दूषणमुक्तमित्याशङ्कानिराकरणार्थः फलपदप्रयोगः । रक्षोहाग-

५५२ मीमांसादर्शनम् [ सू० मलध्वसन्देहाः प्रयोजनमिति सकृच्छ्रुतस्य प्रयोजनशब्दस्य रक्षादौ फलपरत्वम्, आगमेऽनुष्ठापकपरत्वं न युक्तमित्याशयः । एतदेव विवृणोति -- सर्वैश्च हीति । न चागम- प्रयोजनत्वाभिधानेन लक्षणया धर्मज्ञानाख्यमागमोक्तं प्रयोजनमभिमतमित्याशङ्कते - अथेति । षडङ्गवेदाध्ययनवद्धर्म्मज्ञानस्याप्यनुष्ठेयत्वमनेनागमेनोक्तम्, न प्रयोजनत्वममिति मत्वा परिहरति - तदपीति । नन्वेकस्मिन्वाक्ये विधिद्वयायोगाद्धर्म्मस्य ज्ञेयत्वाभिधानं प्रयोजनत्वेनैव व्याख्येयमत आह - निष्कारणतयेति । श्रेयःसाधनत्वेन धर्म्मस्य निष्प्रयोजनत्वायोगात्रिष्कारणशब्दस्य षडङ्गशब्देनैवान्वयात्पौरुषेयेषु च वाक्यभेदस्यादोषत्वादित्याशयः । एतदेव विवृणोति - निष्कारणेति । कार्य्यतेऽनुष्ठाप्यतेऽनेनेति व्युत्पत्त्या प्रयोजनवचनोऽयं कारणशब्द इति वक्तुं निष्प्रयोजनत्वशब्दः । अवेदत्वाच्चास्यागमत्वं नास्तीत्याह-आगम इति । नन्व- वेदत्वेऽपि वेदमूलत्वेनागमत्वं भविष्यतीत्याशङ्क्याह -कथं चेति । नन्वेवं तर्हि तस्याः स्मृतेर्वेदमूलत्वाभावे वेदाध्ययनस्यावैधत्वं स्यादित्याशङ्क्याह तस्मादिति । न च केवल- वेदविषयस्य विधेर्नित्यानित्यसंयोगविरोधोऽस्तीत्याह- उपपन्नं चेति । ननु व्याकरणादेरपि प्रवाहानित्यत्वात्रित्यविधिविषयत्वं विरोत्स्यत इत्यत आह - व्याकरणादीति । प्रत्यक्ष- श्रुतिविषयत्वं सति तदन्यथानुपपत्त्या प्रवाहानित्यत्वं कल्प्येत, तदभावेऽप्यपस्मृतित्वेनाप्यु- पपत्तेर्न कल्पनागौरवाश्रयणं युक्तमित्याशयः । न चास्य वेदत्वेन, तत्तुल्यत्वेन वा स्वयमागमत्वं सम्भवति, कल्पसूत्राधिकरणे निरस्तत्वादित्याह - न चेति । किं च प्रधानं च षडङ्गेषु व्याकरणमिति भाष्येण वेदाङ्गत्वाद्याकरणस्यैतदागमप्रयोजनत्वमुक्तम् । अङ्गशब्दश्च तादर्थ्यवाची वा स्यात्, अवयववाची वा नोभयथापि व्याकरणस्याऽङ्गतास्ती- त्याह -- न चेति । उभयरूपाभावमुपपादयति --श्रुतीति । कस्तर्ह्यस्याः स्मृतेरर्थ इत्यपेक्षा- यामाह - तस्मादिति । लिङ्गादिरशब्दरूपत्वेऽपि तत्कल्प्यानां श्रुतीनां वेदावयवत्वं भविष्यती

प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः । साकाङ्क्षफलवत्सन्निधानं रूपं

२४ ] प्रथमाध्याये तृतीयपादः ५५३ प्रकरणस्य विनियोजकत्वे फलसंयोगाभावो हेतुः । साकाङ्क्षफलवत्सन्निधानं रूपं फलवति विनियोजकत्वे सादृश्यं हेतुः । निराकाङ्क्षफलवत्सन्निधानं रूपं फलवत्याकाङ्क्षो- त्थापनेन विनियोगः फलम्, सामान्यतः प्राप्तिः समाख्याया विनियोजकत्वे हेतुः-यौगिक- शब्दत्वं रूपं प्रतियोगिनि विनियोगः फलमिति । पृथग्भूतैर्हेतुरूपफलैः प्रविभक्तरूपेण श्रुत्यादिज्ञानं मीमांसानिरपेक्षाद्वेदाध्ययनमात्रान्न सिध्यतीत्याशयः । ज्ञात्वेति च ज्ञास्यामीत्य- व्यवसायैत्येवमग्निनष्टोमसाम कृत्वेतिवद्व्याख्येयम् । विधेरर्थमित्यनेन षडङ्गो वेदोऽध्येयो ज्ञेयश्चेत्यागमस्य वेदः पठितव्यः । स च परस्परविविक्तश्रुत्यादिषडङ्गरूपेण ज्ञेय इत्यर्थः । सूचितं मीमांसाधीनत्वं चास्यार्थस्य न इत्यस्मदा सूचितम् । ननु ज्ञेयशब्दस्य षडङ्गशब्दान्वये धर्मशब्दस्यानन्वयापत्तेनर्नान श्रुत्यादीनां चोक्तरूपेण ज्ञानं विधीयत इत्याशङ्क्य अध्येयशब्दस्यैवेण् गतावित्येतद्धात्तुरूपत्वाङ्गीकरणेन ज्ञान- विधायकतेति व्याख्यानान्तरमाह-अधीति । अकारप्रश्लेषरहितेन वानेन ध्यानं विधीयत इति तृतीयं व्याख्यानमाह-ध्यायतेरिति । अध्ययनविधित एव नान्तरीयकतायाध्ययन- सिद्धेर्विधानानर्थक्यमित्याशङ्क्य श्रुत्याद्युपायार्थप्रतिपादकत्वरूपेण षडङ्गस्य वेदस्य ध्यानं विवक्षितम्, न स्वरूपेण तस्यापि च वेदार्थविधारणकालसिद्धत्वात्पश्चादप्यनुष्ठेयत्वसिद्धयर्थं विधानमिति दर्शयितुमाह-श्रुत्यादीति । एवं च मीमांसाध्ययनानुष्ठापकतेवास्यागमस्याव- सोयते, न व्याकरणाध्ययनानुष्ठापकतेत्यनुष्ठापकत्वेनागमस्य व्याकरणप्रयोजनत्वाभिधा- न युक्तमित्याह-ततश्चेति । अनुष्ठानाधंत्वाद्वा विधिवाक्याध्ययनमात्रेण स्वाध्यायविध्यर्थ- सिद्धेरर्थवादान्तर्गतव्याकरणाद्यङ्गसहितवेदाध्ययनविधानाथंत्वेनास्यागमस्य न पाणिन्‍यादि- प्रणीतग्रन्थाध्ययनानुष्ठापकतास्तीति चतुर्थी व्याख्या तामाह-वेद इति । श्लोकं व्याचष्टे- तद्दध्न इति । तदेनमधिनोत्त्तद्दध्नो दधित्त्वमिति धिनोतेः प्रीणातिकर्मणो दधित्त्वशब्दनिर्व- चनादेतन्निरुक्तोदाहरणम् । तदाहुर्यदन्यो जुहोत्यथ योऽनुवाहयति, तं च कस्मान्न होतेत्या- चक्षत इति पृष्टे यद्भाव स तत्र यथाभाजनं देवता अमुमावहामुमावहेत्यावाहयति तं देवहोतुर्होतृत्वमिति ह्वयतेः कृतसम्प्रसारणस्यैतद्रूपम् न तृजन्तं जुहोतेरिति प्रकृतिविशेषा- न्वाख्यानाच्च व्याकरणोदाहरणम् । आदिशब्दोपात्तस्य छन्दोविचित्यादेरष्टाक्षरा गायत्रीत्याद्युदाहरणं यथासम्भवं मृग्यम् । अस्तु वा निरुक्तादिग्रन्थानां षडङ्गाध्ययनस्मृतिविषयत्वम् । ननु व्याकरणस्य प्रातिशाख्यैः पूरयिष्यत इति पञ्चमीं व्याख्यामाह-प्रातिशाख्यानि वेति । यानि प्रातिशाख्यान्यध्येतारोऽधीयते । तेष्वेव षट्संख्यापूरणार्थं सङ्गतम्, न व्याकरणेष्वित्येवकारार्थे द्वितीयो वाशब्दः । गृह्यमाणं लिङ्गेन स्वाध्यायार्थत्वं ह्येषामिति हेत्वर्थः; वेदसंहिताध्ययनानुगतस्वरसन्ध्याद्यनुसारामिधानार्थंः । स्वाध्यायत्ववदिति वतिः स्वाध्यायानुगतस्वराद्युच्चारणनियामकत्वरूपं प्रयोगशास्त्रत्वं तादर्थ्यग्रहणहेतुतया स्वाध्याय- वदित्यनेनोक्तमुपपादयति-यानि हीति । तदुपपादितं गृह्यमाणतदर्थत्वं व्याचष्टे-

