मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 609, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५५५ एष विग्रहो न्याय्य इत्युक्त्वा नित्याकृतिरेकद्रव्यविनाशोऽपि द्रव्यान्तरे प्रत्यभिज्ञानादिति चाक्षेपं परिहृत्य, कूटस्थनित्यत्वाभावेऽपि वा पट्टकुटीवद्विनष्टा वा अथाकृतेर्द्रव्यान्तरभावेऽय- मिति तत्त्वप्रतिज्ञानान्नित्यतेति परिहारान्तरमुक्त्वा अथ वा किं न एतेन इदं नित्यमिदम- नित्यमिति यन्नित्यं तं पदार्थं मत्वैष विग्रहः क्रियत इति पदार्थविचारसिद्धान्तस्थापना- क्षेपानवस्थितहेतूपन्यासेनानावस्थितौ कृते एवमत्यन्तविषमर्धार्त्वादिलोकप्रसिद्धानामेव शब्दानां क्लेशेनान्तं गत्वा यथावस्थितानुवादमात्रकरणांन्निष्फलश्रमापत्तिरित्यर्थः । तत्र ‘अपि चेत्य’नेन यथावस्थितशब्दज्ञानमपि सर्वंप्रतिपत्तॄणां न भवतीत्युक्तम् । स्तुत्यर्थ- मित्यन्तासम्भाविता स्तुतिरपि न सम्भवतीति सूचितम् । ननु भाष्यकृता न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुमिति लघूपायान्तराभावाभिधानाद् गुरोरप्यस्य प्रतिपदपाठामकगुरुतरोपायपेक्षया लघुत्वं भविष्यति एतदेव चान्यैरुपपादितमित्या- शङ्क्यानुभाषणपूर्व्वकमुपसंहरति—यदपीति । तत्त्वावबोधो रूपादेर्नास्ति व्याकरणादृते इत्याद्यपि वक्तव्यमित्यर्थः । ननु रूपादेः प्रत्यक्षगम्यत्वान्न व्याकरणापेक्षा, तत्साधुशब्दविवेकस्य तु व्याकरणमन्तरेणाज्ञानादुपहासो युक्त इत्याशङ्कयार्थप्रतीतिसाधनत्वात्सर्वेषां गोगाव्यादिशब्दानां साधुत्वे तेषां च श्रोत्रेन्द्रियागम्यत्वान्न व्याकरणपेक्षेत्यभिप्रायेण परिहरति—को हीति । प्रमाणान्तरा- गोचरार्थविषयत्वं शास्त्रस्य स्वभावः । प्रमाणान्तरगृहीतार्थानुवादित्वं लोकस्य । इति करणार्थवाची ईदृशशब्दप्रयोगात्तत्त्वावधारणमिति प्रथमा कीदृशं तर्ह्यर्थप्रवृत्तितत्त्वानां शब्द एव निवन्धनमिति श्लोकस्योत्तरार्द्धं वक्तव्यमित्यपेक्षायामाह—अत इति । यद्यप्यसन्देहार्थं चाध्येयं व्याकरणमित्यादिभाष्येण वेदार्थगतसन्देहनिवृत्तिप्रयोजनत्वं व्याकरणस्योक्तम् । तदपि दूषयति—असन्देहश्चेति । पदार्थगतस्य चासन्देहस्य निवृत्ति- र्व्याकरणस्याप्रयोजनम्, वाक्यार्थमन्तरा वा उभयथाप्यन्यतः सिद्धत्वात् व्याकरणान्नचा- सिद्धेनं व्याकरणप्रयोजनमित्यर्थः । पदार्थसन्देहनिवृत्तेरन्यतः सिद्धिमुपपादयति—पदार्थेति । व्याकरणेन चासिद्धिमुप- पादयति—व्याकरणेन पुनरिति । नन्वीदृशं पदमस्मिन्नर्थे साध्वित्यर्थविशेषावच्छिन्नस्यैव पदस्वरूपस्यान्वाख्यानादर्थज्ञानमपि व्याकरणात्सम्भवतीत्याशङ्क्य शब्दान्वाख्यानोपाय- मात्रके व्याकरणेऽर्थकथनं न तात्पर्य्येणेति निदर्शयितुमाह—तथा हीति । व्याकरणाद्धि सर्वनाम्नां धातुजत्वेन क्रियायोगनिमित्तता प्रतीयते । न च वृद्धव्यवहारे तथा प्रतीति- रित्यर्थः । अत्रैवोदाहरणमाह—गमेरिति । अनेन सूत्रेण गत्यर्थात् गमेर्धातोरौणादिके डोप्रत्यये विहिते डित्करणाच्च टिलोपे कृते कर्त्तरि कृदिति गन्तरि गोशब्दव्युत्पादनाया- न्वाख्यानादरे लोके सिद्धा जातिवाचिता हीयेत । लोकमूलत्वाच्च व्याकरणस्य नैतद्यु- क्तमित्यर्थः (उदाहरणान्तरमाह—तथेति । कुशला दातरि कुशलशब्दस्य दातरि च