मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 610, कुल 804 में से
संदर्भ में पढ़ें५५६ मीमांसादर्शनम् [ सू० दारशब्दस्य व्याकरणेऽनुगमः । लोके च प्रवीरा ये कुशलशब्दस्य दातृमहत्त्वयोश्च दारशब्दस्येत्यर्थः १ ।) अकृदन्तेष्वपि कृदन्तत्वान्वाख्यानाद् व्याकरणस्य लोकविरोधमुक्त्वा, समासाभावेऽपि समासान्वाख्यानात्सर्वविरोधमाह - अश्वेति । अतद्धितान्तेष्वपि तद्धितान्तवद्व्याख्याना- द्विरोधमाह-एवमिति । वेदविरुद्धार्थान्वाख्यानादङ्गव्याघातशङ्कापत्तेर्न व्याकरणस्यार्थे तात्पर्यमित्याह- तथेति । अत्रैवोदाहरणद्वयमाह कलेरिति । आपो वा ऋद्धिमियमार्च्छन् । तासां वायुः पृष्ठेत्यवर्त्तते ततो वसुत्, तवामं समभवत्तस्मिन्मित्रावरुणौ पर्यपश्यताम्, तावब्रूतां वामं मर्या इदं देवेष्वजनीति, तस्माद्वामदेव्यमिति वामदेवेष्विति समभिव्याहृतशब्दद्वयोच्चा- रणनिमित्तवामदेव्यशब्दव्युत्पत्तिः । कलनक्रियानिमित्तकालेयशब्दव्युत्पत्तिश्च वैदिकीं वैयाकरणीं दर्शननिमित्तां बाधत इत्यर्थः । कल्पसूत्रकारैश्च कृष्णश्मवास इति कृष्णशशशब्दस्य व्याकरणाननुगतदकारापगमेन कृष्णदशब्दवाचितया व्याख्यानात्कृष्णवलक्षे अजिने इति च वलक्षशब्दस्य लोकव्याकरणा- नवगतशुक्लत्ववाचितया व्याख्यानात्, यूपादिशब्दानां च व्याकरणमनादृत्यैव व्याख्यानान्न व्याकरणस्य पदार्थनिश्चायकत्वमस्तीत्याह-तथेति । अन्वस्तु नाम पदान्तरेषु व्याकरणान- पेक्षोऽर्थनिर्णयः । यत्तु भाष्यकृता स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेत्यत्र किं स्थूला चासौ पृषती चेति कर्मधारयः, स्थूलानि पृषन्ति यस्याः सेयं स्थूलपृषतीति बहुव्रीहिर्वेति सन्देहनिवृत्तिर्नवैयाकरणस्य भवतीत्युक्तम् । तत्र कः परिहार इत्याशङ्क्याह- यथा चेति । पदार्थसन्देहनिवृत्तेर्व्याकरणप्रयोजनत्वं निराकृत्य वाक्यार्थसन्देहनिवृत्तिरपि निरा- करोति-किं चेति । ननु वाक्यार्थसन्देहनिवृत्तिप्रयोजनत्वं भाष्यकृतानुक्तत्वान्न निराकार्यं- मित्याशङ्क्य, प्रसङ्गापादनार्थं तन्निराकरणमित्याह-यदीति । किंचिदित्यक्रियार्थत्व- मभिमतम् । औदुम्बराधिकरणस्य साध्यांशविचारार्थत्वाभावे किमीदुम्बरत्वस्य फलसम- भिव्याहारः साधारणत्वप्रतिपत्त्यर्थः, प्रशंसार्थो वेति व्याख्येयम् । प्रमाणान्तरेणाऽन्नकरण- त्वस्य होमसम्बन्धहेतुत्वमज्ञातं ज्ञाप्यत इत्यज्ञातज्ञापनाभिप्रायो विधिशब्दः हेतुद्वारोऽर्थवाद इति शाकपार्थिववन्मध्यमपदलोपी समासः । दृष्टार्थत्वशब्देनार्थतात्पर्यमात्रं सर्वमन्त्रसा- धारणं मन्त्राधिकरणे व्युत्पादितम् । न स्मारकत्वम्, स्तोत्रशस्त्रादिमन्त्रव्यापकत्वादिति दर्शितं व्याकरणानपेक्षोदाहरणम्युक्तैकत्वविवक्षायामेकवचनस्मृतेर्व्याकरणेनैकत्वविवक्षा- प्रतीतेर्विरोधोऽप्यस्तीति दर्शयितुम्-प्रहेत्युक्तम् । न त्वनन्यलभ्यस्य प्रयोजनवदर्थवाद- त्वादिनिर्णयस्य च मीमांसासिद्धत्वान्न व्याकरणप्रयोजनत्वोपपत्तिरिति स्वयमेवाशङ्क्याह- अथेति । स्थूलपृषत्यादिशब्दार्थस्यापि कल्पकारादिव्याख्यानान्निर्णयः सेत्स्यतीत्याशयः । १. अयं पा० २ पु० ना० ।