५५४ मीमांसादर्शनम् [ सू० तेष्विति । अतस्तेष्वित्यध्याहारेण योज्यम् । एवकारार्थस्य वा शब्दस्य व्यावत्त्यमाह— नन्विति । ननु कतिपयानामपि तावद्वैदिकशब्दानामुच्चारणनियामकत्वात् व्याकरणानामपि प्रयोगशास्त्रताऽस्तीत्याशङ्कयाह—प्रातिशाख्यानीवेति । अन्वाख्यायमानेष्वपि वैदिक- शब्देष्वध्ययनानुगतस्वरसन्ध्यादियुक्ते रूपे व्यापाराभावान्नँषां प्रयोगशास्त्रताऽस्तीति नियामकत्वाद्व्याकरणानामपि प्रयोगशास्त्रतास्तीति परिहरति—नेति । प्रातिशाख्यानां वेदस्वरूपे व्यापारं विवृणोति—प्रातिशाख्यैः पुनरिति । उदात्तपौर्वापर्यत्वे तयोर्मध्ये कालः स्वरसन्धिः, सर्वानुदात्तपदसंहतिः प्रयत्नः असंहिता विवृतिः स्वरितस्योदात्तोऽंशः पूर्वाङ्गः, अनुदात्तः पराङ्गः आदिशब्देनाङ्गाद्युक्तम् । एवं तावद्वेदकरणाध्ययनविधायक- त्वान्नास्यागमस्य व्याकरणं प्रत्यनुष्ठापकत्वरूपप्रयोजकत्वान्नास्य किमपि प्रयोजनत्वम् - सम्भवतीत्युक्तम् । इदानीमस्यागमस्य व्याकरणाध्ययनविधायकत्वेऽपि निष्कारणशब्देनाध्ययनमात्रपर्य- वसानादसायादर्थज्ञाननिरपेक्षाध्ययनमात्रेण शब्दानामनुशासितुमशक्यत्वाच्छब्दानुशासनस्य रक्षोहागमलध्वसन्देहाः प्रयोजनमिति पूर्वोक्तेन प्रतिज्ञानेन तव प्रयोजनत्वेनाभिमतस्या- गमस्यानुसन्धानसंवादो नास्तीत्याह—पूर्वोक्तेनेति । यो ह्ययमागमस्त्वया प्रयोजनत्वे- नोपन्यस्तः । सोऽध्ययनं प्रति तन्मात्रे पर्यवस्यति, न शब्दानुशासनपर्यन्तं गच्छति, प्राक्शब्दानुशासनमागमप्रयोजनत्वेन प्रतिज्ञातमित्यध्याहारेण योज्यम् । अस्माच्चागमाद- ध्ययनमात्रे धर्म इति प्रतीतेर्महाभाष्यकृता ज्ञाने धर्म इति वक्ष्यते । शास्त्रपूर्वं प्रयोगेऽभ्युदय इति च वार्तिककृता । तदुभयमप्यागमविरुद्धं स्यादित्याह—ब्राह्मणेनेति । यच्च लघवार्थं चाध्येयं व्याकरणमित्यादिभाष्येण लघुनोपायेन शब्दज्ञानं व्याकरणस्य प्रयोजनमित्युक्तम् । तत् अत्यन्तक्लिष्टत्वेन व्याकरणस्य लघूपायत्वायोगात्प्रयोजनात्तिक्लिष्ट- व्याकरण।ध्ययनमध्येतुलंघिवं मन्दबुद्धित्वमापादयतीत्यह्येतुल्लाघवमेवास्य प्रयोजनमित्येवं व्याख्येयमित्युपहसति—यद्यपि चेति । उपहासान्तरमाह—यदि वेति । श्लोकं व्याचष्टे— लोकप्रसिद्धानामेवेति । धातुशब्देन धातुपाठो विवक्षितः । गणशब्देन गणपाठ उणादिशब्देन दशपादी पञ्चपादी वा । सूत्रशब्देनाष्टाध्यायी । आदिशब्देन वार्त्तिकादीनां तेषां पाठतोऽर्थतश्च क्लिष्टत्वादत्यन्तवैषम्यं विशेषणं क्लिष्टार्थत्वोपपादनायोत्तरवदत्रापि विग्रह- द्वयम् । अलौकिकीमिवृद्धिरादैजित्यादिभिः संज्ञाभिः, इको गुणवृद्धीत्याद्याभिश्च परिभाषा- भिर्निबद्धा प्रक्रिया येषां धात्वादीनामिति प्रथमविग्रहः, द्वितीयस्त्वनवस्थितौ स्थापनाक्षेपौ यस्य सिद्धान्तस्य स सिद्धान्तो यस्य विचारस्य, स विचारो येषु धात्वादिष्विति द्वन्द्व- गर्भबहुव्रीहिगर्भो बहुव्रीहिः । तद्यथा सिद्धे शब्दार्थसम्बन्धे इति शास्त्रारम्भवार्त्तिके भाष्यकृता सिद्धे शब्देऽर्थे सम्बन्धे चेति विग्रहं कृत्वा नित्यपर्यायवाचित्वेन सिद्धशब्दं व्याख्यायं कं पुनः पदार्थं मत्वैष विग्रहः क्रियत इति विचारमुपक्रम्य, आकृतिमित्याहेत्या- कृत्यभिप्रायत्वं प्रतिज्ञायाः, आकृतिर्हि नित्या, द्रव्यमनित्यमिति हेतुमुक्तवाऽथ वा द्रव्यपदार्थं एष विग्रहो द्रव्यं हि नित्यमाकृतिरनित्येति द्रव्यार्तानन्द्रियत्वमुक्त्वा पुनराकृतावपि पदार्थं

२४ ] प्रथमाध्याये तृतीयपादः ५५५ एष विग्रहो न्याय्य इत्युक्त्वा नित्याकृतिरेकद्रव्यविनाशोऽपि द्रव्यान्तरे प्रत्यभिज्ञानादिति चाक्षेपं परिहृत्य, कूटस्थनित्यत्वाभावेऽपि वा पट्टकुटीवद्विनष्टा वा अथाकृतेर्द्रव्यान्तरभावेऽय- मिति तत्त्वप्रतिज्ञानान्नित्यतेति परिहारान्तरमुक्त्वा अथ वा किं न एतेन इदं नित्यमिदम- नित्यमिति यन्नित्यं तं पदार्थं मत्वैष विग्रहः क्रियत इति पदार्थविचारसिद्धान्तस्थापना- क्षेपानवस्थितहेतूपन्यासेनानावस्थितौ कृते एवमत्यन्तविषमर्धार्त्वादिलोकप्रसिद्धानामेव शब्दानां क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रकरणांन्निष्फलश्रमापत्तिरित्यर्थः । तत्र ‘अपि चेत्य’नेन यथावस्थितशब्दज्ञानमपि सर्वंप्रतिपत्तॄणां न भवतीत्युक्तम् । स्तुत्यर्थ- मित्यन्तासम्भाविता स्तुतिरपि न सम्भवतीति सूचितम् । ननु भाष्यकृता न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुमिति लघूपायान्तराभावाभिधानाद् गुरोरप्यस्य प्रतिपदपाठामकगुरुतरोपायपेक्षया लघुत्वं भविष्यति एतदेव चान्यैरुपपादितमित्या- शङ्क्यानुभाषणपूर्व्वकमुपसंहरति—यदपीति । तत्त्वावबोधो रूपादेर्नास्ति व्याकरणादृते इत्याद्यपि वक्तव्यमित्यर्थः । ननु रूपादेः प्रत्यक्षगम्यत्वान्न व्याकरणापेक्षा, तत्साधुशब्दविवेकस्य तु व्याकरणमन्तरेणाज्ञानादुपहासो युक्त इत्याशङ्कयार्थप्रतीतिसाधनत्वात्सर्वेषां गोगाव्यादिशब्दानां साधुत्वे तेषां च श्रोत्रेन्द्रियागम्यत्वान्न व्याकरणपेक्षेत्यभिप्रायेण परिहरति—को हीति । प्रमाणान्तरा- गोचरार्थविषयत्वं शास्त्रस्य स्वभावः । प्रमाणान्तरगृहीतार्थानुवादित्वं लोकस्य । इति करणार्थवाची ईदृशशब्दप्रयोगात्तत्त्वावधारणमिति प्रथमा कीदृशं तर्ह्यर्थप्रवृत्तितत्त्वानां शब्द एव निवन्धनमिति श्लोकस्योत्तरार्द्धं वक्तव्यमित्यपेक्षायामाह—अत इति । यद्यप्यसन्देहार्थं चाध्येयं व्याकरणमित्यादिभाष्येण वेदार्थगतसन्देहनिवृत्तिप्रयोजनत्वं व्याकरणस्योक्तम् । तदपि दूषयति—असन्देहश्चेति । पदार्थगतस्य चासन्देहस्य निवृत्ति- र्व्याकरणस्याप्रयोजनम्, वाक्यार्थमन्तरा वा उभयथाप्यन्यतः सिद्धत्वात् व्याकरणान्नचा- सिद्धेनं व्याकरणप्रयोजनमित्यर्थः । पदार्थसन्देहनिवृत्तेरन्यतः सिद्धिमुपपादयति—पदार्थेति । व्याकरणेन चासिद्धिमुप- पादयति—व्याकरणेन पुनरिति । नन्वीदृशं पदमस्मिन्नर्थे साध्वित्यर्थविशेषावच्छिन्नस्यैव पदस्वरूपस्यान्वाख्यानादर्थज्ञानमपि व्याकरणात्सम्भवतीत्याशङ्क्य शब्दान्वाख्यानोपाय- मात्रके व्याकरणेऽर्थकथनं न तात्पर्य्येणेति निदर्शयितुमाह—तथा हीति । व्याकरणाद्धि सर्वनाम्नां धातुजत्वेन क्रियायोगनिमित्तता प्रतीयते । न च वृद्धव्यवहारे तथा प्रतीति- रित्यर्थः । अत्रैवोदाहरणमाह—गमेरिति । अनेन सूत्रेण गत्यर्थात् गमेर्धातोरौणादिके डोप्रत्यये विहिते डित्करणाच्च टिलोपे कृते कर्त्तरि कृदिति गन्तरि गोशब्दव्युत्पादनाया- न्वाख्यानादरे लोके सिद्धा जातिवाचिता हीयेत । लोकमूलत्वाच्च व्याकरणस्य नैतद्यु- क्तमित्यर्थः (उदाहरणान्तरमाह—तथेति । कुशला दातरि कुशलशब्दस्य दातरि च

५५६ मीमांसादर्शनम् [ सू० दारशब्दस्य व्याकरणेऽनुगमः । लोके च प्रवीरा ये कुशलशब्दस्य दातृमहत्त्वयोश्च दारशब्दस्येत्यर्थः १ ।) अकृदन्तेष्वपि कृदन्तत्वान्वाख्यानाद् व्याकरणस्य लोकविरोधमुक्त्वा, समासाभावेऽपि समासान्वाख्यानात्सर्वविरोधमाह - अश्वेति । अतद्धितान्तेष्वपि तद्धितान्तवद्व्याख्याना- द्विरोधमाह-एवमिति । वेदविरुद्धार्थान्वाख्यानादङ्गव्याघातशङ्कापत्तेर्न व्याकरणस्यार्थे तात्पर्यमित्याह- तथेति । अत्रैवोदाहरणद्वयमाह कलेरिति । आपो वा ऋद्धिमियमार्च्छन् । तासां वायुः पृष्ठेत्यवर्त्तते ततो वसुत्, तवामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यताम्, तावब्रूतां वामं मर्या इदं देवेष्वजनीति, तस्माद्वामदेव्यमिति वामदेवेष्विति समभिव्याहृतशब्दद्वयोच्चा- रणनिमित्तवामदेव्यशब्दव्युत्पत्तिः । कलनक्रियानिमित्तकालेयशब्दव्युत्पत्तिश्च वैदिकीं वैयाकरणीं दर्शननिमित्तां बाधत इत्यर्थः । कल्पसूत्रकारैश्च कृष्णश्मवास इति कृष्णशशशब्दस्य व्याकरणाननुगतदकारापगमेन कृष्णदशब्दवाचितया व्याख्यानात्कृष्णवलक्षे अजिने इति च वलक्षशब्दस्य लोकव्याकरणा- नवगतशुक्लत्ववाचितया व्याख्यानात्, यूपादिशब्दानां च व्याकरणमनादृत्यैव व्याख्यानान्न व्याकरणस्य पदार्थनिश्चायकत्वमस्तीत्याह-तथेति । अन्वस्तु नाम पदान्तरेषु व्याकरणान- पेक्षोऽर्थनिर्णयः । यत्तु भाष्यकृता स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेत्यत्र किं स्थूला चासौ पृषती चेति कर्मधारयः, स्थूलानि पृषन्ति यस्याः सेयं स्थूलपृषतीति बहुव्रीहिर्वेति सन्देहनिवृत्तिर्नवैयाकरणस्य भवतीत्युक्तम् । तत्र कः परिहार इत्याशङ्क्याह- यथा चेति । पदार्थसन्देहनिवृत्तेर्व्याकरणप्रयोजनत्वं निराकृत्य वाक्यार्थसन्देहनिवृत्तिरपि निरा- करोति-किं चेति । ननु वाक्यार्थसन्देहनिवृत्तिप्रयोजनत्वं भाष्यकृतानुक्तत्वान्न निराकार्यं- मित्याशङ्क्य, प्रसङ्गापादनार्थं तन्निराकरणमित्याह-यदीति । किंचिदित्यक्रियार्थत्व- मभिमतम् । औदुम्बराधिकरणस्य साध्यांशविचारार्थत्वाभावे किमीदुम्बरत्वस्य फलसम- भिव्याहारः साधारणत्वप्रतिपत्त्यर्थः, प्रशंसार्थो वेति व्याख्येयम् । प्रमाणान्तरेणाऽन्नकरण- त्वस्य होमसम्बन्धहेतुत्वमज्ञातं ज्ञाप्यत इत्यज्ञातज्ञापनाभिप्रायो विधिशब्दः हेतुद्वारोऽर्थवाद इति शाकपार्थिववन्मध्यमपदलोपी समासः । दृष्टार्थत्वशब्देनार्थतात्पर्यमात्रं सर्वमन्त्रसा- धारणं मन्त्राधिकरणे व्युत्पादितम् । न स्मारकत्वम्, स्तोत्रशस्त्रादिमन्त्रव्यापकत्वादिति दर्शितं व्याकरणानपेक्षोदाहरणम्युक्तैकत्वविवक्षायामेकवचनस्मृतेर्व्याकरणेनैकत्वविवक्षा- प्रतीतेर्विरोधोऽप्यस्तीति दर्शयितुम्-प्रहेत्युक्तम् । न त्वनन्यलभ्यस्य प्रयोजनवदर्थवाद- त्वादिनिर्णयस्य च मीमांसासिद्धत्वान्न व्याकरणप्रयोजनत्वोपपत्तिरिति स्वयमेवाशङ्क्याह- अथेति । स्थूलपृषत्यादिशब्दार्थस्यापि कल्पकारादिव्याख्यानान्निर्णयः सेत्स्यतीत्याशयः । १. अयं पा० २ पु० ना० ।

२४ ] प्रथमाध्याये तृतीयपादः ५५७ ननु मूलप्रमाणानिरपेक्षस्य व्याख्यानमात्रस्य निर्णायकत्वं न युक्तमित्याशङ्क्यः, त्वयाऽपि व्याख्यानिर्णायकत्वाभ्युपगमान्नेदं दूषणमित्याह—अपि चेति । लक्षणोत्थसन्देहे व्याख्यानस्य निर्णायकत्वप्रतिपादकं भाष्यं वेदोत्थसन्देहेन योजयितुमाह-व्याख्यानत इति । भाष्यकृता हि शास्त्रारम्भवार्त्तिकगतस्य सिद्धशब्दस्य (एकपरिहारयुक्तानि सार्थत्वमुपपाद्य चतुर्थः परिहारोऽभिहित इत्यन्वयः सिद्धशब्दस्य१) कः पदार्थ इति पृष्ट्वा सिद्धा द्यौः सिद्धा पृथिवी सिद्धमाकाशमिति नित्येषु प्रयोगान्नित्यपर्यायवाची सिद्धशब्द इत्युक्त्वा, सिद्ध ओदनः, सिद्धः सूपः, सिद्धा यवागूरिति कार्येष्वपि प्रयोगात्कथं निर्णयः इत्याशङ्क्य, संग्रहे तावत्कार्यप्रतिद्वन्द्विभावप्रसिद्धमिति भाष्येण संग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे किं कार्यः शब्दः सिद्धो वेति कार्यप्रतियोगित्वेन नित्यार्थत्वावसायादिहापि तदर्थ्यनिर्णय- इत्येकं परिहारमुक्त्वा, अथ वा सन्त्येकपदान्यप्यवधारणानीति भाष्येणाब्भक्षो वायुभक्ष इतिवत्सिद्ध एव न साध्य इत्यवधारणेन नित्यार्थत्वमुपपाद्य, अथ वा पूर्वपदलोपोऽत्र द्रष्टव्यः । अत्यन्तसिद्धः सिद्ध इति तद्यथा देवदत्तो दत्त इति सत्यभामा भामेति भाष्येणा- त्यन्तत्वविशेषणेन नित्यार्थत्वमुपपाद्याथ वा व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादल- क्षणमिति नित्यपर्यायवाचिनो ग्रहणमिति व्याख्यास्याम इति भाष्येण चतुर्थः परिहारोऽ- भिहितः । ननु लक्षणोत्थसन्देहनिवृत्तिर्लक्षणकारपुरुषकृतव्याख्यानपरम्परयोपपद्यते, वेदे तु कर्तृभावेन तत्कृतस्य व्याख्यानस्य मूलत्वायोगात् व्याकरणं वेदव्याख्यापरम्पराया मूलं भवतीत्याशङ्क्याह-न चेति । कल्पादिभ्यो वेदार्थग्रहणे व्याकरणमात्रेण व्याख्यानाशक्तेः कल्पादीनामेव मूलत्वं युक्तमित्याशयः । वेदवदनादित्वात् व्याख्यानपरम्परा न मूलान्त- रमपेक्षत इत्याह-यथैवेति । ननु भाष्यकृता यदि पूर्वपदप्रकृतिस्वरत्वम्, ततो बहुव्रीहिः । अथ समासान्तो- दात्तत्वं ततस्तत्पुरुष इति भाष्येण बहुव्रीहौ प्रकृत्या पूर्वपदमिति बहुव्रीह्या- द्यस्य पदस्य प्रकृतित्वाभिमताद्युदात्तस्वरत्वस्मृतेरुदात्ताधिकारे चान्तोवत्या इत्यतोऽन्त इत्यनुवर्त्तमाने समासस्येति सूत्रेण समासविशेषनिर्णयान्तरेभूतसंगः अन्तोदात्तत्वस्मृतेरनुदात्तं पदमेकवर्जमिति च विहितस्वरवर्जनमुदात्तत्वस्मृतेर्बहुव्रीहिं विना आद्यपदोदात्तत्वायोगा- द्व्याकरणस्य समासविशेषनिर्णयद्वाराथंविशेषनिर्णायकत्वाभिधानाद्व्याकरणस्य निर्णायक- त्वाभिधानाद्व्याकरणाधोनादध्येतृप्रसिद्धाद्युदात्तत्वाद् बहुव्रीहित्वेन स्थूलपृषत्यादिशब्द- व्याख्येत्याशङ्क्याह-न चेति । श्लोकं व्याचष्टे - वृद्धेति । वेदे तु स्वरविवेके सत्यप्यर्थ- विशेषेण सह स्वरविशेषस्य सम्बन्धग्रहणाभावान्न स्वरविशेषं कृत्वाऽर्थविशेषव्यवस्था युज्यत इत्याह-यत्र त्विति । ननु वेदे सम्बन्धग्रहणाभावेऽपि लोक्तोऽनेकार्थतयाऽवगतस्य पदस्य वेदे श्रवणात्सन्देहे सत्यर्थप्रकरणादिभिर्निर्णयोऽभ्युपगम्यते । तत्र चार्थद्वयसाधारणस्य पदस्यैकत्रैवार्थे कथं वृत्तिरित्यपेक्षायां स्वरविशेषश्रवणात्तत्स्वरयुक्तस्यैव पदस्यासावर्थविशेष- १. अयं पा० २ पु० ना० ।

५५८ मीमांसादर्शनम् [ सू० निर्णायोपायतवं स्वरस्याप्यस्तीत्याशङ्क्याह—तत्रापीति । साधारणस्यापि शब्दरूपस्य लोकावधारितार्थप्रकरणादिनिर्णायोपायवशेनैव एकार्थपरत्वावधारणोपपत्तेर्न लोकानवगतस्य स्वरस्याप्यर्थनिर्णयसामग्रीमध्ये निवेशकल्पना युक्तेत्याशयः । ननु स्वरस्याभिधानाङ्गत्वेऽनर्थकः पाठः स्यादित्याशङ्क्याह—तेनेति । न कदा- चिददृष्टार्थतास्तीति दर्शयितुम् सर्वदेत्युक्तम् । ब्रह्मयज्ञेषु ज्योतिष्टोमादिषु ये जपमन्त्रा- स्तेऽप्यङ्गममिति निष्कृष्य योज्यम् । जपन्यूनसामव्यतिरेकेण यज्ञकर्मण्येकश्रुत्यस्मृतेश्चकारेण न्यूनसाम्नामुपादानम् । एवं च व्याकरणेन स्वरानुगमो ब्रह्मयज्ञाद्युपयोगित्वेनार्थवानस्तु न त्वर्थनिर्णयार्थतेत्याशङ्क्याह—व्याकरणेति । अलौकिकेऽर्थे सम्बन्धग्रहणासम्भवेनावश्य- कत्वाज्ञानात्—लौकिकेत्युक्तम् । न वर्णवद्वाचकत्वेन लोके स्वरः प्रयुक्तो नाप्यानुपूर्थ्यादि- वद्वाचकसहकारिता—इत्यत्यन्तशब्देनोक्तम् । ननु लोकाप्रयुक्तेष्वप्युणादिशब्देषु वाचकत्वो- पलक्षणाल्लोकप्रयोगादेव वाचकत्वज्ञानमिति नियमायोगाद्व्याकरणादपि स्वरविशेषस्यार्थ- विशेषं प्रति वाचकत्वज्ञानं भविष्यतीत्याशङ्क्याह - न चेति । शास्त्रारम्भभाष्येऽथ शब्दानुशासनमिति शब्दान्वाख्यानार्थत्वाख्याने तात्पर्याभावान्न व्याकरणस्य प्रामाण्य- मित्याशयः । अत्रैव सूत्रावयवं योजयन्सन्देहप्रयोजनत्वासम्भवोपसंहरति—तस्मादिति । रक्षादीनामपि पूर्वोक्तप्रयोजनत्वासम्भवोपसंहारार्थोऽपिशब्दः । एवं मुख्यानि पञ्चप्रयोजनान्युपन्यासपूर्वकं दूषयित्वा, तेऽसुराः, दुष्टः शब्दः, यदधीतम्, यस्तु प्रयुङ्क्ते, अविद्वांसः, विभक्तिं कुर्वन्ति, यो वा इमाम्, चत्वारि, उत त्वः, सक्तुमिव, सारस्वतीं दशम्यां पुत्रस्य, सुदेवो असि वरुणेत्यानुषङ्गिकान्यपि त्रयोदशसंक्षेपतस्तावत् दूषयति—यान्यपि चेति । अम्लेच्छत्वमदुष्टोक्तिर्विज्ञानं फलभागिता । अस्त्र साम्यं विभक्त्युक्तिः सप्तमं चार्त्विज्जीनता ॥ मनीषिबत् सम्मतत्वं देवेन महताष्टमम् । वाक्यस्वरूपप्रकटनं लक्ष्म्या वाचि निधापनम् ॥ अप्रायश्चित्तमाक्तं च द्वादशं पुत्रनाम च । त्रयोदशं सुदेवत्वमुक्तं भाष्ये प्रयोजनम् ॥ प्रथमं च द्वितीयं च सप्तमं चाप्रयोजनम् । दशमैकादशौ चेति व्याक्रिया न ह्यपेक्ष्यते ॥ तृतीयादीनि चत्वारि नवमद्वादशे अपि । प्रयोजनवदाभान्ति किं तु नान्येन सिद्धितः ॥ सुदेव इति मन्त्रस्य चत्वारीति द्वयोरपि । असामर्थ्यं न चरममष्टमं वा प्रमाणकम् ॥

२४ ] प्रथमाध्याये तृतीयपादः ५५३ मुख्यप्रयोजनैश्च प्रयोजनवत्त्वासम्भवेन आनुषङ्गिकेष्वाशा युक्तेत्याह-अपि चेति । नद्या वेगेन नीयमानो यस्तीरगतं वृक्षमप्यवष्टभ्य स्थातुं न शक्नोति, तस्य यथा कुशावष्टम्भनं काशावष्टम्भनं चानर्थकम् तथैतदपीत्यर्थः । पूर्वोक्तमेव प्रपञ्चयितुं प्रत्येकमुपन्यस्योपन्यस्य दूषयति-तत्रेति । भाष्यकृता तेऽसुरा हेडलय हेडलय इति ब्रुवन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै 'म्लेच्छो ह वा एष यदपशब्द' इत्यपशब्दनिषेधवाक्यमुपन्यस्य म्लेच्छा माभूमेत्यध्येयं व्याकरणमिति भाष्येण म्लेच्छ- रूपापशब्दप्रयोगप्रयोक्तुम्लेंच्छत्वापत्ते र्ज्ञातस्यापशब्दस्य वर्जनायोगाच्छदापशब्दविवेक- ज्ञानार्थम्-व्याकरणमित्युक्तम् । यस्मादसुरा अरय इति रेफस्थाने लकार प्रयोगेण हैहप्रयोगे हैहेयोरित्येतत्सूत्रविहितप्लुतप्रयोगेण 'प्लुतप्रगृह्या अचीति' च प्रकृतिभाव- विधानाद्धे अरय इति प्रयोक्तव्ये हेडलय इति त्रिविधापशब्दभाषणरूपम्लेच्छनात्पराभवं प्राप्ताः तस्माद् ब्राह्मणेन न म्लेच्छितव्यम्, नापभाषितव्यमिति समभिव्याहारेणा- पशब्दनिषेधस्यापराभवार्थत्वप्रतीतेर्म्लेंच्छा माभूमेति म्लेच्छत्वपरिहारस्य प्रयोजनत्वं भाष्यकारोक्तमयुक्तमाशङ्क्य, पराभवाख्यानस्यापभाषणफलप्रदर्शनार्थत्वे प्रतीते म्लेच्छो ह वा एष यदपशब्द इत्यस्यानर्थक्यात्तरेपशब्दस्य म्लेच्छशब्दप्रयोक्तुम्लेंच्छत्वं भवतीत्य- पशब्दम्लेच्छत्वाभिधानार्थवादस्य फलपरत्वसूचनायोपन्यासार्थवादतोक्ता, निषेधस्य तु प्रयोजनत्वमागमवत्प्रयोजकत्वेनाक्षेपकत्वेनोक्तम् । स निषेधो यथा गुरुसम्प्रदायागतवैदिक- शब्दविषयो म्लेच्छभाषाविषयो वा । न तु गाव्यादिशब्दविषयग्रन्था । यद्यपि च तस्माद् ब्राह्मणेनेत्यादिग्रन्थेन प्रागुक्तमित्यर्थः । ततश्च व्याकरणानपेक्षत्वान्न तत्प्रयोजनत्वयोग्य- तेत्याशयः । यच्च भाष्यकृता- 'दुष्टः शब्दः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधाद् ॥ इति श्लोकमुपन्यस्य दुष्टांश्छेब्दान्माप्रयुङ्क्ष्महोत्यध्येयं व्यकरणमिति भाष्येण दुष्टशब्दवर्जनं व्याकरणप्रयोजनमुक्तम् । तदपि मन्त्रविनाशविषयत्वस्य च व्याकरणान- पेक्षत्वान्न व्याकरणप्रयोजनत्वयोग्यमित्यर्थान्तरन्यासेनाह-दुष्ट इति । अत्रापि पूर्ववद्व्या- करणानपेक्षत्वात्तत्प्रयोजनत्वयोग्यतेत्यपिशब्देन सूचितम् । ननु दुष्टादुष्टशब्दज्ञानस्य व्याकरणा- धीनत्वात्कथं तदनपेक्षत्याशङ्क्य दुष्टः शब्द इति पाठे भवेद् व्याकरणापेक्षा, न त्वोदृशः पाठोऽस्तीति दर्शयितुमाह-वाग्वीति । मन्त्रो हीनः स्वरतो वर्णतो वेति बहुजन- प्रसिद्धस्य शिक्षाकारपठितस्य मन्त्रपदस्योद्धारेण पदान्तरप्रक्षेपः स्वपक्षानुरागमात्रेण कृतः, न वस्तुत इत्यर्थः । मन्त्रविनाशविषयत्वे चास्य वाक्यस्य श्रुतिमूलत्वं भविष्यतीत्याह- दुष्टेति । दुष्टपदप्रक्षेपेऽपि मन्त्रदोषविषयत्वे नोपपत्तेर्व्याकरणापेक्षानापादकत्वात्पाठान्तरो- त्प्रेक्षानर्थक्यसूचनायौ दुष्टशब्दः शब्दमात्रदोषविषयत्वेऽस्य वाक्यस्य निर्मूलत्वसूचनायैस्तु-

सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु-

५६० मीमांसादर्शनम् [ सू० शब्दः । उदाहरणपर्यालोचनयापि मन्त्रविनाशविषयतैवास्य श्लोकस्यावसीयत इत्याह— तथा चेति । स यज्ञवशसं कृत्वा प्रासहामसोममपिबत् तस्य यदीयशिष्यत तत्त्वष्टाऽऽहवनीय- मुपप्रावात्तंयत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति यदवर्तंयत्तद् वृत्रस्य वृत्रत्वं यदब्रवीत्स्वाहेन्द्रशत्रुर्वर्द्धस्वेति तस्मादस्येन्द्रःशत्रुरभवदि (तै. सं २.२.२१)त्या याद्युदात्तेन्द्रशत्रुपदप्रयोगेणेन्द्रो यस्य शत्रुरिति बहुव्रीह्यर्थसम्पत्तेस्त्वष्टुः पुत्रस्य वृत्रस्येन्द्रः शातयिता हिंसितो जात इत्याद्युदात्तत्वलक्षण- स्वरदोषेण वृत्रशत्रोरिन्द्रस्योत्पत्तिवादिन्द्रवधसमर्थपुत्रोत्पादनार्थं यागं कुर्वाणस्य त्वष्टुर्यजमा- नस्याभिप्रेतार्थासिद्धिलक्षणा हिंसा जातेति स्वरापराधलक्षणमन्त्रविनाशनिमित्तयजमानगा- मिदोषोदाहरणं कृतमित्यर्थः । इन्द्रशत्रुरिति मन्त्रपदं स्वरापराधात् यथा यजमानं हिनस्तीत्युदाहरणार्थः । तस्मादिन्द्रस्य शत्रुर्भुत्वा वर्द्धस्वेति तत्पुरुषार्थविवक्षायां मन्त्रोदा- हृतमिदं प्रयोक्तव्यमित्याशयः । यच्च नाम भाष्यकृता— 'यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥' इति श्लोकमुपन्यस्य, तस्मादविज्ञातमनर्थकमधिगीष्महीत्यध्येयं व्याकरणमिति वेदाध्ययनसाध्यं वेदार्थज्ञानं व्याकरणप्रयोजनत्वेनोक्तम् । तद्व्याकरणप्रयोजनत्वेनाभास- मानमप्यन्यतः सिद्धेनं व्याकरणप्रयोजनमित्याह—यस्त्विति । अध्ययनविधेर्दृष्टार्थत्वाभि- धानान्मीमांसाप्रयोजनत्वेनैतद्युक्तं भवतीत्याशयः । ननु मीमांसावद्व्याकरणमपि वेदार्थ- ज्ञानसाधनं भविष्यतीत्याशङ्क्याह—तन्विति । शब्दानुशासनार्थत्वेनार्थपरत्वाभावः सूत्रावयवयोजनया सूचितः । नन्वर्थविशेषविषय शब्दानुशासनानन्तरीयकत्वेनार्थानु- शासनमपि सेत्स्यतीति, स्वयमेवाशङ्क्योत्तरं सूत्रावयवं परिहारे योजयति—शब्देति । नन्वर्थगतसन्देहविपर्ययनिरासमात्रस्य मीमांसासाध्यत्वाद्भेदात्स्वरूपज्ञानं व्याकरणाद्भूविष्य- तीत्याशङ्कां निरस्यन्नुपसंहरति तस्मादिति । यच्च— 'यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति फलं परत्र वाग्योगविद् दुष्यति चापशब्दैः ॥' इति श्लोकेन शब्दव्यवहारकालेऽर्थविशेषे सम्यक्शब्दप्रयोगस्य पारलौकिकफलप्राप्ति- हेतुत्वाभिधानात्तत्सिद्धिर्व्याकरणस्य प्रयोजनमिति भाष्यकृतोक्तम् । तदप्यन्यथा व्याख्यातुं शक्यत्वात्प्रयोजनाभासमित्याह—यस्त्विति । गुरुसम्प्रदायागते स्वरादिविशेषे कुशलः सन्वेदाध्ययनादिव्यवहारकाले वैदिकांश्शब्दान्प्रयुङ्क्त इति व्याख्येयमित्याशयः । ननु मन्त्रब्राह्मणेष्वपशब्दाभावात्तद्विषयत्वे दुष्यति चापशब्दैरित्ययुक्तं स्यादित्याशङ्क्याह— यथेति । कथं वैदिकशब्दविनाशविषयताऽस्याऽवसीयत इत्यपेक्षायामाह—स्वाध्यायेति ।

२४ ] प्रथमाध्याये तृतीयपादः ५६१ पौरुषेयत्वेनास्य प्रमाणान्तरावगतदोषानुवादत्वावसायादुदाहृतेन वचनेन यजनयाजनगत- वेदशब्दविनाशहेतुकदोषावगतेरादिशब्दाच्चेतिकरणसूचितेन च— 'हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ इति स्मृत्यनुमितेन वचनेनाध्ययनाध्यापनगतवेदशब्दविनाशहेतुकदोषावगतेस्तद्विषयत्व- नियम इत्याशयः । यद्यप्येषांमृगादिशब्दानामुपक्रमानुरोधेन वेदपरत्वं तृतीये वक्ष्यते । तथापि ऋग्वेदादिविहितमन्त्रविषयाया अप्यार्तेर्विनाशाख्यायाः पदार्थान्तरातिवत्सामान्य- शब्देनोपपादानादविरोधः । ननु प्रकृतिप्रत्ययरूपयोर्वाचयोर्योगं सम्बन्धं वेत्तीति व्युत्पत्त्या वाग्योगविच्छब्देन वैयाकरणाभिधानात्तत्समभिव्याहारेणास्य वाक्यस्य व्याकरणानुगताननुगतशब्दप्रयोगविषय- तावगम्यत इत्याशङ्क्य त्रेधा परिहरति—वागिति । वाचः प्रतियोगितयाऽऽक्षिप्तोऽर्थेन यो वाचं वेत्तीति प्रथमे परिहारे निगमनिरुक्तादिकुशलो वाग्योगवित् । द्वितीये तु वाचो वचनस्य योगं पदार्थविषयविशेषरूपां व्यक्तिं ब्राह्मणवाक्येषु मन्त्रेषु च वाचो भासनस्य प्रकाशनस्य योग्यं योगमर्हं वेत्तीति मीमांसकोऽभिधीयते चोदितत्वेनावगतस्य स्वार्थत्वा- त्प्रकाशनार्हत्वम् अनूदितत्वेनावगतस्य परार्थत्वात्प्रकाशनार्हत्वं वेत्तीति समासार्थः । निर्वापमन्त्रे त्वग्नेश्चोदितत्वेनानुष्ठानाय स्मर्त्तव्यत्वात्प्रकाशनार्हत्वम्, सवित्रादीनां वा चोदितत्वेन निर्वापकस्तुत्यर्थत्वात्प्रकाशनार्हत्वं प्रसिद्धं विदेर्विचारणार्थत्वसूचनार्थं प्रकाशनार्हत्वं प्रतियोगितयोक्तं वैयाकरणस्य वाग्योगवित्त्वासम्भवोपपादनायास्य पदस्याऽन्येनार्थेन प्रकृतो योगः स्वाभाविकसम्बन्धोऽस्य वचनस्यैवम्भूतपदान्वयरूपा व्यक्तिरस्य वा मन्त्रस्यायमर्थः प्रकाशनयोग्य इत्येवं विविधप्रयोगोत्पत्तिं प्रति व्याकरणस्याशास्त्रत्वा- दिति त्रेधा सूत्रावयवं तन्त्रेण योजयति—वैयाकरणस्येति । यच्च-- 'अविद्वांसः प्रत्यभिवादे नाम्नो येन प्लुतिं विदुः । कामं तेषु तु विप्रोष्य स्त्रीष्विवाहमहं वदेत् ॥' इति श्लोकमुपन्यस्य स्त्रीवन्माभूमेत्यध्येयं व्याकरणमिति भाष्येण स्त्रीसाम्यपरिहारो व्याकरणप्रयोजनमित्युक्तम् । तदपि प्रयोजनाभासमित्याह—यदपीति । तत्प्लुतस्येति तच्छब्दोऽव्ययम् । यत्रेत्यर्थे तस्मिन् विषये तद्व्याकरणं प्लुतप्रयोगोत्पत्ति पूर्वशास्त्रे प्लुतस्वरूपस्य लोकसिद्धत्वात्नामान्ते च प्लुतप्रयोगस्य मन्वाद्युपदिष्टत्वादित्यर्थः । 'ऊकालोऽज्झ्रस्वदीर्घप्लुतः इत्येतत्सूत्राधीनत्वं प्लुतस्वरूपज्ञानस्य ह्युपगम्य प्रकृतिप्रत्ययान्वा- ख्यानद्वारा शब्दापशब्दविवेकार्थस्य नैकसूत्रमात्रसाध्यं प्रयोजनं युक्तमिति शब्देषु न व्यवस्था स्यादित्युत्तरसूत्रावयवयोजनया दर्शयति—न चेति । शब्दविषया व्यवस्था या व्याकरणेन क्रियते, सा न कर्त्तव्या स्यादित्येवं सूत्रावयवयोजनेन योजितः । ३६

५६२ मीमांसादर्शनम् [ सू० यच्च विभक्तिं कुर्वन्तीत्युपक्रम्य याज्ञिकाः पठन्ति प्रयाजाः सविभक्तिकाः कर्तव्या इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तकाः शक्याः कर्तुमिति भाष्येण विभक्तिज्ञानं व्याकरणप्रयोजनमुक्तम् । तदपि प्रयोजनाभासमित्याह-एवमिति । तदित्यव्ययं तत्रेत्यर्थे, तत्रापि व्याकरणमशास्त्रमित्यपिशब्दाध्याहारेण योज्यम् । कस्मादित्यपेक्षिते सौत्रं प्रयोगो- त्पत्तिपदं समासाद्निष्कृष्य हेत्वर्थत्वेन त्रिविधोपपत्तिपूर्वकं याज्ञिकेत्यादिना योजितम् । समिधः समिधोऽग्न आज्यस्य व्यन्तु,तनूनपादग्निनमग्न आज्यस्य वेतु, इडोऽग्निनमग्न आज्यस्य व्यन्तु, बर्हिरग्निरग्न आज्यस्य वेत्विति याज्ञिकदोषोद्देशेन सम्बुद्धिद्वितीयातृतीयाप्रथमानां विभक्तीनां प्रयाजेषु सिद्धत्वात् छान्दोग्यब्राह्मणे च षडहविभक्तिर्नानारूपेत्युपक्रम्याग्न इति प्रथमस्याग्नेः रूपम् अग्निमिति द्वितीयस्य, अग्निनेति तृतीयस्य अग्नेरिति, चतुर्थस्य अग्नेरिति पञ्चमस्याग्नेः इति षष्ठ्येति परस्परविभक्तसम्बुद्धिद्वितीयातृतीयाप्रथमाषष्ठीसम्बु- द्धयाख्यविभक्तिप्रयोगदर्शनान्मन्त्रेषु चाग्निवृत्राणीत्यादिषु विभक्तविभक्तिप्रयोगदर्शनाभावेऽपि वा सिद्धशब्दानुक्रमार्थवैभक्तिकग्रन्थमात्रालोचनेनापि विभक्तिप्रयोगसिद्धेरित्यर्थः । यच्च 'यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति, स आत्विजीनो भवतीति श्रुतिमुपन्यस्यार्त्विजीनाः स्यामेत्यध्येयं व्याकरणमिति भाष्येणार्त्विज्यार्हत्वं व्याकरण- प्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वाद व्याकरणप्रयोजनत्वं योग्यमेव न भवतीत्याह- यो इमामिति । चत्वारि शृङ्गेत्यृचं महाभाष्यकृता पूर्वोपन्यस्तामपि मन्त्राधिकरणेऽन्यविषयत्वेन व्याख्यातत्वादुपेक्ष्य, अपर आहेत्युपक्रम्य । चत्वारि वाक्परिमिता पदानि । तानि विदुर्ब्राह्मणा ये मनीषिणः ॥ गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति ॥ इत्यृचमुपक्रम्य चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्चेति भाष्येण ये ब्राह्मणा- स्तानि विदुस्ते मनीषिण इत्यर्थाश्रयणेन पदचतुष्टयज्ञानसाध्यं मनीषित्त्वं व्याकरणप्रयोजन- मुक्तम् । तत् अस्या ऋचोऽन्यपरत्वादप्रमाणकमित्याह-तथेति । निरुक्ते यान्योङ्कारो भूर्भुवः स्वरिति महाव्याहृतित्रयं वेति चतुष्टयम् । आदिशब्दाद्वेदचतुष्टयम्, मृगपक्षिसरीसृपमनुष्याः वाक्चतुष्टयमनपायिनी पश्यन्ती मध्यमा वैखरीति सूक्ष्मतमसूक्ष्मतरसूक्ष्मस्थूलरूपावस्थाभेद- भिन्नवाक्चतुष्टयमिति चतुष्टयबाहुल्यरूपप्रयोजनानुसारेण चत्वारि पदजातानि प्रपञ्चितानि । तन्न व्याकरणस्य व्यापार इत्यर्थः । एतच्च पदनिर्वचनसामर्थ्येऽपि, तद्विषये संचारयं- संख्यामात्रसामान्यादुक्तम्, न प्रामाणिकमित्यर्थः । अप्यक्षरैति निरुक्तकारवचनोपन्यासेन सूचितम् । ननु वैयाकरणाभिमतं नामादिचतुष्टयमपि निरुक्तेरोक्तं तद्वयाकरणापेक्षं भविष्य- तीत्याशङ्कयाह-यस्त्विति । परमार्थतस्तूत्तराद्धंर्चविरोधान्नैतद्विषयताप्यस्या ऋचः

२४ ] प्रथमाध्याये तृतीयपादः ५६३ सम्भवतीत्याह—एतद्विषयत्वे चेति । कस्तर्ह्यस्या ऋचः पारमार्थिकोऽर्थः पूर्वापरार्द्धर्चा विरोधीत्यपेक्षायामाह -- तस्मादिति । अस्मिन् व्याख्याने वागिति पदं षष्ठ्यन्तत्वेन विपरिणमयितव्यं प्रबो देवायानय इति शंसतीति प्रतीकविधिप्रभवमवयवान्तरानुमानम् । विश्वजिता यजेतेत्यत्राव्यक्तचोदनात्वरूपप्राकृतवाक्यसारूप्यसम्भवं ज्योतिष्टोमवदिति पदोप- मानम्, विधिप्रत्ययावगतफलव्यतिरेकेणानुपपद्यमानयागकर्त्तव्यत्वप्रभवा -स्वर्गकामपद- कल्पिकार्थापत्तिः । दध्नेन्द्रियकामस्येत्यत्र सारूप्याभावेऽपि सन्निधानमात्रेणाग्निहोत्रवदिति पदोपमानसूचनायादिशब्दः । ननु प्रमाणषट्कस्य प्रथमपादे व्युत्पादितत्वाच्चतुष्ट्वं प्रमाणानां न युक्तमित्याशङ्कयाह - षडिति । अपोद्धारे कारणमाह—अभावस्तावदिति । न चैरं कृत्वोद्गेयमित्यागमार्थज्ञायज्ञीयस्यैरापदवत्त्वावगतेरागमस्याप्यागमप्रामाण्यमस्तीत्याशङ्कयाह - प्रत्यक्ष्येति । स्वरूपादानेनात्र प्रत्यक्षत्वसम्भवान्नागमगम्यतेत्याशयः । ननु नामादिपदचतुष्टयविषयत्वे भाष्यकृता पूर्वं— चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आविवेश ॥ इतीयमृगुपन्यस्ता सा किमित्यपेक्षितेत्याशङ्कयाह-चत्वारीति । ननु भाष्यकृता चत्वारि शृङ्गेति चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च, त्रयो अस्य पादा भूतमविष्यद् वर्त्तमानाः, द्वे शीर्षे शब्दात्मानौ, नित्यः कार्यश्चेति, सप्त हस्तासो अस्य सप्त विभक्तयः । त्रिधा बद्धो वृषभो रोरवीति त्रिषु स्थानेषु बद्धः उरसि कण्ठे शिरसीति, वृषभो वर्षणात् रोरवीति शब्दं करोति महोदेवो मर्त्याँ आविवेश महान्देवः शब्दः मर्त्यान्मरणधर्माणो मनुष्यानाविवेशेति व्याख्याय, महता देवेन नः साम्यं स्यादित्यध्येयं व्याकरणमिति भाष्येण शब्दब्रह्मसाम्यं व्याकरणप्रयोजनमुक्तम् । का तत्रानुपपत्तिरित्याशङ्कयाह— यत्त्वि त । विनियोगनिरपेक्षं मन्त्रस्यार्थतात्पर्य्यविधारणमशक्यमित्याशयः । संख्यासामान्य- मात्रेण च विनियोगनिरपेक्षमन्त्रयोजनायां वैशेषिकादिष्वपि तन्त्रेषु योजयितुं शक्यत्वाद- व्यवस्था स्यादित्याह—तादृशं चेति । पार्थिवाप्यतैजसवायवीयान्यवयविद्रव्याणि चत्वारि शृङ्गाणि । त्रयो अस्य लोकस्य पादा महत् कार्यारम्भकाणि द्व्यणुकाति । द्वे शीर्षे प्रधाना- प्रधानपुरुषौ सप्त हस्ता द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षड्भावरूपाः । सप्तमश्चा- भावः त्रिधा बद्धः समवाय्यसमवायिनिमित्तकारणैर्बद्धः । वृषभो भोगहेतुः रोरवीति शब्दवान्महा देवो द्योतनात् मर्त्यानाविवेश मर्त्यैर्योग्य इत्येवमादियोजनोपपत्तेरतिप्रसक्तिः स्यादित्याशयः । यच्च भाष्यकृता — उत त्वः पश्यन्न ददर्श वाचमुतः त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं विसस्रे जायेव पत्यउशती सुवासा ॥ इत्यृचमुपन्यस्याप्येकः पश्यन्नपि न पश्यति, शृण्वन्नपि न शृणोत्येनामिति पूर्वार्द्धर्चम- विद्वांसमाहार्थमिति भाष्येण। विद्वांसमर्धं पूर्वार्द्धं वा वदतीत्यभिधानाद्वेदार्थविद्विषयत्वेन

५६४ मीमांसादर्शनम् [ सू० व्याख्याय, उतो त्वस्मै तन्वं विसस्रे तनु विवृणुते । जायेव पत्य उशती सुवासाः तद्यथा जाया पत्ये कामयमाना सुवासाः स्वमात्मानं विवृणुते, एवं वाग्वाग्विदे स्वमात्मानं विवृणुत इत्युत्तरार्द्धं व्याख्याय, वाङ् नो विवृणुयादित्यध्येयं व्याकरणमिति भाष्येण वाक्प्रकाशनं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—उतत्व इति । यत्तु भाष्यकृता— सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधिवाचि ॥ इत्यृचमुपन्यस्य सक्तुः सचतेर्दुर्द्भावो भवति, कसतेर्वा विपरीताद्विकसितो भवतीति तितउ परिपवनं ततवद्वा तुन्नवद्वा धीरा ध्यानवन्तः मनसा प्रज्ञानेन वाचमकृषत अत्र सखायः सन्तः सख्यानि जानते क्व एष दुर्गो मार्गः एकगम्यो वाग्विषयः । के पुनस्ते ? वैयाकरणाः । कुतः एतद् भद्रैषां लक्ष्मीर्निहिताधिवाचि भद्रा ह्येषां लक्ष्मीर्निहिता भवति । क्व अधिवाचि लक्ष्मीर्लक्षणाल्लाञ्छनाद्वा परिवृढा भवतीति व्याख्यानेन लक्ष्मीनिधानं व्याकरणप्रयोजनमुक्तम् । तद् गुरुसम्प्रदायसिद्धत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—एवमिति । यच्च सारस्वतीमित्युपक्रम्य याज्ञिकाः पठन्त्याहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति श्रुतिमुपन्यस्य प्रायश्चित्तीया माभूमेत्यध्येयं व्याकरणमिति भाष्येण प्रायश्चित्ताभाजनत्वं व्याकरणप्रयोजनमुक्तम् । तदपि वैदिकशब्दविनाशविषयत्वात् व्याकरणप्रयोजनत्वयोग्यं न भवतीत्याह—आहिताग्निरिति । यच्च दशम्यां पुत्रस्येत्युपक्रम्य याज्ञिकाः पठन्ति 'दशम्युत्तरकालं पुत्रस्य जातस्य पिता नाम विदध्यात् घोषवदाद्यन्तरस्थमवृद्धं त्रिपुरुषानूकमनरिप्रतिष्ठितं तद्धि सुप्र- तिष्ठिततमं भवति द्वयक्षरं चतुरक्षरं वा कृतं कुर्यान्न तद्धितमिति' न चान्तरेण व्याकरणं कृतस्तद्धिता वा शक्या विज्ञातुमिति भाष्येण पुत्रनामज्ञानं व्याकरणप्रयोजनमुक्तम् । तद् अन्यतः सिद्धेः प्रयोजनाभासमित्याह—यदपीति । घोषवन्तो वर्गंतृतीयाद्या वर्णा आदौ यस्य, तदन्तरं तस्य घोषवदादेरन्तरस्थस्य द्विचतुरादिवर्णस्य कृदन्तस्य नाम्नः परिग्रहः तद्धितस्य वर्जनं वा तयोर्न्नामकरणे वचनम् । तत्र न व्याकरणं नामप्रयोगोत्पत्ति- शास्त्रत्वेनापेक्षणीयमिति । तत्कृत्तद्धितसञ्ज्ञयोरिति तदित्यव्ययं लुप्तसप्तमीकमङ्गीकृत्य योज्यं तदुपपादनाथं कृत्तद्धितसञ्ज्ञयोरित्याद्युक्तम् । यच्च भाष्यकृता— सुदेवो असि वरुण यस्य ते सप्तसिन्धवः । अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ इत्यृचमुपन्यस्य, सुदेवो असि वरुण सत्यदेवो यस्य ते सप्तसिन्धवः, सप्तविभक्तयः अनुक्षरन्ति काकुदं तालुं काकुर्जिह्व्वा सास्मिन्नुद्यत इति काकुदं सूर्म्यं सुषिरामिव तद्यथा

सूर्य्यं सुपिराग्निरनुप्रविश्य तदन्तर्गतं मलमपहन्ति एवं सप्तसिन्धवः ताल्वनुक्षरन्ति तेनासि सत्यदेव इति व्याख्याय, सत्यदेवाः स्यामेत्यध्येयं व्याकरणमिति भाष्येण सत्यदेव- त्वप्राप्तिर्व्याकरणप्रयोजनमुक्तम् । तत्रास्या ऋचः सङ्ख्यासामान्यमात्रेण विभक्तिविषय- त्वमभ्युपगम्याप्यन्यतः सिद्धत्वान्नातीव व्याकरणापेक्षेति तावदाह—सुदेव इति । परमार्थ- तस्तु सिन्धुशब्दस्य नदीवाचित्वेन प्रसिद्धत्वान्नद्य एवात्र सप्त विवक्षिताः । अथापि वरुणशब्देन यज्ञमृत्विजं यजमानं वाऽभिप्रेत्य तत्प्रशंसापरेयमृगिष्यते, तथापि होत्रीया- प्रशास्त्रीयाब्राह्मणाच्छंसीयापोत्रीयानेष्ट्रीयाच्छावाकीयाग्नीध्रीयाह्वयहोत्रागताः सप्तवाचः, षड्जऋषभ गान्धारमध्यमपञ्चमधैवतनिषादाख्यसामस्वरगतां वा प्रस्तावप्रणवोद्गीथहिङ्कार- प्रतिहारोपद्रवनिधनाख्यसामभक्तिगता वा वाचः सप्तेत्यन्यपरत्वात् व्याकरणप्रयोजनत्वं निष्प्रमाणकमित्याह — यदा पुनरिति । नदीनामतिहासगोचरापन्नत्वादितरासां याज्ञिक- गोचरापन्नत्वादित्यर्थः । एवं महाभाष्योक्तमुख्यानुषङ्गिकप्रयोजननिराकरणेन न चाश्रितप्रतिपदपाठानां वैदि- कानां लक्षणेन कार्यमित्यादिग्रन्थोक्ते व्याकरणस्य निष्प्रयोजनत्वे समर्थिते, यदि कश्चित- स्मादव्याकृता वागुद्यत इति श्रुतिपर्यालोचनेन व्याकरणसंस्कृतानां शब्दानामदृष्टसाधनत्व- लक्षणसाधुत्वावगमात्साधुत्वसिद्धिर्व्याकरणप्रयोजनं वदेतं प्रत्याह—संस्कृतानां चेति । श्लोकं व्याचष्टे —व्याकरणेनेति । शब्दत्ववर्णत्वतद्व्यक्तितत्समुदायावयविस्फोटगोशब्दत्व- क्रमग्रहणोच्चारणतत् साधनपुरुषाणां मध्ये किं वस्त्विति कस्येत्यस्य व्याख्या । उत्पत्त्यादीनां चतुर्णां मध्ये कः संस्कार इति को वेत्यस्य । शब्दत्ववर्णत्वजातिव्यक्ति- पक्षेषु तावद् दोषमाह — न तावदिति । जातिपक्षे तावदुभयत्र प्रसङ्गं विवृणोति-शब्दत्व इति । वर्णव्यक्तीनां तु संस्कारः प्रत्येकं वा स्यात् समुदितानां वा । तत्र प्रत्येकपक्षेऽतिप्रसङ्गं विवृणोति — एतेनेति । समुदायाभावात् समुदितानामपि संस्कारो न भवतीत्याह — समुदायस्त्विति । किं च नित्यानां वर्णव्यक्तीनां संस्कारः स्यादनित्यानां वा । तत्रानित्य- पक्षे तावद्विनष्टानुत्पन्नानामसंस्कार्यत्वादुत्पन्नानामपि संस्कारक्षणं यावदवस्थानान्न संस्कारः सम्भवतीत्याह येषां तावदिति । संस्कारक्षणं यावदवस्थानाभ्युपगमेऽपि व्यवहारकाले- विनष्टत्वेन कार्यानुपयोगित्वात्संस्कारो न तु युक्त इत्याह — न चेति । एतदेव विवृणोति — यथैवेति । ननु भाष्यकृता किं पुनर्नित्यः शब्दः आहोस्वित्कार्य इति पृष्ट्वा सङ्ग्रह एतत्प्राधान्येन परीक्ष्यते नित्यो वा स्यात्कार्यो वेति भाष्येण सङ्ग्रहाख्ये वार्त्तिककारकृते ग्रन्थान्तरे तात्पर्येणैतद्विचार्यते, नात्र तेन विचारेण प्रयोजनमित्युत्तरे दत्ते, कथं तर्ह्यत्र लक्षणप्रवृत्ति- रित्याशङ्क्य, यद्यपि नित्योऽथापि कार्यं उभयथापि लक्षणं प्रवर्त्यमित्युक्त्वा कथमनित्य- पक्षे संस्कारानुपपत्तिरित्याशङ्क्याह — तत्तश्चेति । अत्यन्तविरुद्धत्वाच्च नित्यानित्यत्वयोरनियमाभिधानं न युक्तमित्याह — अदूरेति । कार्यत्वे च शब्दस्योत्पत्तिलक्षणः संस्कारः स्यात्तत्र च नित्यस्य वेदस्यानित्यशब्दव्युत्पत्ति-

५६६ मीमांसादर्शनम् [ सू० विषयत्वायोगेन व्याकरणस्य वेदमूलत्वासम्भवादनित्यशब्दोपयुक्तत्वेन च नित्यवेदाङ्ग- त्वाभावाद्दुभयविधमपि शास्त्रत्वं हीयेतेत्याह—उत्पादश्चैवेति । श्लोकं व्याचष्टे—व्याकर- णेति । वेदोत्पादकत्वेन तु व्याकरणस्य वेदाङ्गत्वे वेदोऽप्यप्रमाणं स्यादित्याह—अथेति । कार्यत्वे च शब्दस्य संस्कारोऽशक्योऽनर्थकश्चेति दोषद्वयं पूर्वोक्तमप्यनियमनिरासायाह -- शब्दश्चेति । नित्यत्वे तु शब्दस्य विक्रियारूपोऽपि शब्दादुत्पत्त्याख्यश्च तावत्संस्कारो न सम्भवतीत्याह - तस्मादिति । न च ज्ञानरूपप्राप्तिलक्षणः संस्कारः शब्दस्य व्याकरणेन क्रियते, श्रोत्रजन्मत्वात्तस्येत्याह—विनेति । अविहितत्वाच्च व्याकरणस्य नापूर्वसाधन- सामर्थ्याधानलक्षणसंस्कारार्थता युक्तेत्याह—अदृष्टार्थस्त्विति । शब्दानां च दृष्टार्थत्वेना- पूर्वसाधनत्वाभावान्न तत्सामर्थ्याधानलक्षणेन संस्कारेण प्रयोजनमस्तीत्याह— दृष्टार्थेषु चेति । ननु लोकव्यवहारार्थानां शब्दानां दृष्टार्थत्वादसंस्कार्यत्वायोगेऽपि, क्रत्वर्थानां व्रीहि- यववन्नियमापूर्वार्थत्वात् संस्कार्यत्वं भविष्यतीत्याशङ्कयाह—कर्मेति । किं च व्याकरण- क्रियायाः पौरुषेयग्रन्थाधीनत्वेनादिविधिविषयतैव न युज्यते । प्रकरणााम्नानं दूरनिरस्त- मित्याह—ह्रस्त्थादीति । ननु 'तस्मादेषा व्याकृता वागुद्यत' इत्यानारभ्याधीतः प्रत्यक्षो विधिः कथमपहूयत इत्याशङ्कयाह तेनेति । नित्यानित्यसंयोगविरोधप्रसङ्गान्नास्यैतत्पर- तास्तीति प्रागेवोक्तमित्याशयः । व्याकरणक्रियाविधेयत्वाभ्युपगमेऽपि प्रकरणाभावेन क्रत्वर्थत्वाभावान्न क्रत्वर्थशब्दसंस्कारत्वं युक्तमित्याह –अनारम्येति । नन्वनारभ्याधीत- स्यापि खादिरोदेर्दशपूर्णमासार्थता दृष्टेत्याशङ्कयाह ऐकान्तिकम् हीति । ननु यथाफलकल्पनालाघवायाऽश्वप्रतिग्रहेष्टौ वैदिकाश्वदानविषयत्वं तृतीये वक्ष्यते, तथेहापि वैदिकशब्दविषयत्वं व्याकरणक्रियाया भविष्यतीत्याशङ्कयाह—लोकेति । लौकिकवैदिकशब्दानां भेदस्य निराकरिष्यमाणत्वान्न संस्कार्यासंस्र्कार्यव्यवस्था युक्तेत्याशयः । उपसंहरति—अत इति । किं च श्रोत्रोपलब्धिबुद्धिनिर्ग्राह्यः प्रयोगेणा- भिलक्षितः आकाशदेशः शब्द इति वदद्भिर्वैयाकरणैः शब्दस्याकाशाश्रितत्वाभ्युपगमान्नि- त्याश्च शब्दा इति .च नित्यत्वाभ्युपगमादमूर्तत्वाच्चाकाशाश्रितविभुत्वदृष्टान्तेन संस्कार्यत्वं वारणीयमित्याह—आकाश इति । विभुत्वस्य ज्ञानविषयत्वलक्षणप्राप्तिसम्भवेऽपि गां दोग्धीत्यादौ स्वरूपप्राप्तेः संस्कारत्वेन प्रसिद्धायाः वारणीयत्वेनात्रेष्टत्वान्न साध्यविकल- त्वम् । अइउणित्यादिचतुर्दशसूत्रात्कृताणादिसंज्ञात्मकप्रत्याहारमात्रेण वर्णव्यक्तिसंस्कारसिद्धेः शेषग्रन्थानर्थक्यं स्यादित्याह—वर्णेति । जातिव्यक्तिसंस्कारपक्षौ दूषयित्वा, समुदाय- संस्कारपक्षं दूषयति—समुदायास्त्विति । नन्वेकेषां गकारौकारविसर्जनीयानामेकगोशब्दबुद्धिविषयत्वलक्षणः समुदायो लोकसिद्धत्वान्नाप्राप्तत्वमर्हतीत्याशङ्कयाह—प्रत्येकं चेति । तथा नवमे हिरण्यशकलसहस्ते णाग्निं प्रोक्षतीत्यग्निबुद्धिविषयभूतानामिष्टकानां धर्म्मः प्रोक्षणादिः प्रतीकमावर्त्तनीय

इति पूर्वपक्षे, वक्ष्यते, तथाऽत्रापि गकारादिवर्णसमुदायसंस्कारपक्षे प्रतिवर्णं संस्कारावृत्तिः प्रसज्येतेत्यर्थः । ननु पूर्वपक्षस्यास्थायित्वान्न दृष्टान्तता युक्तेत्याशङ्क्याह -- न चेति । अयमाशयः -- इष्टकाव्यतिरिक्तावयव्यभावेनाग्निशब्देस्येष्टकासमुदायमात्रवाचित्वात्समुदायसंस्कारत्वाभ्युप - गमेन पूर्वपक्षिते, स्थण्डिलारूपस्यावयविनाऽग्निशब्दवाच्यस्येष्टकाभिरारम्भोपपादनेन संस्कार्यद्रव्यैक्यात्संस्कारानावृत्तिरिति पूर्वपक्षन्यायानुपमर्देन सिद्धान्तकरणाद् युक्तं दृष्टान्तत्वम् । न चात्र गकारादिभिः एको गोशब्दाऽवयव्यारम्यते, येनाग्निधर्मसिद्धान्तन्यायो न स्यात् । 'विच्छिन्नयत्नव्यङ्ग्यैश्च नित्यैः सर्वंगतैरपि । व्यतिरिक्तपदारम्भो वर्णैर्नत्रोपपद्यते ॥' इति श्लोकेन स्फोटवादे निराकृतत्वादिति स्फोट-गोशब्द-गत्वानाम्प्यवयविवन्निरा- कृतत्वान्न संस्कार्यत्वं सम्भवतीत्याह स्फोटेति । समुदायसंस्कारपक्षे च सर्ववर्णसमुदायो वा संस्क्रियेत, कतिपयवर्णसमुदायो वा तत्राद्ये पक्षे सर्ववर्णसमुदायस्यार्थाभावादर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिकमयुक्तं स्यादित्याह-सर्वेति । कतिपयवर्ण- संस्कारपक्षेऽपि केचिदेव वर्णाः संस्क्रियन्ते, नान्य इति व्यवस्थाहेत्वभावेन स्वरूपतः कतिपयत्वायोगात्कतिचिदेवं संस्क्रियन्त इति संख्यातः कतिपयत्वं वाच्यम् । तत्र संख्यां विना वर्णानामसंस्कार्यत्वेनान्वयव्यतिरेकाभ्यां वर्णसंख्यायाः संस्कार्यत्वात्साधुत्वं स्यात् । तच्च गाव्यादिपदेषु अपि समानमित्याह--अथेति । गवादिपदगतेव वर्णसंख्या संस्कार्या, न गाव्यादिपदगतेति व्यवस्थाशङ्कानिरासार्थम्-पदे पदइत्युक्तम् । क्रमसंस्कारपक्षं दूषयति संस्क्रियेतेति । शब्दधर्मत्वाभावेन तत्संस्कारेऽपि शब्दस्य साधुत्वं न सिध्यतीत्युक्तम् । ग्रहणोच्चारणद्वारापचारिकशब्दधर्मत्वाभ्युपगमेऽपि गाव्यादिष्व- प्यानुपूर्व्याः सम्भवात्साधुत्वं प्रसज्येतेत्यर्थः । ग्रहणोच्चारणसंस्कारपक्षौ दूषयति- ग्रहणेति । अत्रोपरिष्टादित्यपेक्षायामाह - वक्ष्यति हीति । यथाभिक्रामं जुहोतीत्यभिक्रमणस्य होमसाधनत्वासम्भवोऽभिक्रमाधिकरणपूर्वपक्षे वक्ष्यते । तथा ग्रहणमुच्चारणं वा प्रतिव्याकरण- क्रियायाः साधनत्वं न भवतीत्यर्थः । ननु साक्षात्साधनत्वाभावेऽपि, यथाभिक्रमणस्य कर्तृप्रत्यासत्तिजननद्वारा होमसाधनत्वं सिद्धान्ते वक्ष्यते, तथोच्चारणसाधनतालवादिसंस्कार- द्वारोच्चारणसाधनत्वं ग्रहणसाधनश्रोत्रसंस्कारद्वारा वा ग्रहणसाधनत्वं व्याक्रियाया भविष्यतीत्याशङ्क्याह -- तालवादीति । अस्तु तर्ह्यूच्चारयितुः पुरुषस्य संस्कारद्वारा तन्मनः संस्कारद्वारा वोच्चारणसाधनत्वं ग्रहीतृपुरुषसंस्कारद्वारा, तन्मनःसंस्कारद्वारा वा ग्रहणसाधनत्वमिति स्वयमेवाशङ्कयाह मनो वेति । यच्छास्त्रारम्भे भाष्यकृता 'अथ शब्दानुशासनमित्युक्त्वा अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्र- मधिकृतं वेदितव्यमिति स्वथमेव व्याख्यातम् तद्व्यर्थं स्यादित्यर्थः । इतश्च शब्दानुशा- सनं व्यर्थमित्याह - शिष्येति ।

५६८ मीमांसादर्शनम् [ सू० . किं च वैयाकरणैः स्फोटात्मकः शब्दोऽभ्युपगतः । तस्य च निरवयवत्वात्प्रकृति- प्रत्ययान्वाख्यानरूपः संस्कारो न युक्त इत्याह — स्फोटेति । स्फोटपक्षे न केवलं वर्णा एवा- सन्तः किं तु प्रकृतिप्रत्ययावपीत्यर्थः वाक्यस्फोटापेक्षायां च स्वरूपेणापि पदस्फोटस्यासत्त्वा- त्संस्कार्यत्वं न युक्तमित्याह — वाक्येति । नन्वसतामेव नामादीनां निष्कृष्य कल्पनया संस्कारो भविष्यतीत्याशङ्कयाह — अपोद्धारेणेति । कल्पनाप्यसतो न सम्भवतीत्याशयः । ननु निरवयवोऽपि पदस्फोटस्तत्तद्- ध्वनिसहकृतश्रोत्रवशात्पूर्वं गकारादिरूपेण प्रतीयते, ततस्तदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौरित्येकं पदमिति स्फुटं पदतत्त्वज्ञानम्, रत्नतत्त्वपरीक्षायामिवानैकमिथ्याज्ञान- सहकृतेन चक्षुषा स्फुटा रत्नतत्त्वप्रतीतिः । एवं वाक्यस्फोटोऽपि पूर्वं गोपदाकारेण शुक्लपदाकारेण च प्रतीयते । ततः पदाकारमिथ्याज्ञानसहकृतेन श्रोत्रेण गौः शुक्ल इत्येकं वाक्यमिति स्वरूपेण वाक्यस्फोटः प्रतीयते । ततश्च ध्वनयो यत्स्थानकरणवशादेकस्मिन्पद- स्फोटे वाक्यस्फोटे वा यद्वर्णाकारम्, यत्पदाकारं वा ज्ञानं जनयन्ति, पदवाक्यस्फोटान्तरेऽपि तत्स्थानकरणवशात्तद्वर्णाकारम्, तत्पदाकारं वा ज्ञानं जनयन्तः सादृश्यनिमित्तभ्रान्तिवशात्स एवायं वर्णः । तदेवेदं पदमिति प्रत्यभिज्ञानं जनयन्तीत्यन्योन्यविलक्षणेषु गौः शुक्लो गौः 'कृष्ण इत्यादिषु सादृश्याध्यवसितैकत्वानां नामादीनामपोद्धारो भविष्यतीत्याशङ्कयाह — अन्येति । अन्यस्य वाक्यस्फोटस्यावयवानामन्यस्य वाक्यस्फोटस्यावयवैः सारूप्यादित्यर्थः । सादृश्यमप्यसतो न सम्भवतीत्याशयः । ननु — गवये नरसिंहे वाप्येकज्ञानादृते यथा । भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥' इत्यादिस्फोटवादिभिरसतामप्यवयवानां सादृश्यसम्भवे निदर्शनमुक्तम् । तत्कथमसत्त्वे सादृश्यानुपपत्तिरित्याशङ्कयाह — गवयादिष्विति । लेख्यादिकृतेषु गवयादिषु येऽवयवाः तेषां मुख्यगवयादिगतैः कर्णखुरादिभिरवयवैः सारूप्यं यन्निदर्शितम्, तत् तेषां सत्यत्वा- त्स्वावयवसामान्ययोगाच्चोपपन्नम्, तथा इहापि वाक्यस्फोटे तथात्वे अवयवानां सत्यत्वे स्वावयवसामान्ययोगे च सति सारूप्यं स्यात् । ततश्च निरवयवस्फोटसिद्धान्तहानि- रित्याशयः । विस्तरेण चैतत्पूर्वं निरस्तमित्याह — वाक्येति । उपसंहरति -- तेनेति । नामादीनामपोद्धारेण प्रकृतिप्रत्ययान्वाख्यानरूपस्य संस्कारस्य कल्पनेत्यर्थः । अप्रामाण्या- पत्तेश्चासतामपोद्धारो न युक्त इत्याह - अन्वाचक्षीतेति । यच्च शब्दानुशासकत्वेन शास्त्रत्वं व्याकरणस्योक्तम्, तत्पदविषयं वा स्यात्, वाक्यविषयं वा । तत्रासत्यत्वेन पदानामनुशास्यत्वाद्वाक्यानुशासनस्य च व्याकरणेना- कृतत्वान्नोभयथापि युक्तमित्याह - अशिष्यत्वादिति । युक्तं तु वाक्यस्यैवानुशासनं लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम इति वार्त्तिककृताथं प्रयुक्तानां शब्दानामनु- शास्यत्वाभिधानाद्वाक्यस्यैव चार्थप्रयुक्तत्वेनेष्टत्वादित्याह — अर्थेनेति ।